________________
२९८ न्यायविनिश्चयविवरणे
(१४५ ___साम्प्रतं 'विपरीतं वा प्रतियन्' इत्येतत् स्मरणपर्यायेणे प्रत्यभिज्ञानादिना पर्यायेणापि 'दमयन्नाह
एतेन प्रत्यभिज्ञानाद्यतीतानुमितिर्गता ॥४५॥ इति ।
प्रत्यभिज्ञानं तदेवेदं तादृशमिदमिति वा ज्ञानम् , तदादिर्येषां तर्कानुमानश्रुतानां तानि ५ प्रत्यभिज्ञानादीनि तैः अतीतस्य उपलक्षणमिदं वर्तमानस्यानागतस्य च अनु पश्चात्
पूर्वपूर्वस्मादूर्ध्वमुत्तरोत्तरैः मितिः परिज्ञानं गता निश्चिता। केनेति चेत् ? एतेन 'यदा यत्र' इत्यादिना ।
तथा हि स्मरणं यद्वदतत्कालाद्यपि स्वयम् । नियतप्राहि तद्वत्स्यात् प्रत्यभिज्ञाद्यपि स्फुटम् ॥७३७॥ सामर्थ्यात्तादृशात्तस्य तक्रियातो विनिश्चयात् ।
जडचेष्टितमेवातस्तत्कालादित्वकल्पनम् ॥७३८॥
अतिपन्नविषयमेव प्रत्यभिज्ञानम् 'अनु' इति वचनात् । न च पूर्वापरयोरेकत्वं सादृश्य वा कुतश्चित्प्रतिपन्नं तत्कथं तस्य प्रत्यभिज्ञानेन प्रमितिरिति चेत् ? न; प्रत्यक्षतोऽपि तत्प्रतिपत्तः। सन्निहितस्यैव पर्यायस्य तेनं प्रतिपत्तिर्न पूर्वस्य तत्कथं तदेकत्वस्य तत्सादृश्यस्य वा तेन परिज्ञानमिति चेत् ? किमपेक्ष्य तस्य सन्निधानम् ? प्रत्यक्षमेवेति चेत् ; न; विषयस्य तज्ज्ञानापेक्षया समकालत्वानभ्युपगमात् "नातोऽर्थः स्वधिया सह" [प्र० वा० २।२४६ ] इति वचनात् । तदर्थजातस्याकारस्य तत्समकालत्वमेव तस्यापि तत्समकालत्वम् , तत्परिज्ञानस्यैव विषयपरिज्ञानतयाऽभ्यनुज्ञानादिति चेत् ; अनुपकारे तदाकारस्यापि परिज्ञानं कथम् ? "नाकारणं विषयः" [ ] "इत्यस्य विरोधात् । व्यतिरिक्त एवायं विषये न्यायः, न चाकारस्य ज्ञानाव्यतिरेक इति चेत् ; कस्तर्हि तत्र न्यायो यतस्तत्परिज्ञानम् ? स्वहतोस्तत्स्वभावतयोत्पत्तिरेवेति चेत् ; व्यतिरिक्तेऽप्ययमेव कस्मान्न भवति यतस्तत्र निष्प्रयोजनमेव हेतुभावपरिकल्पनं न भवेत् ? अहेतोरपि परिज्ञाने किन्न सर्वस्य परिज्ञानम् अहे. तुत्वाविशेषादिति चेत् ? न; आकारस्याप्यहेतोरेव वेदनात् , तत्राप्येवमतिप्रसङ्गस्योपनिपातात् ।
स्वहेतुनिबद्धेन" शक्तिनियमेनाहेतुत्वेऽपि तस्यैव ततः परिज्ञानं न सर्वस्येति चेत् ; न; व्यति२६. रिक्तपरिज्ञानेऽप्येवमेव समाधानोपपत्तेः, व्यतिरिक्तस्यापि तादृशादेव तन्नियमात् नियतस्यैव
परिज्ञानं न सर्वस्येति । शक्तितश्च विषयपरिज्ञाने कथं सन्निहितस्यैव प्रत्यक्षेण दर्शनं नातीतादेरपि तत्रापि तस्य शक्तिसम्भवात् ।
भवतु पूर्वापरयोस्तस्य' प्रवृत्तिस्तथापि न ततस्तत्रैकत्वं प्रतीयते, भेदस्यैवैकान्ततः
१-णैव भा०,०,५०।२"निवेदयन्नाह इति पाठेन भाव्यम्"-ता०टि०। प्रत्याचक्षाण आह इत्यर्थः । ३ "इलोकार्धेनोफार्थ श्लोकद्वयेन विवृणोति"-ता०टि.४ -तोपि नि-आ०,ब०प०।५ पूर्वपरयोमा..ब०,५०६ प्रत्यक्षेण । ७ ज्ञानसमकालत्वमेव । ८ अर्थस्यापि । ९ भाकारपरिज्ञानस्यैव । १. "नाऽहेतु. विषयः"-प्र०वार्तिकाल.३४०४।१-तुनियमेन श-भा०,बा-तु नियमेनाहेतु-प० । १२ प्रत्यभिज्ञानस्य ।