________________
३०२
न्यायविनिश्चयविवरणे
तदयुक्तम् ; असतः प्रतिभासेऽतिप्रसङ्गात् , व्योमकुसुमादेरपि तदापत्तेः । 'अतो वस्तुसनेव तत्केशादि [:] स्वप्नविषयश्चेति ; तन्न ; शक्तिवैकल्यात् । यदि वस्तुसन्नेव स्वप्नादिविषयः, कथं तस्य शक्तिवैकल्यम् ? वस्तुसंति तदयोगात् । न चायं शक्तिमानेव तत्कार्यादर्शनात् । न हि स्वप्नोपलब्धादहनादेर्दाहादिकार्यम् । तदपि कदाचिदुपलभ्यत एवेति चेत् ; न ; तस्या५ प्यसत एव भ्रान्तिसामध्येनोपलम्भात् , कथमन्यथा तदादग्धतया दृष्टस्यैव पश्चादन्यथोपलम्भ
नम् ? न चेदमन्यदेव, दृढप्रत्यभिज्ञानविषयत्वात् । असत्यपि कार्ये शक्तिमानेवायम् , अलौकिक. त्वात् । लौकिकस्यैवायं धर्मो यच्छक्तिमत्त्वेऽवश्यम्भाविकार्यदर्शनमिति चेत्; तन्न ; असति कार्ये शक्तिमत्त्वस्यैव दुरुपपादत्वात् , तदुपपादनस्य कार्योपाध्यायत्वात् । तज्ज्ञानमेव तस्य कार्यम् ,
अकारणस्याविषयत्वात् ततस्तत एव तदुपपादनमिति. चेत् ; न; स्वर्गचैत्यवन्दनाधिष्ठानस्य साध्य. १० साधनभावस्यापि तत एव तदुपपादनापत्तेः । भवतु को दोष इति चेत्? चैत्यवन्दनादेरपि धर्मत्वमेवेति
ब्रूमः । तथा च न युक्तमेतत्-"धर्मे चोदनैव प्रमाणम्" [ ] इति प्रत्यागमस्यापि तत्र प्रामाण्यात् । अथ तज्ज्ञानं "तदागमादेव केवलान्न "तद्विषयात् कथमिदानीं तस्य शक्तिमत्त्वम् ? "कार्यलेशमप्यनुपजनयतस्तदनुपपत्तेः । तदपि मा भूदिति चेत् ; सिद्धं तर्हि तस्यावस्तुसत एव
प्रतिभासनम् , सकलशक्तिविरहस्यैव तद्रूपत्वात , तथा स्वप्नादिविषयस्यापि स्यादविशेषात् । १५. यदि चायं विप्लवविषयो भावोभाविक एव कथं तस्येच्छानुवर्तनम् अन्यत्र "तादृशे
तददर्शनात् । अस्ति चेच्छानुवर्तनं विप्लवविषयस्य कामिन्यादेरिच्छया पुरतः पार्वतश्वोपल. म्भात्। अनियतदेशगतत्वात तथा "तस्योपलम्भो नेच्छात इति चेत् ; न;"अन्यस्यापि तदुपलम्भप्रसङ्गात् । सामग्रीवैकल्यान्नैवमिति चेत् ; सति चक्षुरादौ कथं "तद्वैकल्यम् ? विप्लवापेक्षमेव
"तदपि सामग्री न केवलमिति चेत् ; न ; वस्तुसति विषये विप्लवस्यानुपयोगात्", अन्यथा २० अन्यत्रापि तदपेक्षणप्रसङ्गात् । वस्तुसत्यपि अलौकिक एव तदपेक्षणं नान्यत्रेति चेत; कथमेवं
तस्य विप्लवत्वं वस्तुसद्विषयोपलब्धिनिबन्धनस्य तत्त्वायोगात् अतिप्रसङ्गात् । अनिष्टत्वात् "तद्विषयस्येति चेत् ; न; विषादिविषयस्य चक्षुरादेरपि “तत्त्वापत्तेः । न चानिष्ट एव "तस्य विषयः कामिन्यादेरिष्टस्यापि तद्विषयत्वात् । अर्थक्रियाविरहादनिष्ट एवायमपीति चेत् ; न; तदर्शनस्यैवार्थिनस्तदर्थक्रियात्वात, "गेयस्य श्रवणवत् । न हि गेयस्य श्रवणादन्यदेव फलम् ,
१ ततो आ०,१०,५०२ तैमिरिककेशादिः । ३ -दा तद्गतयाह-आ०,०,५० । स्वप्ने । ४ कार्यम् उपाध्यायः ज्ञापको यस्य । ५ शक्तिमत्त्वस्य । ६ शक्तिमत्वज्ञानादेव । ७-नस्य साधन-आ०, ब०,५० चैत्यवन्दनज्ञानादेव चैत्यवन्दननिष्ठस्वर्गप्रापणशक्तिमत्वस्य उपपादनापत्तेः । ९ "तस्मात् चोदनैव प्रमाणं धर्मस्य इति स्थितः प्रतिज्ञार्थः ।"-बृह. १००।१० चैत्यवन्दननिष्ठस्वर्गप्रापणशक्तिज्ञानम् । ११ बौद्धागमादेव । १२ चैत्यवन्दनाख्यविषयात । १३ चैत्यवन्दनस्य । १४ कार्य लेश-भा०,०प० । १५ चैत्यवन्दनस्य । १६ भावि कथ भा०, २०, ५०। परमार्थसन्नेव । १. परमार्थसद्वस्तुनि । १० विप्लवविषयस्य । १९ "प्रतिपत्तु :" ता.टि.। २.-कल्यात्मैवमिति मा०, ब०, ५०। २१ सामग्रीवैकल्यम् । २२ चक्षुराद्यपि । २३ विषयविद्ध-आ.ब., प०।२४ -गादन्यत्रापि-आ०, ब०, प० । २५ विप्लवापेक्षणम् । २६ विप्लवत्वायोगात् । २. विप्लवविषयस्य । २८ विप्लवत्वापत्तः । २९ विप्लवस्य । ३० कामिन्यादिरपि । ३१ गेयश्रवण-मा०, ब०, गेयश्च श्रवण प.।