________________
११५५] प्रथमःप्रत्यक्षप्रस्तावः
३२१ बहुविस्मयम् अनल्पाश्चर्यम् आस्महे । भवति हि प्रेक्षावतामाश्चर्यबहुलमासनं मनोऽवस्थानं यदि मन्दबुद्धिगोचरे महामतेरेव परिस्खलनम्। अस्ति चेदं शौद्धोदनेः। अविशेषेऽपि स्वरूपार्थज्ञानानाम् अर्थज्ञानेष्वेव विप्लवोपगमात् । परमपि तदाह
तत्राथापि जनाः सक्ताः [ तमसो नापरं परम् । ] इति ।
तत्र तस्मिन् प्राकृतजनप्रज्ञाविषयेऽपि परिस्खलनवति शौद्धोदनौ अद्यापि स्खलनव. ५ तया परिज्ञानसमयेऽपि जना दिग्नागादयः सक्ताः तत्प्रामाण्ये कृतामहाः "प्रमाणभृताय" [प्रमा०स० श्लो० १] इति वचनादिति च वयं बहुविस्मयमास्महे । भवति हि विचारशूरचेतसां साश्चर्यमवस्थानं यदि प्रज्ञाबलोपपन्नोऽपि- लोकः परिज्ञान(त)दोषेऽपि' आप्तबुद्धिमकु(बुद्धिं कु). वति । तद्बलोपपन्नाश्च दिग्नागादयः “स श्रीमानकलङ्कधीः" [ ] इत्यादेः "न्यायमार्गतुलारूढम्" [ हेतुबि० टी० पृ० १ ] इत्यादेश्च श्रवणात् । भवदपि कदाचि- १० प्रज्ञाबलम् अध्यारोपेण तमसा प्रतिरुध्यते तदयमदोष इति चेत् ; न; तमस एव तेन प्रतिरोधसम्भवात् तस्य वस्तुबलप्रवृत्तत्वात् , तमसश्च विपर्ययात् । कदाचिदेवमपि स्यादिति चेत् ; अत्राह
तमसो नापरं परम् ॥५४॥ इति तमसः अध्यारोपाद् अपरं प्रज्ञावलं परन्न किन्तु तम एव परम्, तस्यैव तद्बलप्रतिरोधित्वेन प्रकृष्टत्वादिति च वयं बहुविस्मयमास्महे । भवति ह्येतत् बहुविस्मयापादानं यदन्ध. १५ कारेणापि प्रदीपः प्रतिरुध्यते इति । भवतु बहिरिवान्तरपि विप्लवो बुद्धवेदनेऽपि तदभ्युपगमात् । "भिनवोऽहमपि मायोपमः स्वमोपमः" [ ] इत्यादिवचनादिति चेत् ; न ; अत्रापि तत्र' इत्यादेर्दोषस्याविशेषात् ।।
अपि च, यद्यपरिज्ञानं तद्विप्लवस्य कथमवस्थापनम् अविप्लववत् ? परिज्ञानश्च यद्यविप्लवम् ; कथं तदेकान्तः ? सविप्लवं चेत् ; कथं ततस्तत्सिद्धिस्तद्विपर्ययवत् ? तदेवाह- २०
विभ्रमे विभ्रमे तेषां विभ्रमोऽपि न सिद्ध्यति । इति ।
विभ्रमे बहिरन्तः सकलज्ञानविप्लवविषये यस्तद्विषयस्यं ज्ञानस्य विभ्रमो विप्लवस्तस्मिन् तेषां ज्ञानानां विभ्रमोऽपि न केवलमविभ्रम इत्यपि शब्दार्थः, न सिद्ध्यति ।
अविभ्रमो यथा सर्ववेदनेषु न सि ति ।
विभ्रमाविभ्रमोऽप्येवं विभ्रमान्न प्रसिद्ध्यति ॥७७७।। ततः सूक्तमिदम्
तत्राद्यापि जनाः सक्तास्तमसा नापरं परम् । विभ्रमे विभ्रमे तेषां विभ्रमोऽपि न सिद्ध्यति ॥ इति ।
-पे व्याप्त आ०, २०, ५०, स०।२ प्रज्ञाबलेन । ३ -मवस्था--भा०, ब०, ५०, स०। ४ विप्लवैकान्तः । ५ 'सर्व विप्लवम्' इति सिद्धिः । ६ विभ्रमविषयस्य ।