________________
न्यायविनिश्चयविवरणे
[ १२४८
"
तत्स्वभावत्वानुपपत्तेः । कथमतदाकारेण तद्ग्रहणम् ? प्रतिबन्धाभावेन सर्वग्रहणप्रसङ्गादिति चेत्; न; प्रतिबन्धस्य शक्तिनियमलक्षणस्य प्रतिपादितत्वात् कथमन्यथा विप्लुताकारग्रहणम् ? न हि तत्र तादात्म्यम् विप्लुतेनाऽविप्लुतस्य तदयोगात् । नापि तस्मादुत्पत्तिः, तस्याशक्तत्वात् समकालत्वाच्च । ततः शक्तिनियमादेव तत्परिज्ञानम्, तद्वन्नीलादेरपि इति । न च विप्लु५ ताकारज्ञानं नास्त्येव; स्वयमेव तदभ्युपगमात् । अत एवोक्तम्
"
"अवेद्यवेदकाकारा यथा भ्रान्तिर्निरीक्ष्यते ।
विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा ||" [ प्र०वा० २ । ३३० ] इति ।
यतोऽपि ग्राह्यादिभेदेविफलवन्नि (विप्लववन्नि) रीक्षणं ततोऽपि न वस्तुतस्तन्निरीक्षणम् ; स्वरूपमात्रविषयत्वात् । अन्येन तु तद्विषयत्वं तत्रोपकल्प्यत इति चेत्; सिद्धं तर्हि तदन्यस्य तद्वि१० षयत्वम् अतद्विषयेण तदुपकल्पनायोगात् । तत्राप्यन्यतस्तदुपकल्पनायामनवस्थानदोषात् । ततो दूरं प्रपलायितेनापि स्वत एव कुतश्चित् तद्विप्लवस्य परिज्ञानमभ्युपगन्तव्यम्, तद्बहिर्भूतस्यैव तच्छक्तिनियमादिति च ।
१५
३०६
२०
ततो यदुक्तम्
"संवेदनेन बाह्यत्वमतोऽर्थस्य न सिद्ध्यति । संवेदनाद्वहिर्भावे स एव तु न सिद्ध्यति ॥ यदि संवेद्यते नीलं कथं बाह्यं तदुच्यते ? |
न चेत्संवेद्यते नीलं कथं बाह्यं तदुच्यते ? || '' [ प्र० वार्तिकाल० ३।३३१] इति; तत्प्रतिक्षिप्तम् ; विप्लवेऽपि समानत्वात् । तथा हि
संवेदनेन बाह्यत्वं विप्लवस्य न सिद्ध्यति ।
संवेदनाद्वहिर्भावे स एव तु न सिद्ध्यति ॥ ७५३ ॥ agat यदि वेद्येत कथं बाह्यः स उच्यते ।
विप्लवश्चेन्न वेद्येत कथं बाह्यः स उच्यते ।। ७५४ ॥ इति ।
ततो यदि सत्यपि वेदने विप्लवस्य बाह्यत्वमविरुद्धं नीलादेरपि स्यादविशेषात् । यद्येवं नीलादिज्ञानमपि वितथावभासं ज्ञानत्वात् कामिन्यादिज्ञानवदिति चेत्; कथं पुनः साधर्म्यमात्रस्य २५ गमकत्वम्, तत्पुत्रत्वादावपि प्रसङ्गात् । विपक्षेऽपि भावान्नैवं चेत्; ज्ञानत्वस्य विपक्षव्यावृत्तिः कुतोऽवगता ? अनुपलम्भादिति चेत्; न; ततस्तदवगमायोगात्, वक्तृत्वादावपि तत एव तदवगमप्रसङ्गात् । न हि तँस्यापि विपक्षे सर्वज्ञादावुपलम्भोऽस्ति । तथा च 'सुगतो न सर्वज्ञो वीतरागोवा वक्तृत्वादे. रथ्यापुरुषवत् इत्यस्यापि गमकत्वं भवेत् । अनुपलम्भेऽपि विरोधाभावात्सन्दिग्धैव तस्य विपक्षेव्यावृत्तिरिति चेत्; किं पुनर्ज्ञानत्वस्य विपक्षेण विरोध: ? तथा चेत्; कोऽसौ
१ विप्लुत परिज्ञानम् । २ - भेदफल - आ०, ब०, प० । ३ अनुपलम्भात् । ४ - तदपगमा - ता० । विपक्षव्यात्रत्तिज्ञानाभावात् । ५ तदपगमप्र - ता० ६ वक्तृत्वस्य । ७ विपक्षविरोधाभावात् । ८ वक्तृत्वस्य । ९ - चाव्यावृ - ता० ।