________________
३२५
१।६०]
प्रथमः प्रत्यक्षप्रस्ताव प्रमाणीत्तत्प्रक्लप्तिस्तु न भवत्येव सर्वथा ।
प्रमाणस्यैव सद्भावात्तत्प्रेक्लप्तिविघातिनः ॥७८८॥ इति । तन्न शून्यवादः श्रेयान् ।
निर्विकल्पकवस्तुवादिनोऽपि सतत्त्वं विकल्पत्वम्, 'सह तैर्निरंशादिभिर्विकल्पैर्वर्तत इति सतत् तस्य भावः सतत्त्वम्' इति व्युत्पादनात् । तत् यथा प्रमासतत्त्वतो भावस्य ५ तथा अतत्त्वम् अविकल्पत्वम् न विद्यन्ते ते विकल्पा यस्य तदतत्तस्य भावोऽतत्त्वमिति व्युत्पादनात् । तदपि प्रमासतत्त्वतः प्रमाणस्य सविकल्पत्वात् । वाशब्द उभयत्रापि पक्षान्तरद्योतने । तात्पर्यमत्रापि
सर्वविकल्पातीतं तत्त्वं न विना प्रमाणतः सिद्धयेत। तद्विपरीतस्यापि च तत्वस्यैवं प्रसिद्धिभयात् ।।७८९॥ तत्र सदपि प्रमाणं सर्वविकल्पव्यतीतमेव मतम् । यदि तस्य न प्रसिद्धिः स्वतोऽस्ति तन्निश्चयाभावात् ॥७९०॥ अविनिश्चितमपि तच्चत् ; स्वतः प्रसिद्धं प्रमाणमविकल्पम् । सविकल्पमेव न तथा किमित्यवस्था कुतस्तत्त्वे ॥७९१।। परतस्तत्प्रतिपत्तौ तदपि परं निर्विकल्पमेव यदि । तत्राप्ययं प्रसङ्गो भवनशक्यो निवारयितुम् ।।७९२।। पुनरपरनिर्विकल्पप्रकल्पनायामवस्थितिर्न स्यात् । तस्मात्प्रमाणमन्ते सविकल्पकमेव वक्तव्यम् ॥७९३॥ तस्य स्वनोऽनुभवनात् युगपत्स्वपरार्थनिर्णयप्रकृतेः । एकान्तनिर्विकल्पं प्रभवति तस्मिन् कथं तत्त्वम् ॥७९४॥ इति ।
भवतु प्रमाणादेव सविकल्पकादेव च भावेष्वसत्त्वमतत्त्वञ्च, तत्तु न परमार्थतः, विचारक्षमत्वात् , अपि तु व्यवहारेणैव संवृतिरूपेणेति चेत् ; न; ततोऽसत्त्वातत्त्वयोरिव सत्त्वसतत्त्वयोरपि भावेषु कल्पनापत्तेः व्यवहारस्य तत्राप्यविशेषात् । न चेदमुचितम् ; विरो. धात् । यदि तेषु सत्त्वसतत्त्वे तदा कथमसत्त्वासतत्त्वे । ते चेत् ; कथं सत्त्वसतत्त्वे इति ? तदेवाह
२५ तक्तत्त्वमतत्त्वं वा परसत्त्वसतत्वयोः ॥६॥
न हि सत्त्वं सतत्त्वं था तदसत्त्वासतत्त्वयोः । इति ।
तद् अनन्तरोक्तम् असत्त्वमतत्त्वं च वाशब्देन समुच्चयात् । न हि नैव सम्भवति । कदा १ परयोस्तद्विरोधिनोः सत्त्वसतत्त्वयोः सतोः तथाऽसत्त्वं सतत्त्वं च । वाशब्देना.
1-णात्तत्र क्लुप्ति-भा०, 4०, ५०, स० । २ सर्वाभावकल्पनाप्रतिपक्षभूतस्य । ३ सविकल्पत्वम् ।