________________
न्यायविनिश्चयविवरणे
[१४९ वस्तुवृत्त्या तदप्येतदवस्तु यदि वर्ण्यते । अनुमानं कथं वस्तु तद्बलेनोपकल्पितम् ॥ ७५८ ॥ विश्वभेदमृषात्वस्य यतस्तस्माब्यवस्थितिः । न ह्यवस्तुवशात्किञ्चिन्मेयं शक्यनिरूपणम् ॥ ७५९ ॥ तत एवान्यथा विश्वभेदयाथात्म्यनिर्णयात् । कुतश्चित्तन्मृषावादः क्वास्पदं प्रतिपद्यताम् ? ॥७६०॥ अवस्तु न हि नामेह त्वयैव सुलभं भुवि । तत्कृता तत्त्वनिर्णीतिर्यत्तवैवेति कल्प्यताम् ॥ ७६१ ॥
तस्माद्वस्त्वेवानुमानम् अन्यथा ततोऽन्ययोगव्यवच्छेदेन साध्यव्यवस्थापनानुपपत्तेः । १. अंतस्तत्सत्यत्वनिदर्शनं मरणादिकमपि वस्त्ववेत्युपपन्नस्तेन व्यभिचारः साधनस्य ।
विद्याऽविद्याभेदेन च। न हि विद्याविद्ययोरभेदः । न च विद्याविद्ययोरियमियञ्चेत्यादिः प्रत्येकमनुगमो नास्ति मृषात्वाभावेऽपि इति । तद्भेदस्यापि मृषात्वमेवेति चेत् ; कुत इदानी संसारः १ तन्निबन्धनस्य पृथगविद्यारूपस्याभावात् ? कल्पितादिति चेत् ; कुतस्तत्कैल्पनम् ? प्राच्यादेव तद्रूपादिति चेत् ; न; तस्यापि वस्तुतो विद्यापृथग्भूतस्याभावात् । तदपि कल्पित१५ मेवेति चेत् ; न; 'कुतः' इत्यादेः प्रसङ्गादनवस्थानात् । नायं दोषः, अनादित्वात्तत्प्रबन्ध.
स्येति चेत् ; तस्य तर्हि वस्तुत एव विद्यापृथग्भावे तदवस्थं व्यभिचारित्वम् । अपृथग्भावे तु स एव प्रसङ्गः 'कुत इदानी संसारः' इत्यादि । पुनरपि 'कल्पितात्' इत्यादिवचने 'कुतस्तत्कल्पनम्' इत्यादिप्रसङ्ग आवर्तमानो महान्तमनवस्थादोषमुपनिपातयेत् । तस्मादतिदूरमभिलप्यापि
तस्य॑ तत्पृथग्भावस्तात्त्विक एव वक्तव्यः । कथमन्यथा अयमाम्नायः२० "विद्यां चाविद्याश्च यस्तद्वेदोभयं सह" ॥ [ईशा० श्लो० ११] इति ।
"विद्याविद्ये न्ये (द्वे ) अप्युपायोपेयभावात् सहिते" [ब्रह्मसि० व्या० पृ० १३] इति च तद्विवरणं "मण्डनं (नस्य); निरवकाशत्वात् । तथा हि
यदि विद्यापृथग्भावो वस्तुनः कल्पितस्य वा । "तत्प्रबन्धस्य नास्त्येव क्व प्रतिष्ठा "सह श्रुतेः ॥ ७६२ ॥ सत्येव यत्पृथग्भावे "तत्प्रयोगस्य दर्शनम् । "सह चैत्रेण मैत्रोऽयं स्थूल इत्यादिषु स्फुटम् ॥ ७६३ ॥
१ अतस्तत्वनि-मा०,०,०।२ विद्याऽविद्याभेदस्यापि । ३ अविद्यारूपकल्पनम् । ४ अविद्यारूपात् । ५ विद्यासन्तानस्य । ६ अविद्यारूपस्य । ७ विद्यापृथग्भावः । ८ मैत्रा० ७१९ । भवसन्त ।। ९ विद्यावि. येत्वे प० । विद्याविद्येन्वे मा०, ब०। १० मण्डनस्तुनि-आ०, ब०, प० । 'मण्डनम्' इति पाठे 'मण्डनकृतम्' इस्यों प्रायः। विद्याप्रबन्धस्य । १२ 'यस्तद्वेदोभयं सह' इत्यत्रोक्तस्य सहशब्दस्य । १३ सहशब्दप्रयोगस्य । ११ समाचै-स।