________________
३२२
न्यायविनिश्वयविवरणे
तेदसिद्धौ दूषणान्तरमध्याह
कथमेवार्थ आकाङ्क्षानिवृत्तेरपि कस्यचित् ॥५५॥ व्यवहारो भवेज्जातिमूकलोहितपीतवत् । इति ।
२५
अर्थे जलादौ व्यवहारस्तदभिदानादिः स च आकाङ्क्षायां विभ्रमाभिप्रायस्य ५ निवृत्तिः अर्थ इत्यधिमुक्तिरेव तस्यास्तद्रूपत्वात् । तस्या एव एवकारस्यात्र दर्शनात् न वस्तुतोऽर्थस्य भावात् । विभ्रमैकान्ते तदसम्भवात् । तन्निवृत्तिश्च कस्यचिदेव दृढवासनावतो नापस्य तस्य तत्र तदाकाङ्क्षया अनर्थव्यवहारस्यैव भावात् । अपिशब्दः 'च' इति शब्दार्थः, 'व्यवहारः' इत्यस्यानन्तरं द्रष्टव्यः इति । परमतं कथं नैव भवेत् ? दृष्टान्तमाह - 'जाति' इत्यादि । जातिमूकेन जातिबधिरमुपलक्षयति नान्तरीयकत्वात्, लोहितादिशब्देनापि १० तद्विषयं व्यवहारम् । तदयमर्थः - यथा जातिबधिरः शब्दार्थ सम्बन्धमजानानः तन्निबन्धनं 'लोहितं पीतम्' इति च शब्दविकल्पात्मकं व्यवहारं न प्रतिपद्यते तथा विभ्रमैकान्तमप्रतिपद्यमानोऽपि तत्रैवार्थाधिमुक्तिभावाभावाभ्याम् अर्थानर्थव्यवहार इत्यपि न प्रतिपत्तुमर्हतीति ।
[ ११५७
परस्य मतम्-न ग्राह्याकारेऽपि संवेदनानां विभ्रमः, तत्र तेषामप्रवृत्तेः " नान्योऽनुभाव्यो बुद्ध्यास्ति” [ प्र० वा० २।३२७] इति वचनात् । न चाविषये विभ्रमः ; नीलज्ञानस्य १५ पीते तत्प्रसङ्गात् । तन्न तद्वत् स्वरूपे तत्कल्पनम्, स्वरूपस्यानुभवाधिष्ठितत्वेन परमार्थसत एवोपपत्तेः, अन्यथा सकलव्यवस्थावैफल्योपपत्तेरिति । तत्राह -
अनर्थानेक सन्तानान स्थिरानविसंविदः ॥ ५६ ॥
अन्यानपि स्वयं प्राहुः प्रतीतेरपलापकाः । इति ।
अनर्थान् अविद्यमानविषयान् प्रत्ययान् प्राहुः प्रतिपादयन्ति ' प्रत्ययान्' इत्यध्याहा - २० रात् । कीदृशान् ? एकसन्तानान् अभिन्नसन्तानान् । पुनस्तद्विशेषणम् अस्थिरान् क्षणिकान् अन्यानपि भिन्नसन्तानानपि तादृशान् प्राहुः स्वयं बौद्धाः । तद्विशेषणम् अविसंविद इति । न विद्यते स्वपरविषयतया विविधा संवित् सम्यग्ज्ञानं येषां ते तथोक्ताः । कुतस्ते तथेति चेत् ? आह-प्रतीतेरपलापका यत इति । प्रतीतेः स्वपरविषयतया लोकप्रसिद्धाया अपलपनादेव तेषाम् अविसंवित्त्वं न पुनर्वस्तुतस्तदभावादेव, अन्यथा सन्तानसन्ता नान्तरतद्गतानेकत्वक्षणभङ्गादीनामप्रतिपत्तिप्रसङ्गात् । तदनेन प्रतीत्यपलापादनवधेयवचनत्वं तेषामुपदर्शयति ।
भवतु तत्वं संविद्वैतमेवेति चेत्; दत्तमत्रोत्तरम् -'अद्वयं द्वयनिर्भासम्' इत्यादिना । तदेव ' विस्तारयन्नाह
१ विभ्रमासिद्धौ । २ -या वावि-आ०, ब०, प०, स० । ३ इत्यादिमु आ०, ब०, प०, स० । ४-कातेन तरसं-आ०, ब०, प०, स० । ५ शब्दश्चेदिति आ०, ब०, प०, स० । ६ विभ्रमप्रवृ-आ०, ब०, प०, स० । ७ - षयत्वात्प्र-आ०, ब०, प०, स० । ८ विस्तरयन्ना-आ०, ब०, प०, स० ।