________________
१॥५२ ] प्रथमः प्रत्यक्षप्रस्तावः
३१७ भावात् । न 'तन्मात्रादेव तद्भावः किन्तु तन्मननाथुपैसंस्कृतादेव, तदुपसंस्कृतं हि तज्ज्ञानम् , इतरनिरवशेषाविद्याविलासानुपरमयत् आत्मानमप्युपरमयति यथा पयः पयो जरयति स्वयमपि जीर्यति, विपञ्च विपान्तरमुपशमयति स्वयमपि उपशाम्यति, उपरतसकलतद्विलासवेलायाञ्च स्वत एव निष्प्रपञ्चमात्मतत्त्वं प्रकाशत इत्येवम्प्रकार शब्दज्ञानस्य तत्प्रकाशनिबन्धनत्वमिति चेत् ; ननु अयमप्यर्थः कुतश्चिदाग्नायज्ञानादेव ज्ञातव्यः । तस्यैव मिथ्यात्वे ५ तज्ज्ञानात्कथं तत्प्रतिपत्तिः ? न चापरमुपायान्तरं यतस्तत्परिज्ञानमित्यतीतिकमेवेदम्
"संहृताखिलभेदोऽतः सामान्यात्मा स वर्णितः।। हेमेव परिहार्यादिभेदसंहारसूचितम् ॥' [ब्रह्मसि० १।३] इति ।
तनं भेदप्रपञ्चसंहारवती वेला नाम काचिच्छक्यनिरूपणा यस्यामात्मतत्त्वस्य निष्प्र. फचस्य प्रकाशनमिति चेत् ; संविदवतस्यापि कथं विचारज्ञाने प्रकाशनम् ? तस्यापि विकल्प. १० त्वेनावस्तुगोचरत्वाद् अन्यथा तस्य तद्गोचरत्वविरोधात् । एकच प्रत्युत्पन्नविचारज्ञानस्यैव सकलप्राह्यभेदारोपप्रलयोपनिपातेन तदद्वैतप्रकाशनात् निष्फलमेव तदभ्यासोपकल्पनं भवेत् , "तस्यापि तत्प्रकाशनादन्यस्य फलस्याभावात् , तस्य च प्राथमिकादेव विचारज्ञानादुपपत्तेः । अभ्यासपरिपाकाधिष्ठितमेव "तत् प्रकाशनिबन्धनं न केवलम्, "तत्खलु निखिलमप्यपरमध्यारोपमपाकुर्वत आत्मानमप्यपाकरोति यावदारोपभावित्वात्तस्य', यथा प्रदीपस्तैलवादिकं प्रति- १५ संहरन्नात्मानमपि प्रतिसंहरति । संहृतसकलभेदारोपवेलायां तु तदद्वतस्य स्वतः प्रकाशनमिति
चेत् ; न ; अस्याप्यर्थस्य कुतश्चिद्विकल्पादेवावगमात् । 'तस्य च मिथ्याज्ञानत्वेन तदवगमानुपायत्वात् , उपायान्तरस्य चाभावात् । तस्मादिदमप्यप्रातीतिकमेव
"""ग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशते ।" [प्र०वा० २।३२७] इति ।
तन्नात्रापि विकल्पप्रतिसंहारवती वेला नाम काचिच्छक्यनिरूपणा यस्यां तद्द्वातस्य २० स्वतः प्रकाशनमुपकल्प्येत । तदेवाह
प्रतिसंहारवेलायां न संवेदनमन्यथा । इति । व्यक्तमेतत् ।
इदमपरं व्याख्यानम्-यदुक्तम्-'अद्वयं द्वयनिर्भासम्' इति । कुतस्तस्य" तन्नि सस्वम् ? स्वत वेति चेत् ; अत्राह-'न स्वतः' इति । उपपत्तिमत्राह-'भेदपर्य-२५ नुयोगतः' इति । भेदः संवेदनस्याविभागलक्षणो विशेषस्तस्य पर्यनुयोगः 'स कथं ।
१ शब्दमात्रादेव । २ -द्यपस्कृतादेव । ३ शब्दज्ञानम् । ४ "यथा पयः पयो जरयति स्वयं च जीर्यति यथा च विषं विषान्तरं शमयति स्वयं च शाम्यति"-ब्रह्मसि० पृ० १२ । ५ आम्नायस्यैव । ।-त्यप्रती तिक-आ०, ब०, ५०, स.। ७ परिहार्य कटकम् । ८ नन्वभेदे प्रपञ्चसंहारवति वेला मा०, ब०, ५०, स.। ९-पिकल्पितत्वेन आ०, ब०,५०, स०। १० अभ्यासस्यापि । ११ विचारज्ञानम् । १२ विचारज्ञानस्य । १३यां तद-आ०, ५०, ५०, स०।१४ विकल्पस्य । १५ "तस्यापि तुल्पचोद्यत्वात् स्वयं सैव प्रकाशते"-प्र.वा. १६-णा यत्तदद्वै-आ० ब०, १०, स०।१७-स्य नि-आ०, २०, प., स.।