________________
३१४ न्यायविनिश्चयविवरणे
[११५१ स्यान्मतम्-न 'तेन तस्य प्रतिविधानं 'तस्यावस्तुत्वात् । न ह्यवस्तु वस्तुरूपप्रतिविधानाय समर्थ तरणचन्द्रादिवचन्द्रादेरिति ; तदसङ्गतम् ; आत्मा तस्याप्येवं परतः प्रतिभास. प्रसङ्गात् , परस्याप्युक्तन्यायेन तव्यापत्तिनिबन्धनत्वाभावात् । कथं : पुनः परतस्तस्य
प्रतिभासः ? कथं च न स्यात् ? परस्याविद्यामयत्वात् , अविद्यायाश्च मिथ्याज्ञानत्वात्५ "अविद्या माया मिथ्यावभासः” [ब्रह्मसि० पृ० ९] इति मण्डनेन तदर्थाभिधानात् । न च मिथ्याज्ञाने तत्त्वप्रतिभासनं तज्ज्ञानत्वविरोधात् । तत्त्वं च तद्वतं तस्यैव परमनिश्रेयसत्वेन परैरभ्युपगमात् । तदेतत्प्रेयः पुत्रात् प्रेयो मित्रात् प्रेयोऽन्यस्मात्सर्वमात्" [बृहदा० १।४।८] इत्याम्नायादिति चेत् ; न ; संविदवतस्यापि तद्वत्परतोऽनवभासनापत्तेः
परस्य विकल्पत्वेनावस्तुप्रतिभासित्वात् "विकल्पोऽवस्तुनिर्भासः” [ ] इति १० वचनात् । न चावस्तुवेदने वस्तुप्रतिभासनं तद्वदनत्वविरोधात् । वस्तु च तदद्वतं.तस्यैव काष्ठाग
तनिःश्रेयसत्वेन भवद्भिः प्रतिष्ठापनात् , “यद्यद्वैते न तोषोऽस्ति मुक्त एवासि सर्वथा" [प्र० वार्तिकाल० ११३६] इति वचनात् । सत्यम् ; न परतस्तत्प्रतिभासनं ग्राह्यादिभेदसमारोपव्यव. च्छेदस्यैव ततो भावात् । सति हि तब्यवच्छेदे निर्व्याकुलं स्वत एव तदवभासनं तद्व्याकुलत्व.
हेतोस्तदारोपस्याभावादिति चेत्, न; आत्मन्यपि समानत्वात् । न हि तस्यापि परतः प्रतिभासन२५ म् । तत्रापि परस्याम्नायादेः प्रपञ्चायेपनिवारण एव व्यापारात् , तन्निवारणे च स्वत एव तस्य निर्व्याकुलमवभासनं तव्याकुलत्वनिबन्धनस्य तदारोपस्याभावात् । तदुक्तम्
"आम्नायतः प्रसिद्धिश्च कवयोऽस्य प्रचक्षते ।
भेदप्रपञ्चविलयद्वारेण च निरूपणम् ॥" [ ब्रह्मसि० १।२ ] इति ।
"कः पुनस्तत्प्रपञ्चस्य विलयो नाम ? नीरूपं निवृत्तिमात्रमिति चेत् ;न, "तस्यानिरूपित२० रूपस्य कार्यत्वानुपपत्तेः कारणत्ववत् , अन्यथा तस्यैव सकलप्रपन्चकारणत्वेन ब्रह्मभावोपपत्तेः ___ तदपरस्य निरतिशयानन्दादिरूपस्य ब्रह्मणः परिकल्पनमप्रयोजनमेव , तत्प्रयोजनस्यान्यत्रैव परिसमाप्तत्वात् । तन्न तन्निवृत्तिमात्रं तद्विलयः।
नापि भेदप्रतिभासकालुष्यपरिशुद्धो जीवस्वभावः, तस्य ब्रह्मणो भेदे "तस्यैव तवारेण निरूपणापत्तेर्न ब्रह्मणः । ब्रह्मणश्च तथा निरूपणमभिप्रेतम् “नमस्यामः प्रजापतिरित्य२५ "नन्तमाम्नायते" [ ] इत्यादेवचनात् । नास्त्येव "तस्य "तस्माद्भेदः "अनेन
जीवनात्मना' [छान्दो० ६।३।२] इति जीवब्रह्मणोरभेदस्याम्नायादिति चेत् ; न; ब्रह्मवत्तस्यापि नित्यपरिशुद्धिप्रसङ्गात् , अभेदस्यैवलक्षणत्वात् । अभेदेऽपि मुखतत्प्रति
१ भेदेन । २ भेदस्य। ३ परो यतोऽवस्तु अतः न तेन अद्वैतबाधेत्यादिन्यायेन । ४ अद्वैतम्याधात । ५ अद्वैतस्य । ६ मित्थ्याज्ञानत्व । • अवस्तुवेदनत्व । ८ च द्वैत भा०.०प०.स.। ९-बंदा इति चेन्न परतः स र्वथा इति चेन परतः भा०,व०प०।१०ौगतः प्राह । ११ निवृत्तिमात्रस्य । १२-परिवि. शद्धो मा..ब.प.स.१३जीवस्वभावस्येव । १४-स्यनन्तरमान्मा-भा०व०प०स०। १५जीवस्य । १६ ब्रह्मणः। १७ जीवस्यापि ।