________________
३२४
न्यायविनिश्चयविवरणे
[१६६०
अनवस्थानदोषोऽयमनिवार्यः प्रसज्यते । तस्मान्न सम्भवत्येव विज्ञानं ते विकल्पकम् ॥७८०॥ न चासम्भवतस्तस्मात्तत्त्वस्य प्रतिवेदनम् ।
व्योमाम्भोरुहसौरभ्यादपि तस्य प्रसञ्जनात् ।।७८१॥
तदेवाह-'कुतस्तत्त्वमतत्वतः' इति । कुतो नैव तत्त्वम् अद्वयम् अतन्यतः अविद्यमानसद्भावाद्विचारात् गतमिति । एतेनानुमानं विचार इति प्रत्युक्तम् । अपि च,
अनुमानं भवेद्व्याप्तौ साध्यवित्त्या च तेंद्रगतिः । तद्वित्तिर्यदि चाध्यक्षात् प्राप्त निःश्रेयसं भवेत् ।।७८२।। न च निःश्रेयसप्राप्तस्यानुमानं प्रकल्प्यते । विधूतकल्पनाजालं यत्ते निःश्रेयसं मतम् ॥७८३॥ विकल्पः साध्यधीश्चेन्न तस्य स्वांशे व्यवस्थितः । साध्यैकत्वावसायाच्चेत्तदंशस्यैवमुच्यते ॥७८४॥ वस्तुतो न तथाप्यस्ति साध्यवित्तिस्ततः कथम् । व्याप्तिधीरनुमानं यदद्वःतविषयं भवेत् ॥७८५॥ यादृशं व्याप्तिविज्ञानमयथाथं भवेत्ततः ।
ताहगेवानुमानं चेत्ततस्तत्त्वगतिः कथम् ? ॥७८६॥ ..
तदाह-'कुतस्तत्त्वमतत्त्वतः' इति । न विद्यते तत्त्वम् अद्वयं विषयत्वेन यस्मिन् तद् अतत्त्वम् अनुमानं तस्मात् कुतस्तत्वं गतमिति यदि निरंशस्य स्वतः परतश्च न प्रतिभासनम् ।
___ तदपि मा भूत् ; सर्वाभावस्यापि बौद्धैः सिद्धान्तीकरणादिति कश्चित् । निरंशेतरनित्ये. तरादिविकल्पैनिर्विकल्पस्यैव तत्वस्य परिकल्पनादिति परः । तत्राह
यथा सत्वं सतत्त्वं वा प्रमासत्त्वसतत्त्वतः ॥५॥
तथाऽसत्त्वमतत्त्वं वा प्रमासत्त्वसतत्त्वतः । इति ।
यथा येन गत्यन्तराभावप्रकारेण सत्त्वं ज्ञानज्ञेयरूपस्यार्थस्य विद्यमानत्वं प्रमासस्वतः प्रमाणभावात् । तथा तेन प्रकारेण तस्य असत्त्वमपि प्रमासत्त्वतः प्रमाणभावादेव । तात्पर्यम्
प्रमाणनिरपेक्षस्य सर्वाभावस्य कल्पनम् । न युक्तम् , तद्विपक्षस्य तथाक्लुप्तिप्रसजनात् ॥७८७॥
२०
१ तत्त्वप्रतिवेदनस्य । २ -वा विचा-ता० । ३ व्याप्तिज्ञानम् । ४ साध्यज्ञानम् । ५ बौद्धस्य । ६ तत्त्वमन्वयं-आ०, ब०, ५०,०७ अर्थस्थ । ८ प्रमाणनिरपेक्षतया ।