________________
१।४७ ]
प्रथमः प्रत्यक्षप्रस्तावः तस्यैव प्रीतिरूपस्य तत्फलत्वेन प्रसिद्धत्वात् , तद्वत्कामिन्यादेरपि तदर्शनस्यैव 'प्रीतिरूपस्य फलत्वोपपत्तेः नार्थक्रियाविरहादनिष्टत्वमुपपन्नम् । तथा च कस्यचिद्वचनम्
"ज्ञेयस्वरूपसंवित्तिरेव तत्र क्रिया मता ।
चित्रेऽपि 'दृष्टिमात्रेण फलं परिसमाप्तिवत् ॥ [अ० वार्तिकाल० १।१] इति । तदपि दर्शनं न कामिन्गादेः अपि त्विन्द्रियादेरेवेति चेत् ; कथमतत्कार्यस्य "तद्विषयत्वम् ? ५ स्वशक्तित इति चेत् ; न; असद्विषयत्वस्यापि प्रसङ्गात् , तत्कथं कामिन्यादेरलौकिकत्वेन सत्त्वम् ? तन्निर्बन्धे वा तत्कार्यमेव तदर्शनमिति कथमर्थक्रियाविरहात्तस्यानिष्टत्वम् , यतस्तदुपलब्धिहेतोः काचोन्मादादेविप्लवत्वम् ? अविप्लवत्वे च कथं तदपनयने लोकस्य प्रयासश्चक्षुरायपनयनवत् ? ततो न वस्तुसद्दर्शने विप्लवापेक्षणं विप्लवस्यैव तत्रानुपपत्तेः। अतश्चक्षुरादिरेव तत्र सामग्रीति तत्सामग्रीतः परस्यापि समानदेशकालस्य तद्विपरीतस्य च तदर्शनं भवेत् , अनि १० यतदेशादेरर्थस्य नियतप्रतिपत्तृवेद्यत्वाप्रतिवेदनात् । ततो न स्वत एव तस्यानियतदेशादित्वम् , अपि विच्छानुवर्तनादेव, इच्छयैव तद्भावनालक्षणया परितः कामिन्यादेरुपलम्भात् । अतो न तस्य पारमार्थिक बहिरर्थत्वम् ।
एतदेवाह
अभिन्नदेशकालानामन्येषामप्यगोचराः । विप्लुताक्षमनस्कारविषयाः किं बहिः स्थिताः ॥४७॥ इति ।
किं नैव बहिः स्थिताः? के १ विप्लुताक्षमनस्कारविषयाः। विप्लुसाक्ष. विषयाः केशादयः विप्लुतमनस्कारविषयाः कामिन्यादयः । कीदृशास्ते न बहिः स्थिताः ? अभिन्नदेशकालानाम् विप्लुतेन सहाभिन्नौ समानौ देशकालौ येषां तेषाम् , इदं कामिन्यादीनां नियतदेशादित्वापेक्षयोक्तम् , अन्येषामपि भिन्नदेशकालानामपि, एतदनियतदेशत्वाद्यपेक्षया प्रति. २० पादितम् । तेषामगोचरा अविषयाः इति । तात्पर्यमत्र-यदि परमार्थसन्तोऽपि नियतदेशादयस्तदा तेन विप्लुतेन अभिन्नदेशकालानां विषया एव भवेयुः । अनियतदेशादयः पुनरन्येषामपि, तथैव परत्र परमार्थसति दर्शनात् । न चैवम् , अतो न ते बहिर्विद्यन्त इति ।
तदनेन "स्वप्नान्तिकशरीरं वस्तुसत्' इति प्रत्युक्तम् ; वस्तुत्वे तस्य यथा तेनान्येषां दर्शनं तथाऽन्यैरप्यभिन्नदेशकालैस्तस्य दर्शनं भवेत् , अस्वप्नान्तिकशरीरवत् , अन्यथा "तस्यापि २५ परैरग्रहणापत्तेः कथं सन्तानान्तरव्यवस्थापन यत इदं सूक्तं भवेत्
"बुद्धिपूर्वा क्रियां दृष्ट्वा स्वदेहेऽन्यत्र तहात् ।" [ सन्ताना० श्लो० १ ]
प्रतीतिरूपत्वस्य आ०,ब० । २ दृष्टमा-आ०,व०प०।३ दर्शनं तु का-मा०,०,०।४ कामिन्यायकार्यस्य । ५ कामिन्यादिविषयत्वम्। ६-विरहार्थस्य भा०.०.१०।७काचीमान्दादे-बा..ब.प.16 काचाद्यपनयने । ९ कामिन्यादेः । १० स्वापान्तिकश-आ०,०,१०। “यथा स्वप्रान्तिकः कायः त्रासलङ्घनधावनैः। जाप्रद्देहविकाराय तथा जन्मान्तरेष्वपि"-प्र०वार्तिकाल०॥६६ स्वप्नान्तिकशरीरस्य । १२ आछरीरस्यापि ।