________________
न्यायविनिश्चयविवरणे
[११५१ भवन्मतेऽपि कोऽयमारोपस्य' व्यवच्छेदो नाम ? नाश एवेति चेत् ; न ; 'तस्य निर्हेतुकत्वेन परतोऽनुपपत्तेः । तस्यैवाशक्तिकरणमिति चेत् ; न ; तस्य निषेत्स्यमानत्वात् । तदेव संविदद्वतमिति चेत् ; न ; तस्यापि कार्यत्वापत्तेः। न चेदमुचितम्-"न कारणं न
कार्य च तत्' [ ] इति स्वयमभ्युपगमात् । कीदृशं च तत् ? निरंशं परमाणु५ मात्रमिति चेत् ; न; तस्याप्रतिवेदनात् नीरूपाभाववत् । 'चित्रमेव तत् "चित्रप्रतिभासाप्ये
कैव बुद्धिः" [प्र०वार्तिकाल० २।२१९] इति वचनादिति चेत् ; किमिदं चित्रभिति ? नानानीलाघाकारमिति चेत् ; न ; तथा नानाशक्तिकत्वस्यापि प्रसङ्गात् । को दोष इति चेत् ? न; एकया शक्त्या आत्मनः तदन्यया च तदपरस्य परिज्ञानापत्तेः, तथा च परमार्थत एव ग्राह्य
प्राहकभावस्य भावात्कथं तस्यारोपितत्वं यतस्तव्यवच्छेदद्वारेण तदद्वैतनिरूपणम् ? यदि १. परमार्थत एव तद्भावः; कथं तद्विकलतया संवेदनस्य विकल्पप्रतिसंहारवेलायामनुभवो नारो.
पितस्य ? वैकल्यानुपपत्तेरिति चेत् ; न ; निष्प्रपञ्चस्यात्मन एव तदानीमनुभवात् । प्रपञ्चशानस्यैवारोपितविषयत्वोपपत्तेः । तदुक्तं कैश्चित्
"सत्यमाकृतिसंहारे स्वयं तद्व्यवतिष्ठते ॥' [वाक्यप० ३।२।११] इति । तथा परैः
"अध्यारोपापवादाभ्यां निष्प्रपञ्च प्रपञ्च्यते ॥" [सर्ववेदान्त० २५] इति । वचनमात्रमेवैतत् , निष्प्रपञ्चस्यात्मनः क्वचिदप्यननुभवादिति चेत् ; न ; ग्राह्यादिभेदविकलस्य संवेदनस्याप्यननुभवात् । अननुभवमपि तद्विचारादवगम्यते विचारणैव तदभेदारोपं व्यवच्छिन्दता तदस्तित्वस्यापि प्रत्यायनादिति चेत् ; न ; एवम् "आम्नायादेवात्मनोऽप्यवगमप्रसङ्गात् ।
तेनैव प्रपश्चारोपं प्रत्याचक्षाणेनात्मनोऽपि 'बुद्धावुपस्थापनात् । तत्प्रपञ्चप्रत्याख्याने किमवशिष्यते २० यस्यात्मत्वेन बुद्धावुपस्थापनम्" ? ग्राह्यादिभेदप्रत्याख्याने कस्यावशेषो यस्य संवेदनत्वेन बुद्धौ
समर्पणम् ? 'तद्भेदसाधारणस्य प्रतिभासमात्रस्येति चेत् ; अन्यत्रापि तस्यैव किन्न स्यात् ? कथमेवमात्मसंवेदनयोर्भेद इति चेत् ? आत्मनो नित्यत्वाद् अन्यस्य तद्विपर्ययात् ।
कथं पुनरात्मनः शब्दज्ञाने प्रकाशनं "तस्याविद्याभेदत्वेन मिथ्याज्ञानत्वात् ? न हि मिथ्याशाने तत्त्वप्रकाशनम् ; तन्मिथ्यात्वस्यैवाभावापत्तेः । एवं हि प्रत्युत्पन्नशब्दज्ञानमात्रस्यैव २५ सकलभेदप्रपञ्चप्रलयोपनिपातेन प्रवृत्त्यादिः सर्वोऽपि संसारव्यापारो न भवेत् , आत्ममननध्याना.
द्युपदेशश्वापार्थकतां प्राप्नुयात् तस्यापि तत्प्रपञ्चप्रलयार्थत्वात् , तत्प्रलयस्य च शब्दज्ञानमात्रादेव
सौगतमते । २ ग्राह्यादिभेदसमारोपस्य । ३ नाशस्य । ४ चित्रमात्रमेव आ०, ब०, ५०, स.। ५-स्याभा-मा०,०, प., स.। ६ संवेदनाद्वैत । ७ ग्राह्यग्राहकाकाराक्रान्तस्य । ८ -वानिरूपितवि-आ., १०,५०,०। ९ अनुभवागम्यमपि संवेदनम् । १० आम्नायादेवाप्यात्म-आ०, ब०, ५०।११आम्नायेनैव । ११प्रचारोयं प्र-म०, ब०,५०, स. १३ बुद्धा उप-आ०,०, ५०, स०।१४-नस्य बाह्यादि-आ०,५०, ५०,०।१५ ग्राह्यग्राहकादिभेद । १६ शब्दज्ञानस्य ।