________________
३०९
१४९]
प्रथमः प्रत्यक्षप्रस्ताव स्य सप्तम्यन्तप्रतिरूपकस्य प्रथमान्तस्य भावात् । किन्न वितथप्रतिभासिनी भवत्येव इति एवं जडाः व्यभिचारदोषपरिज्ञानविकलास्ताथागताः सम्प्रतिपेदिरे सम्भूय प्रतिपन्ना इति ।
यत्पुनरेतन्मण्डनस्य
"प्रत्येकमनुविद्धत्वादभेदेन मृषा मतः ।
भेदो जलतरङ्गाणां भेदाभ्रेदः कलावतः॥" [ब्रह्मसि० का० ३१] ५
"अभेदानुविद्धत्वात्प्रत्येक विश्वस्य.भेदो मृषा यथा जलतरङ्गेषु चन्द्रमसः, तंत्र हि प्रत्येकं चन्द्रमा इत्यन्वयः। तथा विश्वस्य भेदेऽपि प्रत्येकमिदं 'तत् अर्थो वस्तु' इत्यभेदान्वयः, तरुभेदस्तु यद्यपि न मृषा वनमित्यभेदाऽनुगत[मश्च न तु प्रत्येकम् । न हि प्रत्येक तरुषु वनमिति बुद्धिरतो न तेन व्यभिचारः। एतदर्थञ्च प्रत्येकमित्यु. तम्" [ ब्रह्मसि० व्या०] इति; तदपि तस्य बलवतस्तमसो विलसितमेव ; तथा हि- १० किमिदं भेदस्याभेदानुविद्धत्वम् ? एकस्वभावान्वय इति चेत् ; न; जलतरणचन्द्रेष्वपि तदभावात् , तत्प्रतिपत्तिवैकल्यात् । न हि तत्राप्येकतरङ्गचन्द्र एव परापरप्रतिपत्तिरस्ति युगपन्नानारूपतयैव तेषां प्रत्यवभासनात् । 'चन्द्रश्चन्द्रः' इत्यनुगमव्यवहारस्तु तत्र सादृश्यनिबन्धन एव नैकत्वायत्तः, तेषां परस्परं सदृशतयैव प्रतिपत्तेः । भवतु सादृश्यमेव तत्राभेदानुगम इति चेत् ; न तस्यापि गमकत्वम् , धर्मिहेत्वादिज्ञानैर्व्यभिचारात् । न हि तेषु 'इदं ज्ञानमिदं ज्ञानम्' इति १५ प्रत्येकमनुगमो नास्ति, सुप्रसिद्धत्वात् । न च तेषां मृषात्वम् , तत्कथन्न व्यभिचारी हेतुः ? तोन्यपि मृषेति चेत् ; कथं तेभ्यस्तात्त्विकं भेदमृषात्वानुमानम् ? अमृषात्वेन कल्पनादिति चेत् ; न; माणवकादप्यमृषापावकतया कल्पितात्तात्त्विकस्यैव दाहादेः प्रसङ्गात् ।
ननु कल्पितोऽपि च अहिदंशो मरणकार्याय कल्पते प्रतिस॒र्यकश्च प्रकाशकार्याय, तद्वत्कल्पितरूपेभ्य एव तज्ज्ञानेभ्यः किन्न तात्विकं तदनुमानमिति चेत् ? तैस्तर्हि मरणादि- २० भिर्व्यभिचारः साधनस्य । तेषाम् 'इदं मरणकार्यम् , इदं प्रकाशकार्यम्' इति प्रत्येकमभेदानुगमे सत्यपि मृषात्वाभावात् । मृषैव तान्यपीति चेत् ; न; यस्मात्
अमृषाकार्यनिष्पत्तौ मृषारूपानिमित्ततः । दृष्टान्तत्वं कथं तेषां मृषैव यदि तान्यपि ॥ ७५५ ॥ लोकप्रसिद्धितस्तेषाममृषात्वेन तंद्यदि । तेनैव व्यभिचारित्वमपि कस्मान्न मृष्यते ॥ ७५६ ॥ वस्तुतो व्यभिचारित्वं ततश्चेन्न प्रसिद्ध्यति । दृष्टान्तत्वं कथं तस्माद्वस्तुभूतं प्रसिद्ध्यति ॥ ७५७ ॥
तत्र तर्हि भा०, ब०, ५० । २ तदर्थोऽवस्थित्यभे-मा०, ब०, ५०।३ -त्यभेदोऽनुग-आ•, ब., प.। "वनमित्यमेदानुगमश्च"-ब्रह्मसि० व्या०। ४ तेषां तत्प्रत्यव-श्रा०, ब०, ५०।५ धर्मिहेस्वादिशानानि । -सूर्यकञ्च भा०, ब०, प० । ७ धर्मिहत्वादिज्ञानेभ्यः । ८ मरणादीन्यपि । ९ दृष्टान्तत्वम् ।