________________
१९२४८ ]
प्रथमः प्रत्यक्षप्रस्तावः
"
विपक्ष: ? वितथावभासनिवृत्तिमात्रमिति चेत्; न; तस्य तुच्छेस्याप्रतिपत्तेः । अवितथावभासत्वमिति चेत्; तदपि यदि वस्तुसदेव कथं तेनं तस्य विरोध: ? न ह्यज्ञानस्य तदवभासित्वमुपपन्नम्, [ज्ञान] कल्पनावैफल्यापत्तेः । असदेव कल्पनारोपितत्वादिति चेत्; तेनापि कस्तस्य विरोधः ? सहानवस्थानमिति चेत्; न; सहैव तदवस्थानात् । सत्येव तज्ज्ञाने तत्कल्पनस्यो - पपत्तेः, निरधिष्ठानस्य तस्यायोगात् । परस्परपरिहार इति चेत्; न; ज्ञानत्वस्याज्ञानत्वेनैव तद्भावात् ५ न सम्यगवभासित्वेन । तद्विरुद्ध व्याप्तत्वात्तेनापि तस्ये तद्भावः सम्यगवभासित्वविरुद्धं मिथ्यावभासित्वं तस्य परिहारेणावस्थानात् तेन च व्याप्तं ज्ञानत्वम्, अतस्तस्यापि नैतद्भाव इति चेत्; कुतस्तस्यै व्याप्तत्वम् ? तद्विपर्ययविरोधादिति चेत्; न; परस्पराश्रयात् - तद्विपर्ययविरोधात्तस्य तद्व्याप्तत्वम्, ततश्च तद्विपर्ययविरोध इति । कामिन्यादिज्ञानेषु सत्येव तस्मिन् तस्यें दर्शनात्तव्याप्तत्वनिश्चय इति चेत्; न रथ्यापुरुषादौ सत्येव किञ्चिज्ज्ञत्वादौ वक्तृत्वादेरपि १० दर्शनात् तस्यापि “तद्व्याप्तत्वनिश्चयापत्तेः । अतस्तस्यापि विरोधबलादेव विपक्षव्यावृत्तिसम्भवात्कथं सन्दिग्धविपक्षव्यावृत्तिकत्वं यन्न गमकत्वं भवेत् । तथा चासङ्गतमेतद्
Ε
३०७
“उक्त्यादेर्दोषसंक्षयः ।
नेत्युक्ते व्यतिरेकोऽस्य सन्दिग्धो व्यभिचार्यतः ॥" [ प्र० वा १।१४४ ] इति ।
विरोधबलादेव विपक्षव्यावृत्तिनिर्णये तत्र सन्देहानुपपत्तेरव्यभिचारित्वस्यैव सम्भवात् । १५ ज्ञानप्रकर्षतारतम्येऽपि वक्तृत्वादेरपकर्षतारतम्यानवलोकनात् । अत्यन्तप्रकर्षप्रा प्तेऽपि ज्ञाने तत्सम्भावनादविरोध एव ते तस्यै तदयमदोष इति चेत्; न तर्हि सत्येव तस्मिन् तद्दर्शनाव्याप्तत्वनिर्णयः, सत्येव किञ्चिज्ज्ञत्वादौ दृष्टस्यापि वक्तृत्वादेस्तद्विपक्षेऽपि सम्भावनात् । तथा च कथं ज्ञानत्वस्यापि वितथावभासित्वेन व्याप्तिर्यंतस्तद्बलात्तद्विपर्ययेणे तस्यें विरोधः स्यादिति तदवस्थं तस्यापि सन्दिग्धविपक्षव्यावृत्तिकत्वेनागमकत्वम् ।
२०
नन्वत्र सम्यगवभासित्वमेव विपक्षः ; तच न ज्ञायते किमिदमवभासस्य सम्यक्त्वमिति ? वस्तुसद्विषयत्वमिति चेत्; विषयस्यापि कुतो वस्तुसत्त्वम् ? न प्रतिभासनात्; तस्यावस्तुसत्यपि कामिन्यादौ भावात् । बाधविरह विशिष्टादिति चेत्; तद्वैशिष्ट्यस्यैव कुतोऽवगमः ? बाधानुपजननादिति चेत्; न; तदनुपजननस्योत्पत्तिसमये कामिन्यादिज्ञानेऽपि भावात् । पश्चादपि भाविनः ततस्तदवगम' इति चेत्; न; कामिन्यादिज्ञानेऽपि पश्चादपि तत्सम्भवात् । न सर्वदा पश्चा- २५ 'तत्सम्भवइति चेत्; न; नीलादिज्ञानेऽपि समानत्वात् । न हि तत्रापि सर्वथा पश्चात त्सम्भवः ; चिरकालानुपजातबाधस्यापि पुनः कुतश्चि । धोपदर्शनात् शास्त्रार्थ विपर्ययज्ञानवत् । १ - स्याप्रतिपत्तितो वि-आ०, ब०, प० । अवितथावभासित्वेन । ३ ज्ञानत्वस्य । ४ यदि अवितथाव भासित्वमसदेव । ५-व ज्ञाने आ०, ब०, प० । ६ - नोपप-आ०, ब०, प० । ७ परस्परपरिहार सद्भावाद । ८ सम्यगव भासित्वेनापि । ९ ज्ञानत्वस्य १० परस्परपरिहारलक्षणो विरोधः | ११ ज्ञानत्वस्य । १२ मिथ्यावभासव्याप्तत्वम् । १३ मिथ्यावभासित्वे । १४ ज्ञानत्वस्य । १५ असर्वज्ञत्वव्याप्तत्व । १६. वक्तृस्वादेरपि । १७ -ते विज्ञा- भा०, ब०, प० । १८ सर्वज्ञरूपविपक्षेण । १९ वक्तृत्वादेः । २० अवितथावभासित्वेन । २१ ज्ञानत्वस्य । २२ बाधानुपजननात् वैशिष्यावगमः । २३ बाधानुपजननसम्भवः ।