________________
२४६]
प्रथमः प्रत्यक्षप्रस्ताव इत्यपि द्रष्टव्यम् । इदमभिहितं भवति-अतत्कालादित एव प्रत्यभिज्ञादेर्यत एकत्वसादृश्यपरिज्ञानं भावेषु प्रतीयते तत 'एतेन' इत्याद्युपपन्नमिति ।
कथमेवं प्रत्यभिज्ञादेः प्रामाण्य प्रत्यक्षप्रतिपन्नविषयत्वेनापूर्वार्थत्वाभावात् , अ. पूर्वार्थच भवतां प्रमाणम् "प्रमाणमनधिगतार्थाधिगमज्ञानम्" [ ] इति वचनादिति चेत्? अत्राह-अन्यव्यवच्छेदे इति। अन्यत् एकत्वादैकान्तिकं नानात्वं सादृश्याच्च ५ वैलक्षण्यमध्यारोपितं तस्य व्यवच्छेदो निरासस्तस्मिन् , तन्निमित्तं यः प्रत्यग्रानवबोधस्तत इति । एतदुक्तं भवति-प्रत्यक्षप्रतिपन्नस्यापि समारोपव्यवच्छेदविशिष्टतया प्रत्यभिज्ञानादिना प्रतिपत्तेः कथञ्चिदपूर्वार्थमेव तत् ततश्च प्रमाणमनुमानवदिति । तथा च सूक्तं चूर्गो देवस्य वचनम्
"समारोपव्यवच्छेदात् प्रमाणमनुमानवत् । स्मृत्यादितर्कपर्यन्तं लिङ्गिज्ञाननिबन्धनम् ॥" [ ] इति ।
कथमेवं प्रत्यक्षविषये सर्वत्रापि न प्रत्यभिज्ञादिकं यतः प्रघट्टकादेरप्रत्यभिज्ञानात्कस्यचिदनुवादभङ्गो भवेदिति चेत् ? न; स्मर्यमाण एव तत्र तदुपपत्तेः । न च स्मरणस्यापि तत्र सर्वत्रापि भावः; संस्कारगोचर एव तस्य भावात् तथैव प्रतिपत्तेः। एतदेवाह-'प्रायशः' इति । प्रायशो बाहुल्येन यः प्रत्यभिज्ञादेः प्रत्यग्रानववोधस्तत इति। यावत् नित्येतरात्मकं १५ वस्तु सादृश्येतरात्मकं चाभ्युपेयते तावत्तद्विपरीतमेव कुतो नाभ्युपेयत इति चेत् ? अत्राह
अविज्ञाततथाभावस्याभ्युपायविरोधतः ॥४॥ इति ।
अविज्ञातः अपरिज्ञातः तथा तेन परोक्तेनैकान्तक्षणक्षयादिप्रकारेण भावः सत्ता यस्य चेतनस्येतरस्य वा तस्य योऽभ्युपाय अङ्गीकारः तस्य विरोधतो बाधनादतिप्रसङ्गेनेति भावः । तथा. हि
एकान्तक्षणभङ्गादि यद्यज्ञातमुपेयते । तद्वदेकान्तनित्यत्वाद्युपेयं किन्न वे मतम् ॥७५०॥ सर्वप्रवादिनामेवमभिप्रेतव्यवस्थितेः। पराजयः क सम्भाव्यस्तदभावे जयोऽपि वा ॥७५१॥ तस्याभ्युपगमस्तस्माज्ज्ञातस्यैवोपपत्तिमान् ।
न च तस्य परिज्ञानमिति पूर्व निवेदितम् ॥७५२॥
त इमे 'यथैवात्मायम्' इत्यादयोऽन्तरश्लोकाः 'प्रकाशनियमः' इत्यादेस्तैाख्यानात् ।
स्यान्मतम्-'यदुक्तम् असन्नेव केशादिः तैमिरिकस्य प्रतिभासते भ्रान्तेराधिपत्येन इति;
-यं प्रमाणप्रत्यक्ष-पा०, ब., प.। २ "प्रमाणमविसंवादिज्ञानमनधिगतार्थाधिगमलक्षणत्वात्"महश, अष्टसह. पृ०१०५।३ प्रस्फुटकादे-पा०,०प०अनुवादभोपपत्तेः । ५ तदु-भा०,०प० ।