________________
१२५३] प्रथमः प्रत्यक्षप्रस्तावः
३१९ कल्पनया सत्त्वान्न दोष इति चेत् ; न; 'तत एव' इत्यादेः 'अनित्थम्भाववत्' इति पर्यन्तस्यात्रापि समानत्वात् ।
यदि वा, भेदः "तमेव प्रा(भा)न्तमनुभाति सर्वम् , तस्यैव भासा भाति" [कठोप० ५।१५ ] 'इत्याम्नातः पुरुषाधीनो भेदप्रतिभासस्सत्पर्यनुयोगः 'कथमयम्' इति प्रश्नः, तस्मादिति । परतो भेदप्रतिभासे पुरुषायत्ततया तदाम्नायो विरुद्ध्येतेति मन्यते । ५
परतो द्वयनिर्भासं ब्रुवाणः प्रतिपीडयेत् । पुरुषायत्ततद्भावमामनन्तं निजागमम् ॥७६९॥ 'विवेकाशक्तमुद्दिश्य प्रतिपत्तारमागमः । पुरुषाढ़ेदनि समन्वाहेति मतं यदि ॥७७०॥ परतो भेदनिर्भासः कस्येदानी विवेकिनः । न विवेकेऽनुपायत्वात्परस्यैवानवस्थितेः ॥७७१।। कल्पनातः परं स्याच्चेत्सैव कस्माद्विवेकिनः । विभ्रमाद् बलिनस्तर्हि विवेकी सुमहानयम् ।।७७२॥ विभ्रमप्रतिरोधी हि विवेकः सार्वलौकिकः । स चास्ति विभ्रमश्चेति न श्रद्धयमिदं वचः ॥७७३।। सत्येव पाटवे तस्य तद्विरोधोपकल्पने । पाटवं किमिदं पुंसः स्वरूपग्रहणं यदि ॥७७४॥ वकिमुत्पन्नमात्रस्य विवेकस्य न विद्यते । तथा चेत्तस्य वेद्यं स्यादविद्याकल्पितं परम् ॥७७५।। न विवेकस्तथा चासौ मिथ्यार्थत्वात्तदन्यवत् ।
न विवेकाश्रयं तस्मात्परतो भेदभासनम् ॥७७६॥ ततः सूक्तम्-'भेदपर्यनुयोगतः' इति ।
कुतश्च भेदप्रपन्चः परमार्थसन्नेव न भवेद्यतस्तस्य कुतश्चिदारोपितत्वं परिकल्प्येत ? प्रतिसंहृततत्प्रपञ्चस्यैव परमात्मनः कदाचित्प्रतिवेदनादिति चेत् ; न ; तादृशस्य कदाचिदप्यनुभवाभावात् । तदाह-'प्रतिसंहार' इत्यादि । तन्नातवादः श्रेयान् ।
२५ विभ्रमवाद एवास्त्विति चेत् ; न ; तस्य 'विप्लुत' इत्यादिना प्रतिक्षेपात् । तदेव ग्याचक्षाणस्तत्प्रतिक्षेपमेव दर्शयति
इन्द्रजालोदिषु भ्रान्तमीरयन्ति न चापरम् ॥५२॥ अपि चाण्डालगोपालवाललोलविलोचनाः। इति ।
श्वेता०६४ मुण्डको २।२।१०।२-ततथायाततदा-मा०, ब०, ५०, स०, ३ विवेकाशक्किम-भा०,०,५०, स०। ४ विवेकस्य । ५ विभ्रमविरोधकल्पनायाम् । -णं धियः भा०, ब०,०। -परिसं भा०,०, ५०, स.।