________________
३२३
११५९]
प्रथमः प्रत्यक्षप्रस्ताव स्वतस्तत्त्वं कुतस्तत्र वितथप्रतिभासतः॥५७॥ मिथस्तत्त्वं कुतस्तत्र वितथप्रतिभासतः । इति ।
खतः स्वस्मात् तत्त्वम् अद्रयरूपं 'कुतो' नैव 'सिद्ध्येत्' इत्यध्याहारः । हेतुमाह-'वितथ' इत्यादि । वितथो ग्राह्यादिनीलादिरूपो भेदस्तस्य प्रतिभासनं वितथप्रतिभासः तस्मात् इति । एतदुक्तं भवति-सकलभेदप्रतिभासविकलं हि संविन्मानं परस्याद्वतं ५ न चित्राकारम् , सति तस्मिन् बहिरर्थसन्तानान्तरप्रत्युजीवनापत्तेः। तस्य च न स्वतः सिद्धिः; स्वतोऽपि भेदाधिष्ठानस्यैव संवेदनस्य प्रतिभासनात् , तस्य च मिथ्यात्वादिति । परतस्तत्सिद्धिं प्रत्याचक्षाण आह-'मिथ' इत्यादि मिथ इति 'अन्यतः' इत्यर्थो निपातत्वात् , निपातानाश्चानेकार्थत्वात् । 'मिथः' परतश्च तत्त्वम् अद्वयं कुतो नैव सिद्ध्यति । कुत एतत् ?, वितथप्रतिभासतः न हि परतोऽपि निरंशस्य प्रतिभासनं भेदवत एव तत्रापि तद्विषयस्य १० प्रतिभासनात् । तत्रास्य च मिथ्यात्वादिति भावः ।
ननु च स्वतः प्रतिभासनें निरस्ते निरस्तमेवाद्वयम् , परतस्तु तत्प्रतिभासनं पर. स्याप्यनभिप्रेतमेव "तस्या नानुभवोऽपरः" [प्र०वा० २।३२७] इति वचनात् तत्कथं तस्योपक्षेपः परप्रसिद्धस्यैवोपक्षेपोपपत्तेरिति चेत् ? किमिदानीम्-"आत्मा स तस्यानुभवः" [प्र०वा० २।३२६] इत्यादेविचारस्य फलम् ? न किश्चिदिति चेत् ; न ; असाधनाङ्गवचन- १५ त्वेन तद्वादिनो निग्रहावाप्तः। तस्मादवःतपरिज्ञानमेव तत्फलं भेदसमारोपव्यवच्छेदस्यापि तत्परिज्ञानरूपत्वात् , अन्यथा वैफल्यापत्तेः। अतो विद्यत एव परस्यापि परतस्तत्प्रतिभासनमित्युपपन्न एव तदुपक्षेपः । तदेवाह
यतस्तत्त्वं पृथक् तत्र मतः कश्चिद्बुधः परः ॥५८॥ इति ।
बुधः प्रतिपत्ता कश्चिद् विचारात्मा परः प्रकृष्टः पृथग भिन्नः तत्र अद्वैते मतः २० अभिप्रेतः परस्य । कीदृशोऽसौ ? यतो यस्माद् बुधात् तत्वम् अद्वयं प्रतिभातीति शेषः । तत एव तर्हि विचारात्मनो बुधात्तत्त्वं प्रतीयतामिति चेत् ; आह
ततस्तत्त्वं गतं केन [कुतस्तत्त्वमतत्त्वतः] इति ।
ततो बुधात् तत्त्वमद्वयं गतं प्रतिपन्नम् । केन ? न केनचित् । तथाहि-विचारो नाम विकल्पज्ञानविशेष एव ।
विकल्पकञ्च विज्ञानमभिलाप्येतरात्मकम् । तत्त्वेन सम्भवत्येव निरंशज्ञानवादिनः ॥७७८॥ कल्पितं सम्भवत्येव तच्चेत्तत्कल्पनं कुतः ? परतश्चेद्विकल्पान्न तस्याप्यन्येन कल्पनात् ॥७७९॥
24
१ सिध्यतीत्य-भा०, ब०, ५०, स० । २ चित्राकारे । ३ अद्वैतस्य । ४ –ने निरस्तमे-आ०, ब०, प., स०।५ अद्वैतपरिज्ञान । ६ अन्वयं भा०, ब०, ५०, स०। ७ विकल्पश्च-आ०, ब०, ५०, स.।