________________
३२० न्यायविनिश्चयविवरणे
[९५४ व्यक्तः शब्दार्थः। तात्पर्यार्थस्तूंच्यते-यदिन्द्रजालस्वप्नादिविषयेषु विप्लवव्याप्त प्रत्ययत्वमन्यद्वा न तजाप्रदर्थविषयेष्वस्ति, स्वयमेव प्राणिनां तत्र विप्लवप्रतिपत्तिप्रसङ्गेन अनुमानस्य वैफल्यापत्तेः । अनुमानान्तरेऽप्येवं प्रसङ्ग:, कृतकत्वादेरपि घटादावनित्यत्वव्याप्ततया प्रतिपन्नस्य शब्दे धर्मिण्यभावात् । भावे स्वत एव पुंसां तत्राप्यनित्यत्वप्रतिपत्तेः, अनुमान५ वैफल्याविशेषादिति चेत् ; सत्यम् । तत्रं बालाबलामोपालादीनां स्वत एवानित्यत्वप्रतिपत्तिः । न चैतावता तदनुमानवैफल्यम् ; आगमाहितसंस्कारस्य तत्र नित्यत्वाध्यारोपे तस्य तद्व्यवच्छे. दार्थत्वात् । जाग्रत्प्रत्ययेषु त्वागमवतामेवें विप्लवप्रतिपत्तिर्न बालादीनां "प्रामाण्यं व्यवहारेण" [प्र०वा० ११७ ] इत्यस्य विरोधात् , बालादिपरिज्ञानादन्यस्य व्यवहारस्याभावात् । 'तस्य च विप्लवगोचरत्वे "कथं ततः प्रामाण्यव्यवस्थापनं विप्लवव्यवस्थापनस्यैवोपपत्तेः ? १० तस्मादविप्लवज्ञानमेव तत्र तेषाम् । न च विप्लवात्मन एव "प्रत्ययत्वस्य तत्र
भावे तदुपपन्नम् । सत्यपि "तस्मिन्नविप्लवसंस्कारादुपपन्नमेवेति चेत् ; न ; तेषामिदानी तत्संस्कारहेतोरनुपलम्भात् । न चाहतुकस्तत्संस्कारो नित्यत्वापत्तेः। प्राक्तनात्तत्संस्कारादिति चेत् ; न ; "स्वरूपसत्यत्वेऽपि प्रसङ्गात् , तस्यापि संस्कारबलादेव सत्यतया परिज्ञानसम्भवात्
वस्तुतो विप्लवस्यैवोपपत्तेः । कथं पुनः स्वरूपविप्लवे बहिविप्लवपरिज्ञानं सत्येव "तदविप्लवे १५ "तदुपपत्तेस्तस्य तदपेक्षत्वादिति चेत् ? कथमिदानीमेकचन्द्रादिविप्लवे द्विचन्द्रादिविप्लवपरि.
ज्ञानम् ? सत्येवैकचन्द्रादेरविप्लवत्वे द्विचन्द्रादिविप्लवस्यापि परिज्ञानसम्भवात् । परिकल्पितेन 'तंदविप्लवेन तदपरविप्लवपरिज्ञानमिति चेत् ; स्वरूपाविप्लवेनापि 'तादृशेनैव बहिर्विप्लवपरिज्ञानं भवतु विशेषाभावात् । ततः स्वरूपवदसंस्कारबलोपनीतमेव बहिरर्थसत्यत्वमिति न विप्लवात्मकं
"तत्प्रत्ययेषु प्रत्ययत्वम् , बालादीनामपि तत्र विप्लवप्रतिपत्तिप्रसङ्गात् । न चैवम् , अविप्लवपरि२० ज्ञानस्य तत्र तेषां भावादित्यसिद्धो हेतुः, अतश्च तद्वादिनां जडत्वमिति । तथा च "यज्जातश्च दमं ( यज्जातमाश्चर्यं ) तदाह
तत्र शौद्धोदनेरेव कथं प्रज्ञापराधिनी ॥५३॥
बभूवेति वयं तावत् बहुविस्मयमास्महे । इति
तत्र जाग्रत्प्रत्ययाविप्लवे शौद्धोदनेरेव सकलज्ञानधन्यम्मन्यस्य बुद्धस्यैव न चाण्डा२५ लादीनामल्पप्रज्ञानां कथं प्रज्ञा बुद्धिः अपराधिनी स्खलनवती “सर्वमालम्बने भ्रान्तम्"
[प्र०वार्तिकाल० २।१९६] इत्युपदेशात् बभूव इति एवं वयं परीक्षाचक्षुषः तावत् क्रमेण
१-र्थः सूच्य-आ०,ब०,१०,स०।२ शब्दे । ३ मीमांसकागम । ४ -रोपितस्य -आ०,ब०,१०, स। अनुमानस्य । ५ बौद्धानाम् । ६ बालादिव्यवहारस्य । ७ कथन ततः मा०,०, १०, स.।
जाप्रत्प्रत्यये । ९ वालावलादीनाम् । १. प्रत्ययस्य आ०, ब०, ५०, स०।११ विप्लवात्मनि । १२ संवेदनस्वरूपसत्यत्वेऽपि । १३ स्वरूपाविप्लवे । १४ बहिर्विप्लवोपपत्तेः । १५ एकचन्द्राविप्लवेन । १६ द्विचन्द्र । १७ परिकल्पितेनैव । १८जाग्रत्प्रत्ययेषु । १९ यज्ञाश्वतदम तदाह आ० । यज्ञश्चदमं तदाह स० । तथाच तदनं तदाहब। यज्ञाश्च तदयं तदाह प० । २०-ज्ञानदन्यम्मन्य आ०, ब., स..