________________
३११
१६४९]
प्रथमः प्रत्यक्षप्रस्ताव उपायोपेयभावश्च (श्वाs) पृथग्भावे कथं भवेत् ? ।
तद्विद्याविद्यायोर्येन 'सुमण्डं मण्डनोदितम् ॥ ७६४ ॥
स्यान्मतम्-न तस्य विद्यापेक्षं पृथक्त्वं नाप्यपृथक्त्वम् , अवस्तुत्वात् । वस्तुन एव हि कस्यचित्कुतश्चित्पृथक्त्वापृथक्त्वाभ्यां व्यपदेशो नावस्तुनः । तदयं ताभ्यामनिर्वचनीय एवेति; तदपि न सङ्गतम् ; यस्मात्
अयमेव च विद्यायाः स्वभावो यदि कल्प्यते । साप्यविद्यैव विद्याया वापि क्वोपलभ्यताम् ? ॥ ७६५ ॥ विद्यायाश्चेत्स्वभावोऽन्यो वास्तवः परिपठ्यते । अविद्यातः पृथग्भावः कथमेवं निषिध्यताम् ?॥७६६॥ स्वभावभेद एवायं पृथग्भावः प्रसिद्धिमान् । भावेषु यस्मात्तन्नेयं चर्चितार्था वचोगतिः ॥७६७॥ कथं चैवं पृथग्भावस्तस्याविद्यान्तरादपि ।
दिपेक्ष्यापि यत्तस्या वस्तुत्वं तदवस्थितम् ॥७६८॥ मा भूदिति चेत् ; कथमिदानीं तस्याम्नायोपजनितात्मैकत्वादिज्ञानलक्षणस्य प्रपञ्चरूपमृत्युं प्रति प्रत्यनीकतया तन्निस्तरणत्वम् ? यत इदं स्वाम्नातं भवेत्
"अविद्यया मृत्युं तीर्खा विद्ययाऽमृतमश्नुते". [ईशा० श्लो० ११] इति ।
सत्येव मिथः पृथग्भावे विषादेविषान्तरोपशमनादेरुपलम्भात् । अवस्तुसतोऽपि अवि. चान्तरात्पृथग्भावे तद्वदेव विद्यातोऽपि भवेत् अविशेषादित्युपपन्नो व्यभिचारः साधनस्य, वि. चाविद्याभेदस्यामृषात्वेऽपि तद्भावात् । ततो मण्डनादिभिरपि व्यभिचारदोषमजानानैरेव प्रकृतमनुमानमुपदर्शितमित्यावेदयति 'विप्लुताक्षा' इत्यादिना ।।
विविधं प्लुतं प्लवनं तरङ्गादिषु यस्य स विप्लुतो जलचन्द्रादिः, तमक्ष्णोति विषयत्वेन व्याप्नोतीति विप्लुताक्षा बुद्धिः यथा येन तद्विषयस्याभेदानुविद्धत्वादिना प्रकारेण वितथप्रतिभासिनी मृषाचन्द्रादिभेदोपदर्शिनी, तथा तेनैव प्रकारेण सर्वत्र बुद्धिः किन्नेति जडाः ब्रह्मविदः सम्प्रतिपेदिरे। जाड्यं तु तेषां व्यभिचारदोषापरिज्ञानात् अविद्यापरिकल्पि. तात्मत्वाद्वा प्रतिपत्तव्यम् ।
..... ..... यत्पुनरेतत् कामिन्यादिबुद्धिवत् तरङ्गचन्द्रादिवच्चेति निदर्शनम्-तत्रापि वितथप्रति
२०
२५
१ -वश्चेत् पृ-स० । सुष्ठु मण्डनं समर्थनं यस्य तत् सुमण्डम् । ३ अविद्याप्रबन्धस्य । ४ "नाविद्या ब्रह्मणः स्वभावः, नार्थान्तरम्, नात्यन्तमसती, नापि सती, एवमेवेयमविद्या माया मिथ्या प्रतिभास इत्युच्यते । स्वभावश्चेत् कस्यचित् , अन्योऽनन्यो वा परमार्थ एवेति नाविद्या; अत्यन्तासत्त्वे सपुष्पसदृशी, न व्यवहाराङ्गं तस्मादनिर्वचनीया"-ब्रह्मसि० पृ०९।५ परिपथ्यते ता०। ६ तदपेक्षायत्तस्य प.। तदपेक्षापि यत्तस्य भा०,०। ३ इदं साम्नातं भा०,०, प० ।