________________
३०० न्यायविनिश्चयविवरणे
[१४६ पश्चाद्भावी 'भाव एव 'किन्न तनिबन्धनं ततोऽपि 'परस्याभावस्यापरिज्ञानादिति चेत् ? उच्यते
सर्वथाऽर्थान्तरं भावादभावश्चेन्निषिध्यते । 'निषिध्यतां न किञ्चिन्न थूणं स्याद्वादवेदिनाम् ॥७३९॥ कथञ्चिद्यस्तु तद्भदो नासौ शक्यनिपीडनः । प्रतीतिदयिताश्लेषलब्धस्वास्थ्यसुखो ह्ययम् ॥७४०॥ पश्यन्तः कलशं यस्माज्जायमानं. स्वहेतुतः । नष्टो मृत्पिण्ड इत्येवं निश्चिन्वन्ति विपश्चितः ॥७४१॥ एकान्तभावरूपे तु कलशे नाशनिर्णयः । कथं तत्रोपजायेत तन्मिध्यात्वप्रसञ्जनात् ॥७४२॥ निश्चयो न च मिथ्यासौ निर्भासस्य समुद्भवात् । तस्माद्भावातिरिक्तोऽयमभावोऽरित कथश्चन ॥७४३॥ स एव नाशः प्राच्यस्य प्रतीत्या सुहृदोच्यते । कथञ्चित्तदभेदेन नाशोक्तिस्सू (स्तू) त्तरोदये"॥७४४॥ "तन्नोत्तरस्यासंवित्तौ तद्भावाभाववेदनम् । एकस्वभावमध्यक्षं न च तद्वेदनक्षमम् ।।७४५॥ यद्यनेकस्वभावं"तदक्रमेणोपगम्यते । एकानेकरवभावं तत्क्रमेणापि न किं मतम् ? ॥७४६॥ अनेकसमयं तच्चेन्न्यायादागतमुच्यते । तेन पूर्वापराभेदः सुबोधो भेदवन्न किम् ?॥७४७॥ तदन्तर्बहिरप्येवमेकत्वेऽध्यक्षतो गते । निरवग्रहमेवात्र प्रत्यभिज्ञाप्रवर्तनम् ।।७४८॥ सादृश्ये प्रत्याभिज्ञानमेतेन प्रतिवर्णितम् । प्रत्यक्षादेव तस्यापि" ग्रहणस्योपदर्शनात् ॥७४९॥ एतदेवाहप्रायशोऽन्यव्यवच्छेदे प्रत्यग्रानवयोधतः । इति ।
प्रत्यग्रं च तद्वर्तमानत्वात् प्रतिनवम् अनवं च तदतीतत्वाच्चिरतनं तस्य बोधः "परिज्ञानं प्रत्यभिज्ञानादेः स प्रत्य ग्रानवयोधः तस्मात्तत इति । उपलक्षणमेतत्-'सदृशबोधतः'
उत्तरक्षण एव । ३ किं तन्निव-आ०, ब०, प० । ३ उत्तरक्षणात् । ४ भिन्नस्य । ५ निषेध्यते भा०, ब०, ५०। ६ निषेध्यताम् भा०, ब०, ५०।७-तिरेकोऽयम-आ०, ब०, प०1८नः मा०, ब०, प. ९ प्रतीच्या आ०,०,५०।१०-सूत्तरोध-आ०, ब०, प०।१" -क्तिस्सू"त्रु."ता० । १२ तत्रोत्तर-प०। १३ अध्यक्षम् । १४-पि प्रत्यग्रस्योप-आ० , ब०, प० । १५ परिज्ञानं प्रत्यभिज्ञानं प्रत्यभि-आ०,०।