________________
२२४५]
प्रथमः प्रत्यक्षप्रस्तावः प्रतिपत्तेरिति चेत् ; एकसमवायात् , अनेकसमवायाद्वा ? न तावेदकसमवायात् ; तत एकस्वभावादेकस्यैव पर्यायस्य परिज्ञानप्रसङ्गात् । पर्यायान्तरस्यापि तत एव परिज्ञानमिति चेत् ; न; परत्वाभावापत्तेः। न हि तत्पर्यायाभिमुख्यैकस्वभावसंवेदनवेद्यस्य तदर्थान्तरत्वं तत्स्वरूपवदुपपन्नम् ; एकस्वभावनित्यनिबन्धनत्वेऽपि कार्याणामपरापरत्वस्यानिवारणप्रसङ्गात् । भवतु ततस्तस्यैकस्यैव परिज्ञानं न परस्येति चेत् ; कथं तस्य ततो भेदपरिज्ञानम् ? अपरिज्ञाते ५ तस्मिन् तदनुपपत्तेः । तस्य तत्स्वभावत्वादपरिज्ञातेऽपि तस्मिन् भवत्येव परिज्ञानम् अन्यथा 'तत्स्वभावत्वस्यैवाभावप्रसङ्गादिति चेत् ; न; तत्स्वभावत्वस्यासिद्धत्वात् । भेदो हि पूर्वस्योत्तरस्मात् , तंत्राभाव एव, सं च तदधिकरणतया पश्चादेव भवन् कथं पूर्वस्य स्वभावः स्यात् ? पूर्वस्यैव तद्रूपतयाऽवस्थितिमत्त्वेनाक्षणिकत्वापत्तेः । "पूर्वमेवायमभावो" न पश्चादिति चेत् ; भावस्तर्हि "पश्चादिति कार्यासमकालत्वं कारणस्य पूर्वमेव "गतं सन्तानव्यवस्था कथन्न १० विधुरीकुर्यात् ? कथञ्चेदमपि सुभाषितम्
"न तस्य किञ्चिद्भवति न भवत्येव केवलम्' [प्र. वा० ३।२७७ ] इति ? सति "पश्चाद्भावे "न भवत्येव” इति वचनानुपपत्तेः । भावोऽपि तस्य" बलादापतितः प्रागेव "तत इति चेत् ; पश्चात्तर्हि किं' स्यात् ? न किञ्चिदिति चेत् ; नन्वेवमभाव एवोक्तः स्यात् , तदपरस्य न "किञ्चिदर्थस्याभावात् । "भवत्वेवमिति चेत् ; न; 'स च तदधिकरणतया' इत्यादे- १५ र्दोषस्याभिहितत्वात् । पुनरपि प्राग्भावपरिकल्पने प्रसङ्गः 'भावस्तर्हि' इत्यादिः" अनवस्थादोषमन्वाकर्षन्नापद्येत । 'न "तस्य पश्चाद्भावो नाप्यभावः इत्यपि न युक्तम् ; उभयाभावस्य न किञ्चि. दर्थत्वापत्तेः तस्य च पश्चाद्भावपूर्वभावयोः प्राच्यदोषानतिक्रमात् । तत्रापि 'न तस्य' इत्यादिव. चने परस्यानवस्थादोषस्योपनिपातात् ततः "पश्चाद्भाव्येवाभाव" इति नासौ पूर्वस्य स्वभावः । यद्येवम् , अस्वभावात्ततोऽपि तस्य भेदो वक्तव्यः तदस्वभावत्वस्यान्यथानुपपत्तेः । “तस्य २० च यदि "तत्स्वभावत्वं पूर्वस्यापि स्यादविशेषात् । तस्यापि पश्चाद्भाव्यभावत्वेन नास्त्येव
तत्स्वभावत्वमिति चेत् ; न; तत्रापि 'यद्येवम्' इत्यादेरनुबन्धादनवस्थानमुद्वहतश्चक्रकस्यानुष. ङ्गादिति चेत् ; न;"तस्मात्तद्भेदस्याभावान्तरनिबन्धनत्वानभ्युपगमात् , तत एवाभावात्तदुपपत्तेः । स एव ह्यभावः प्राच्यस्य "स्वतो "भेदनिबन्धनम् , न तदन्तरं तदप्रतिपत्तेः तत्कथमयं प्रसङ्गः ?
-पत्तिरि-आ०, ब०, प.। २-वादेवैक-आ०, ब०, ५०। ३ तस्वभेद-आ०, ब०, ५०। ४ परभेदखभावत्वात् । ५ तत्स्वभावाभावप्र-आ०, ब०, प०। ६ उत्तरे। . अभावः। ८ उत्तराधिकरणतया। ९ उत्तररूपतया । १. पूर्व एव आ०, ब०, प०। ११ उत्तराधिकरणकः पूर्वाभावः । १२ यदि उत्तरकाले पूर्वाभावः नास्ति किन्तु पूर्वमेव तर्हि पूर्वस्य सद्भाव एव प्राप्तः। १३ नष्टम् । तथा च कार्यकारणयोरेककालत्वे कथं सन्तानव्यवस्था स्यादिति भावः । १४ पूर्वक्षणस्य । १५ पूर्वक्षणस्य । १६ उत्तरक्षणतः। १७ किन्न स्यात भा०,०, ५०। १८ कश्चिदर्थ-आ०, ब०, ५०। १९ भवत्येव-आ०, ब०, प०। २० पूर्वभावस्य पूर्वक्षणवृत्तित्वकल्पने । २१ इत्यादेरन-आ०,१०,५०। २२ पूर्वस्य । २३ तस्य प-आ०, ब०,१०।२४ पश्चादभाव एवा-भा०, ब०, प०। २५ पूर्वाभावः। २६ पूर्वाभावादपि । २७ पूर्वस्य । २८ पूर्वाभावाद पूर्वभेदस्य । २९ पूर्वक्षणस्वभावत्वम् । ३. पूर्वमुक्तस्य पूर्वाभावस्यापि । ३. पूर्वभेदस्यापि । ३२ पूर्वक्षणस्वभावत्वम् । ३३ पूर्वाभावात् पूर्वभेदस्य । ३४ भेदोपपत्तः । ३५ स्वस्मात् । ३६ भेदे निव-ता।