________________
३१८
न्यायविनिश्चयविवरणे
[११५२
सम्भवति' इति प्रश्नः, तस्मात्तत इति । कथं खलु स्वत एव विभागरूपतया प्रतिभासमानमविभागमुपपन्नम् ? विभागस्यासत एव प्रतिभासनादिति चेत् ; कथमिदानीमसदवभासि. नस्तस्य सम्यग्ज्ञानत्वम् ? यतस्तस्मात् दुःखहेतुप्रैहाणं प्रकल्प्येत, मिथ्याज्ञानात्तदयोगात नित्यादिज्ञानवत् । अभिमतञ्च ततस्तत्प्रहाणं परस्य, "नैरात्म्यदृष्टेस्तद्युक्तितोऽपि वा" ५ [प्र०वा० १।१३९ ] इत्यत्र युक्तिशब्देनाद्वैतवेदनस्यापि तत्प्रहाणकारणतया प्रज्ञाकरण
व्याख्यानात् । तदेवाह-भेपर्यनुयोगतः। भेदस्तत्प्रहाणकारणत्वविशेषः तत्पर्यनुयोगः 'स कथम्' इति प्रश्नः तत इति । तन्न स्वतस्ताय द्वयनिर्भासत्वम् ।
परतोऽपि नेत्याह-'नापि' इत्यादि । उपपत्तिमाह-"भेद' इत्यादि । परमेव भेद. स्तस्य पर्यनुयोगः 'तत्कथम्' इति प्रश्नः, तत इति । अद्वते परस्यैवासत्त्वादिति मन्यते । १० कल्पितं तत्सत्त्वमिति चेत् ; न; तत एव तत्कल्पनायोगादसत्त्वात् । कल्पनया सत्त्वञ्चेत् ; न;
परस्पराश्रयात्-'कल्पनया सत्त्वम्, ततश्च कल्पना' इति । अन्यत इति चेत् ; न; तत्राप्येवं प्रसङ्गात् । तस्याप्यन्यतः कल्पनायामनवानात् । नानवस्थानम् , अनादित्वात्तत्प्रबन्धस्येति चेत् ; कुतस्तत्सिद्धिः ? स्वत इति चेत् ; न; स्ववेदनस्य वस्तुसत्संवेदनधर्मत्वेन तत्रायोगात् । 'तदपि विकल्पितमेवेति चेत् ; कथं ततः कचिदित्थम्भावस्य सिद्धिः अनित्थम्भाववत् ? १५ कुतो वा परमार्थसन्नेव तत्प्रबन्धो न भवेत् ? प्रतिसंहृततत्प्रबन्धस्यैव संवेदनस्य सत्यभ्या
सपाटवे प्रतिवेदनादिति चेत् ; न; कदाचिदपि तदनुभवाभावात् । तदाह-'प्रतिसंहार'
इत्यादि । सुबोधम् ।
एतेन पुरुषाद्वैतस्यापि द्वयनि सत्वं प्रत्युक्तम् । न हि तस्यापि स्वतस्तन्नि सत्वं भेदपर्यनुयोगतः। भेदस्य 'एकमेवेदमद्वितीयम्' इति विशेषस्य पर्यनुयोगात् ‘स कथम्' इति २० प्रश्नात् । न हि स्वत एव भेदेनावभासमानस्य तद्विशेषसम्भवः । भेदस्यासत एव प्रतिभासनात्त
सम्भव इति चेत् ; कथमसदवभासिनस्तस्य सत्यज्ञानत्वम् । यतः "सत्यं ज्ञानमनन्तं ब्रह्म" [ तैत्ति० २।१।१ ] इत्याम्नायेत । मिथ्याज्ञानत्वे तु कथं तद्दर्शनात्सकलदुःखनिवर्हणम् ? यत इदं स्वाम्नातं भवति
"भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। २५ तीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे"॥"[मुण्डको० २।२।८] इति ।
तन्न तस्य स्वतो द्वयनि सत्वम् ।नापि परतो भेदपर्यनुयोगतः तदद्वैते परमेव भेवस्तस्य पर्यनुयोगतः 'तत्संभवप्रश्नः कथमसावद्वैतव्यापत्तेः' इति ततस्तस्मादिति । परस्य
१-प्रमाणं भा०, ब०, ५०, स०। २-तशब्दवेद-आ०, २०, ५०, स.। ३ "अथवा युक्तियोगः परस्परसङ्गताद्वैतम् , अद्वै तष्टितोऽपि ।" -प्र. वार्तिकाळ० २११३९ । ४ -स्य स्वयंनि भा०, ब०,५०, स०। ५ तत्राप्यन्यतः आ०, ब०, ५०, स.। ६-स्थानम् ना-भा०,०, ५०, स.। . वस्तुसत्वं संवे भा०, ब०, ५०, स०। ८ वेदनमपि । ९ संवेदनानुभवाभावात् । १० एकमेवाद्वितीयमिति विशेषस्य । " परापरे भा०, ब०, ५०, स०, ।