________________
१९४८ ]
३०५
भावः । विभ्रमबलादन्तः शरीरवर्त्तिनोऽपि बहिर्भावेन ग्रहणमविरुद्धमिति चेदाह - किं वा किमिव, रचितो निर्मितः अयं परेणोच्यमानः शिलाप्लवः अश्रद्धेयतया शिलाप्लवसमानत्वाच्छिलाप्लव इति । शरीरान्तर्वर्त्तिनो बहिः प्रतिभास उच्यते । एतदुक्तं भवति - यथा शिलायां निमज्जनमेव श्रद्धेयं गुरुत्वान्न प्लवनं लघुत्वाभावात् तथा कामिन्यादेरन्तरेव प्रतिभासनं श्रद्धेयम् अन्तर्भवनस्य तत्र भावात्, न बहिः बहिर्भवनस्याभावात् । असदपि बहिर्भवनं भ्रान्तिबला - ५ त्प्रतिभासत इति चेत्; कथमेवं कामिन्यादिरेव असन्न प्रतिभासेत भ्रान्तिबलस्य सम्भवात् बाध्यमानतया बहिर्भावासक्ष्ववत् तदसत्त्वस्यापि परिज्ञानात् । तस्मादसन्नेव कामिन्यादिर्नाल - किकोऽर्थो नापि ज्ञानाकार इति ।
प्रथमः प्रत्यक्ष प्रस्तावः
स्यान्मतम् - भ्रान्तमपि ज्ञानं न कामिन्यादेर्व्यतिरिक्तमस्ति तदप्रतिवेदनात्, तत्कथं तंद्वलासत एव तस्य परिज्ञानमिति ? बहिर्भावस्य कथम् ? मा भूदिति चेत्; न; दृष्ट. १० त्वात् । दृष्टं हि बहिर्भावस्य परिज्ञानम्, 'बहिरयं कामिन्यादिः' इति । न च दृष्टस्यापह्नवः कामिन्यादिज्ञानेऽपि प्रसङ्गात् ।
ननु न ज्ञानादेव तस्यै बहिर्भावो न च तस्य तस्माद्व्यतिरेकः तदप्रतिवेदनात् । न चाव्यतिरिक्तादेव बहिर्भावो विरोधादिति चेत्; न; कामिन्यादेर्ज्ञानमिति व्यतिरेकस्यापि परिज्ञानात् । मिथ्यैव तत्परिज्ञानं 'शिलापुत्रकस्य शरीरम्' इत्यादिवदिति चेत्; कुतस्तस्य १५ मिध्यात्वम् ? तद्विषयस्य व्यतिरेकस्यासत्त्वादिति चेत् ; किं पुनरसतोऽपि प्रतिभासनम् ? तथा चेत् किश्न कामिन्यादेरेवासतः प्रतिभासनं र्यंतस्तस्य ज्ञानाकारत्वकल्पनम् । ततो वस्तुसन्नेव कामिन्यादेस्तज्ज्ञानाव्यतिरेक इति बहिरेवासौ न तदाकारः । बहिरपि न सन्नेव बाधावत्त्वात् । ततो यदुक्तम्
"आत्मा स तस्यानुभवः स च नान्यस्य कस्यचित् ।
अर्था
प्रत्यक्ष प्रतिवेद्यत्वमपि तस्य तदात्मना ।" [ प्र०वा० २।३२६ ] इति; तत्प्रतिविहितम् ; तदनुभवस्य तदर्थान्तरत्वेन 'आत्मा' इत्यादेरयोगात, " न्तरस्यैवानुभवस्यासौ वेद्यतया " सम्बन्धी इति स च' इत्यादेरसम्भवात् । प्रत्यक्ष प्रतिवेद्यत्वमपि तस्यार्थान्तरादेवानुभवान्न पुनः स्वयमनुभवात्मत्वादिति 'प्रत्यक्ष' इत्यादेरप्यनुपपत्तेः । यदप्युक्तम्
२५
"नीलादिरूपस्तस्यासौ स्वभावोऽनुभवश्व सः ।
नीलाद्यनुभवः ख्यातः स्वभावानुभवोऽपि सन् ॥” [प्र०वा० २।३२८] इति; तदपि न सुभाषितम् ; नीलादेरपि कामिन्यादिवदतदाकारेणैव ज्ञानेन परिज्ञानात्, तस्य
१ कामिन्यादेरेव आ०, ब०, प० । २ कामिन्याद्यसंत्वस्यापि । ३ भ्रान्तिबलात् । ४ कामिन्यादेः । ५ दृष्टं बहि-आ०, ब०, प० । ६ कामिन्यादेः । ७ भेदस्यापि । ८ यत्तस्य आ०, ब०, प० । ९ ज्ञानाकारः ।
१० - न्तरस्यैवास्यानुभ-आ०, ब०, प० । ११ सम्बन्धेति सचेदित्या-आ०, ब०, प० ।
३९
२०