________________
३०४ न्यायविनिश्चयविवरणे
[ १४८ इत्यादि।
न तंत्रापि परमार्थतः परस्परतो दर्शनम् , व्यवहारमात्रेण तु तदभ्यनुज्ञानमिति चेत् ; तस्य स्वप्नान्तिकेऽपि भावात् । अस्ति हि तत्राप्येवं व्यवहारः 'परमहं पश्यामि परोऽपि माम्' इति । तथा च सुप्तोत्थितो यथा परं कथयति 'मया त्वं स्वप्ने दृष्टः' इति ५ तथा परोऽपि ब्रूयात् 'मयापि त्व' दृष्टः' इति । व्यवहारप्रसिद्धमपि तत्रै परस्परदर्शनं मिथ्यैवेति चेत् ; तच्छरीरदर्शनमपि तथा स्यादविशेषात् ।।
किञ्च तच्छरीरस्योपादानम् ? अनुपादानस्य वस्तुसत्तानुपपत्तेः, अन्यथा आदिजन्म. नोऽपि तथैव तदापत्तेर्न परलोकसिद्धिर्भवेत् । भवतु स्वप्नान्तिकमेव परं तस्योपादानमिति
चेत् । तर्हि सन्तानान्तरमेव तदिति कथं तस्य ताडनादौ सुप्तशरीरस्योत्त्रासनादिकम् ? न १० मन्यस्य "वटकभक्षणे परस्य पिपासया मरणमुपलब्धम् । सुप्तशरीरमेव तस्योपादानमिति
घेत; तत्तर्हि निःसन्तानं भवेत् , एकस्य सन्तानद्वयोपादानत्वानुपपत्तेः । तदुपपत्तौ वा यथा ततः स्वप्नान्तिके बुद्धीन्द्रियादेः सन्तननं तथोत्तरसुप्तशरीरेऽपीति कथं तस्य सुप्तत्वम् "बुद्धयमानत्वात् स्वप्नान्तिकवत् । कथा व मात्रादिशरीरमेवापत्यसन्तानस्य स्वसन्तानस्य"
चोपादानं न भवेद्यतः परलोकसिद्धिरिति दुस्तरोऽयं दोषापातः । तन्न तस्य" परमार्थसत्त्वम् , १५ अर्थरूपतया च तत्सत्त्वे कथं निश्छिद्रपिहितेऽपि गर्भगृहादौ तस्य प्रवेशः तदन्यत्र "तददर्शनात् ।
"अप्रतिघत्वेनान्यविलक्षणत्वात्तस्येति चेत् ; न; अलौकिकार्थवादप्रत्युज्जीवनापत्तेः, अलौकिकस्यैव अप्रतिघ इति नामान्तरप्रतिपादनात् , ततो विजयी मीमांसकः स्यान्न ताथागतः । बोधरूपतया तु तस्य परमार्थत्वमाकारवादप्रतिक्षेपादेव प्रतिक्षिप्तमिति न पुनः प्रतिक्षिप्यते । ततो न बहिर• र्थतया स्वप्नान्तिकस्य कामिन्यादेर्वा सत्त्वं बहिरवस्थितस्य नानाप्रतिपत्तृसाधारणत्वप्रसङ्गात् ।
नायं दोषः, "तस्यान्तर्देवृत्तित्वादिति चेत् ; इदमेवोल्लिख्य "परिहरनाह
अन्तःशरीरवृत्तश्चेवदोषोऽयं न तादृशः।
तत्रैव ग्रहणात्किं वा रचितोऽयं शिलालः ॥४८॥ इति ।
शरीरस्यान्तः अन्तःशरीरम् , अन्तःशब्दस्य "पारे मध्येऽन्तः" [ शाकटा० २।१।९ ] इति सूक्तत्वात् पूर्वनिपातः। तत्र वृत्तिवनं कामिन्यादेस्तस्याः चेत् यदि २५ अदोषो दोषो न भवति अयम् 'अभिन्नदेशकालानाम्' इत्यादिः। तत्रोत्तरमाह-न इति ।
नास्त्यन्तःशरीरवृत्तिः । अत्रोपपत्तिमाह-तादृशः कामिन्यादिप्रकारस्य तत्रैव बहिरेव, बहिरित्यस्य प्रस्तुतत्वात् , ग्रहणात् परिज्ञानात् । न ह्यन्तःशरीरवृत्तौ बहिर्ग्रहणमुपपन्नमिति
"मन्यते बुद्धिसद्भावं सा न येषु न तेषु धाः ।" इत्युत्तरार्धम् ।-सिद्धिवि. वि. परि० । उद्धृत. मिदम्-राजवा० पृ. १९।२ जाग्रच्छरीरे । ३ स्वमान्तिके । ४ -थाद्विजन्म-मा., ०,५०। ५ अनु. पादानतयैव । ६ वस्तुसत्तापरीः । ७ 'दहीबड़ा' इति भाषायाम् । ८ कस्तर्हि मा०, ब०, ५०। ९ सुप्तशरीरम् । १० सुप्तस्य कामिन्यादेर्वा शरीरात् । ११ बुद्ध्यायमानत्वात् भा०, ब०,१०।१२ ससन्तानस्य आ०, ब०,०। १६ स्वप्नान्तिकशरीरस्य । १४ तदर्श-मा.ब.प.। १५ प्रतिघातरहितत्वेन । ११ स्वप्नान्तिकस्य कामिम्यादेर्वा । - परिहारयमाह भा० ब०५०।