________________
१२५१] प्रथमःप्रत्यक्षप्रस्ताव
३१३ अद्वयं संवेदनतत्वम् आत्मतत्त्वञ्च द्वयनि संग्राह्यादिभेदनिर्भासम् । इव शब्दोऽत्र द्रष्टव्यः । तदनि से तन्निर्भासवचनादग्निर्माणवक इत्यादिवत् । कदा तद्वयम् ? सदा सर्वकालं भेदप्रतिभासदशायां तदुपसंहारदशायान्वेति चेत् शब्दः पराकूतद्योतने । तत्रोत्तरमाह
न खतो नापि परतो भेदपर्यनुयोगतः ॥५१॥ इति ।
तस्य खलु संविदद्वैतस्य स्वतो वाऽवभासनं परतो वा गत्यन्तराभावात् १ स्वत एव ५ "स्वयं सैव प्रकाशते" [प्र०वा०२।३२७] इति वचनादिति चेत् ; कथमेवमात्मतत्त्वस्यापि स्वतोऽनवभासनम् ? "अत्रायं पुरुषः स्वयं ज्योतिर्भवति" [बृहदा० ४।३।९,१४] इत्यादेवचनात् ।
ननु आत्मा नाम नित्यः । नित्यत्वञ्च कालत्रयानुपातात् । तत्र मध्यकालानुपातिनो रूपात् कालान्तरानुपातिनो रूपस्य यद्यभेदः ; तावन्मात्रमेव तदिति कथं नित्यत्वम् ? भेदे त्वप. १० रापरं संवेदनमेव तदिति नासावात्मा नाम । न चात्मन्यद्वैते कालसम्भवो यतस्तत्त्रयानुपातान्नित्यत्वम्। तन्न तस्य स्वतोऽवभासनम् । अवभासनाच्च तदस्तित्वे भेदस्यापि स्यात् तदविशेषादिति चेत् ; न ; संविदद्वैतेऽपि समानत्वात् । न हि तस्यापि क्षणमात्रमग्नस्य निरंशस्यावभासनम् । न च तदद्वैते कालसम्भवो यतस्तत्क्रमानुपाताभावादनित्यत्वं भवेत् ? अवभासनाञ्च तदस्तित्वे ग्राह्यादेरपि स्यात्तदविशेषात् । बाधकाभावाभावाभ्यां विशेष इति चेत् ; न ; आत्मप्रपञ्च- १५ प्रतिभासयोरपि तत एव तदुपपत्तेः । कथं पुनः प्रपञ्चप्रतिभासस्य बाधनम् ? कथं च न स्यात् ? तत्प्रतिभासस्यात्मप्रतिभासादभिन्नत्वात् "आत्मनि विज्ञाते सर्व मिदं विज्ञातं भवति" [ ] इत्याम्नायादिति चेत् ; ग्राह्यादिभेदप्रतिभासस्यापि कथम् ? तत्प्रतिभासस्यापि संवित्प्रतिभासादन्यत्वस्यानभ्युपगमात् । वस्तुतो नास्त्येव तत्प्रतिभासो विचारासहत्वात् केवलं कल्पनामात्रतस्तदभ्युपगमः तत एव तस्य बाधोपपत्तिरपीति चेत् ; न ; प्रपञ्चप्रतिभासेऽपि २० समानत्वात् । न हि प्रपञ्चस्यापि वस्तुतः प्रतिभासनम् , प्रमाणविरहात् । केवलं मायानिबन्धन एव तेदभ्युपगमः, "इन्द्रो मायाभिः पुरुरूप ईयते" [बृहदा० २।५।१९] इत्यादि वचनात् । तत एव तस्यापि बाधोपपत्तिरिति । तन्न संविदद्वतस्य स्वतोऽवभासनं पुरुषाद्वैतेऽपि 'ततस्तदनुषङ्गात् । न चेदमुचितम् , उभयप्रतिभाससद्भावे वस्तुसति" अद्वैतव्यापत्तेरिदमेवाहन स्वतः इति । न स्वतोऽद्वयस्यावभासनम् । कुतः ? भेदेन "तदुभयाद्वयरूपेण २५ पर्यनुयोगतः अद्वयस्य प्रतिविधानत इति ।
परतस्तदवभासनेऽप्याह-नापि परतः' इति । कुतः ? भेदपर्यनुयोगतः सति परस्मिन् भेदस्यावश्यम्भावात् तेन चा तप्रतिविधानादिति ।
१सौगतः । २ आत्मनित्यत्वास्तित्वे । ३ अवमासनाविशेषात् । ४ तस्यापीक्षण-मा०, ब०, ५०, स.। ५ संवेदनाद्वैते। बाह्यघटपटादिप्रपञ्चप्रतिभासस्य । ७ "आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्व विदितम्"-परदा.४।५।६। उद्ध,तमिदम्-ब्रह्म स० पृ. ।। ८ ग्राह्यादिभेदप्रतिभासः । ९प्रपञ्चा. भ्युपगमः। 1.-ति चेन्न आ०, ब., पं., स.।"स्वतः प्रतिमासप्रसङ्गात् । १२ सति सत्यसत्यद्वै-आ., ब०,५०, स. । १३ तदुभयद्वयरू-आ०, ब०, प० । १४ -भावापत्तेनचाद्वै-मा०, ब०, ५०, स० ।
४०