________________
३१२ न्यायविनिश्चयविवरणे
[११५१ भासित्वस्य मृषात्वस्य च यतः प्रतिपत्तिः, तस्य चेत् अवितथप्रतिभासित्वं कथन्न व्यभिचारः ? सत्यपि ज्ञानत्वे वितथप्रतिभासित्वस्य, तद्विषये च मृषात्वे सत्यपि इदमिदमित्यभेदानुगमे मृषात्वस्याभावात् । वितथप्रतिभासित्वे तु ततः कथं तैत्सिद्धिः तद्विपर्ययवत् । अतो निदर्शनस्य साध्यवैकल्यमित्यावेदयन्नाह
प्रमाणमात्मसात्कुर्वन् प्रतीतिमतिलङ्घयेत्। वितथज्ञानसन्तानविशेषेषु न केवलम् ॥५०॥ इति ।
प्रमाणम् अवितथनिर्भासं ज्ञानम् आत्मसात्कुर्वन् प्रतीति यथार्थपरिच्छित्तिम् अतिलवयेत् प्रत्याचक्षीत । सौगतो ब्रह्मवादी वा । क तामतिलवयेत् १ वितथा मिथ्याभि
मता ये ज्ञानानां सन्तानविशेषाः कामिन्यादिविषयाः तरङ्गचन्द्रादिविषयाश्च प्रवाहभेदाः १० तेषु, न केवलं न प्रमाणमन्तरेण, तदनतिलधनस्यापि तथा प्राप्तेः । न च तदात्मसात्करणं
परस्योपपन्नम्, व्यभिचारदोषस्य तत्रोपदर्शितत्वात् । ततो निदर्शनस्य साध्यवैकल्यादपि न प्रकतानुमानयोर्गमकत्वमित्यभिप्रायो देवस्य ।
अपि च, यदि मिथ्यावभासनमेव ज्ञानम् , कुतः सन्तानान्तराणां प्रतिपत्तिर्यतस्तेषामनित्यत्वादिर्धर्मोऽवबुध्येत ? कुतो वा जीवान्तराणां यतस्तेषामप्यात्मा विभिन्नत्वादिस्वभावो १५ विभाव्येत, धर्मपरिज्ञानस्य धर्मिपरिज्ञाननान्तरीयकत्वात् । मिथ्याज्ञानाञ्च न यथावत्तत्प्रतिपत्तिा,
बहिरर्थतत्प्रपञ्चयोरपि तत एव तथा तत्प्राप्तेः अयथावदेवं तत्प्रतिपत्तिः, तेषामपि बाह्यभेदवदपरमार्थत्वात् , प्राह्यादिसन्तानान्तरजीवान्तरभेदप्रतिभासस्तु विपरीतवासनाबलादविद्यावलाद्वा परिकल्पित एव । तदुक्तम्,
"अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः। ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादयः । अन्यथैवावभासन्ते तद्रूपरहिता अपि ॥”[प्र० वा० २।३५४, ५५] इति । "यथा विशुद्धमाकाशं तिमिरोपप्लतो जनः । सङ्कीणमिव मात्राभिर्भिन्नाभिरपि पश्यति ॥ तथेदममलं ब्रह्म निर्विकल्पमविद्यया ।
कलुषत्वमिवापन्नं भेदरूपं प्रतीयते॥"[बृहदा०भा०वा०३।५।४३,४४]इति च । तदेवाह
अद्वयं द्वयनिर्भासं सदा चेदषभासते । इति ।
ज्ञानात् । २ शानत्वेन वि-आ०, ब०, प० । ३ वितथप्रतिभासित्वसिद्धिः। मिथ्याज्ञानादेव । ५ अयथावधृततत्प्र-आ०, ब०, प० । अयथावदेतत्प्र-स०। ६-त एतदु-आ०, ब०,५०।