________________
३०८.
न्यायविनिश्चयविवरणे
I re
१०
तथा तत्सम्भवेऽपि न तस्य कुतश्चित्परिज्ञानम् ; तत्परिज्ञानवतः सर्वज्ञत्वापत्तेः । न हि निरखशेषानागतकाले पर्यायपरिज्ञानाभावे तदधिष्ठानस्य बाधानुत्पादस्य परिज्ञानं सम्भवति । किञ्चिज्ज्ञानस्यापि भवत्येव क्रमेण तत्परिज्ञानमिति चेत्; न तर्हि कदाचिदपि तद्वैशिष्ट्यस्य निश्वयः, परापरसमयभाविबाधानुत्पादप्रतीक्षायामेवासंसारं व्यापारात् । तन्न बाधाविरहविशिष्टादपि ५ प्रतिभासाद्विषयस्य वस्तुसत्त्वव्यवस्थापनम् । अस्खलितप्रत्ययविषयत्वादित्यपि न युक्तम् ; बाधाविरहादपरस्य तदस्खलनस्यैवासम्भवात् । तस्य च प्रतिविहितत्वात् । यस्तु लोकस्य तत्रास्खेलनाभिमानः स वासनादायदेव न विषयस्य वस्तुस वात् । तन्न तद्विषयतया कस्यचित् सम्यगवभासित्वमिति कथं तत्र साधनस्य सम्भावनम्, असति तदयोगादिति न सन्दिग्धविपक्ष व्यावृत्तिकत्वेनानैकान्तिकत्वं तस्येति चेत्; तन्न समीचीनम्.; बाधावैकल्यस्य कचिदन्तरङ्ग सामर्थ्ये स्वत एव परिज्ञानसम्भवात् । नियतदेशाद्यपेक्षयैव तत्सम्भवो न देशादिसाकल्यापेक्षयेति चेत्; न; तदपेक्षयापि तदविरोधात्। तत्साकल्यापरिज्ञाने कथं तदपेक्षयापि तदविरोध इति चेत्; न; तथा शक्तत्वात् तस्य फलतोऽवगमात् । सम्भवति च तत्फलमेवम्, एवमिदं देशकालनरान्तरापेक्षयापीति परिज्ञानम् एवं प्रतीतिभावात् । अवश्यं चैतदेवमभ्यनुज्ञातव्यम् ; अन्यथा भवद्विचारेऽपि तद्वैकल्यस्यापरिज्ञानप्रसङ्गात् । तथा च ततोऽपि कथं बाधावैकल्यस्याभावो भावतः सिद्ध्येत् ? १५ न मया कुतश्चित्तद्वैकल्यस्याभावः साध्यते यदयं प्रसङ्गः, केवलं तत्र परोक्तमेव प्रमाणं प्रतिक्षिप्यत इति चेत्; तत्प्रतिक्षेपस्तर्हि विचाराद्वस्तुसन्नेव सिद्ध्यतीति वक्तव्यम्; अन्यथा तस्यैव वैयर्थ्यापत्तेः । न च बाधावैकल्यमन्तरेण ततस्तत्सिद्धिः, प्रतिभासमात्रस्यासत्यपि विषये भावादिति स्वत एव तस्यापि तद्वैकल्यम्, सँकलदेशकालनरापेक्षयापि सुपरिज्ञातमभ्यनुज्ञातव्यम् । तत्प्रतिक्षेपोऽपि न मया ततः क्रियते परव्यामोहनस्यैव करणादिति चेत्; तद्धेतुत्वं तर्हि तस्य २० निश्चेतव्यम्, अन्यथा तदर्थं तस्यैवोपादानानुपपत्तेः । न चानिश्चितबाधावैकल्यात्कुतश्चित्तन्निश्चयो बाह्यनिश्चयवत् । न च तत्र तन्निश्चयोऽन्यतः अनवस्थादोषात् । पर्यन्ते यदि स्वत एवोक्तरूपस्तन्निश्चयः ; तर्हि बहिर्वेदनेऽपि भवेदिति सम्भवत्येव तत्र वस्तुसद्विषयत्वेन सम्यगवभासित्वमिति तत्र सम्भाव्यमानमनैकान्तिकमेव ज्ञानत्वं विपक्षव्यावृत्तेः संशयात् । तदिदमतिसुकुमारप्रज्ञगोचरमपि हेतुदोषमन्तरङ्गतमो बाहुलकादप्रतिपद्यमानैरेव परैः प्रकृतमनुमानमुपदर्शितमित्यावेदयन्नाहविप्लुताक्षा यथा बुद्धिर्वितथप्रतिभासिनी ।
1
तथा सर्वत्र किन्नेति जडाः सम्प्रतिपेदिरे ॥ ४९ ॥ इति ।
२५
विप्लुतानि कामोन्मादकाचादिभिरुपहतानि अक्षाणि मनःप्रभृतीनिन्द्रियाणि यस्यां तत्र कर्तव्यायां सा विलुताक्षा बुद्धिः प्रतीतिः, सा यथा येन बुद्धित्वादिप्रकारेण वितथप्रतिभासिनी मिथ्याकामिन्याद्युपदर्शिनो तथा तेन प्रकारेण सर्वत्र सर्वा बुद्धिः 'सर्वत्र' इत्यः
१ - पर्ययपरि-आ०, ब०, प० । २ बाधाविरहस्य । ३ देशादिसाल्याज्ञाने । ४ बाधावैकल्यस्य । ५ - सत्यविषये आ०, ब०, प०, ६ सकलनरा-आ०, ब०, प०, १७ - त्वं हि तस्य आ०, ब०, प० । ८ - तदर्थस्यैवो-आ०, ब०, प० ।