________________
प्रथमः प्रत्यक्षप्रस्ताव:
११५१] बिम्बयोर्मुखस्यैव परिशुद्धिर्न तत्प्रतिबिम्बस्य तस्य मणिकृपाणादेः रागादिना कालुष्य. स्योपलम्भात् । तद्वदभेदेऽपि ब्रह्मण एव नित्या परिशुद्धिर्न जीवस्य तत्राविद्याकालुष्यस्योपलम्भादिति चेत् ; न; प्रतिबिम्बस्य भ्रान्त्युपदर्शितत्वेनावस्तुसतोऽपि मुखादभेदानुपपत्तेः, तद्वन्मु. खस्याप्यवस्तुसत्त्वप्रसङ्गात् । 'ममेदं मुखम्' इत्यभेदपरामर्शोऽपि तत्र सादृश्यातिशयादेव 'चित्रार्पितात्माकारवत् , नाभेदात् । अभेदे तु वस्तुनस्तत्रापि मुखप्रयोजनेन भवितव्यम् , न ५
चैवम् , आलापकवलप्रसनादेस्तत्रानुपलम्भात् । अवस्तुसतः कथं प्रतिभासनमिति चेत् ? 'मुखतव्यतिरेकवत्' इति ब्रूमः । जीवोऽपि भ्रान्त्युपदर्शितत्वादवस्तुसन्नेवेति चेत् ; व्याहतमेतत्'अवस्तुसंश्च ब्रह्मणश्च न भिद्यते' इति, ब्रह्मणोऽप्यवस्तुसत्वापत्तेः । ब्रह्म तस्माद्भिद्यत एव स एव तु ब्रह्मणो न भिद्यते तस्मादयमदोष इति चेत् ; न; जीवस्य तद्भेदमन्तरेण ब्रह्मणोऽपि तद्भेदानुपपत्तेः भेदस्योभयनिष्ठत्वात् । तस्मादश्रद्धेयमेवेदं भौतोपाख्यानवत् । तद्यथा-कूपो प्रा. १० मस्य समीपो ग्रामस्तस्कूपस्य नितरां दूर इति । तस्माज्जीवस्य ब्रह्माभेदे ब्रह्मणोऽपि तदभेदस्याव. श्यम्भावात् । यदविद्याकालुष्यं जीवस्य या च तत्परिशुद्धिरागन्तुकी "तदुभयं प्रमापि (ब्रह्मापि) परिस्पृशन्त्ये (शत्ये)वेति न सुभाषितमेतत्-"तद्धि सदा विशुद्ध नित्यप्रकाशमनागन्तुकार्थम्''[ब्रह्मसि० पृ० ३२] इति । "तथेदमपि-"तस्मादविद्यया जीवाः संसारिणो विद्यया विमुच्यन्ते" [ब्रह्मसि० पृ० १२] इति । ब्रह्माधिष्ठानस्य सदाविशुद्धत्वादेरभेदे सति १५ जीवेऽप्यनुपातात् । भिदात एव जीवो ब्रह्मणः कल्पनारोपितत्वात् , ब्रह्मणश्च तद्विपर्ययादिति चेत् ; का तर्हि तस्य" परिशुद्धिः "स्यात् यदन्वितो जीवस्वभावः प्रपञ्चविलयत्वेन व्यपदिश्येत ? अविद्याकालुष्यनिर्मुक्तिरेवेति चेत् ; न; स्वतोऽपि निर्मुक्तिप्रसङ्गात् , स्वरूपस्याध्यारोपितस्याविद्यामयत्वात् । भवत्विति चेत् ; न; नीरूपस्य तन्निर्मुक्तिमात्रस्यासम्भवादिति प्रतिपादनात् । तन्न परिशुद्धो जीवस्वभाव एव तत्प्रपञ्चविलयः तत्परिशुद्धरेवापरिज्ञानात् । २०
भवतु नित्यपरिशुद्धं ब्रह्मैव "तद्विलय इति चेत् ; न ; नित्यस्य विलयस्य प्रसङ्गात् । तथा च किं तत्र परापेक्षया नित्यस्य निरपेक्षत्वात् , नित्ये तद्विलये "परस्याभावाच्च । ततो यदुक्तम्-"अविद्यया श्रवणादिलक्षणया अविद्यैव निवर्त्यते मृत्युरित्यविद्यैवोच्यते" [ब्रह्मसि०पृ. १३] इति ; तत्प्रतिविहितम् ; नित्ये भेदप्रपञ्चविलये निवर्त्यनिवर्त्तकयोरविधयोरेवासम्भवे तद्वचनस्यासम्भवद्विषयत्वात् । तन्न तत्प्रपञ्चविलयः कश्चिदपि शक्यनिरूपणो २५ यद्वारेण परतः प्रजापतेर्निरूपणमिति चेत् ;
प्रतिबिम्पस्य । २ चित्राप्तिाकारवत् भा०, ब०, ५०, स० । चित्रार्पितनात्मा कारवत् वा०(१) ३ प्रतिबिम्बेऽपि । ४ प्रतिविम्बस्य । ५ अवस्तुसतो जीवात् । तदभेद-भा०, ब०, ५०, स.। ब्रह्मभेद । • जीवभेदानुपपत्तेः । ८ भौतापा-आ०, २०, ५०, स०। ९ तस्य कूपस्य मा०, २०, ५०, स०।१०तद्भ। दस्य भा०, २०, ५०, स.।" तदुतयं ता० । १२ परस्पृशन्त्येवे-ता०।१३-कार्थकाम् मा०,०, प०,०।१४ तथापि मा०, ब०, प०, स०।१५ जीवस्य । १६ स्याद् भेदप्रजौवेप्यनुविलय-मा०,०, प०, स.। १७ ब्रह्म इव भा०, ब०, प., स०।१८ प्रपञ्चविलयः । १९ आम्नायादेः।