________________
प्रथमः प्रत्यक्षप्रस्तावा
२९७
न; सत्यपि विषये 'तत्प्रयुक्तस्यैव तस्य प्रसङ्गात् । भवत्विति चेत्; यत्र तर्हि तत्परिपाको नास्ति तत्र सत्यपि विषयग्रहणे न वैशद्यम् । नायं दोषः, सत्येव तत्परिपाके विषयग्रहणस्यापि भावादिति चेत् ; न; भावितस्यापि विषयस्य ग्रहणप्रतीतेः । अन्यथा अनभ्यासैदशायां जलादेरदर्शने लिङ्गाभावात् कथमर्थक्रियानुमानं यतः स्नानपानाद्यर्थिनः प्रवृत्तिर्भवेदिति न विषयस्वरूपवेदनादेव वैशद्यम् , सत्यपि तस्मिन्नन्तरङ्गमलविशेषमलीमसत्वेनावैशद्यस्यापि सम्भवात् । ५ ततो न सूक्तमिदम् -'स्वरूपेण प्रतीतं चेत् ' इत्यादि ।
___नन्वेवम् अन्तरङ्गमलविगमाविगमप्रयुक्तत्वे वैशद्येतरयोर्ज्ञानधर्मत्वमेवेति कथमन्य. स्ताभ्यां व्यपदिश्यते 'स्पष्टो नीलादिः अस्पष्टो वा' इति? इति चेत् ; न; तथाविधज्ञानविषयतयैव तथा व्यपदेशोपपत्तेर्न तादात्म्यरूपात्तत्संसर्गात् । तत इदमपि न सुभाषितम्-'तत्संसर्गात्तथात्वं चेत्' इत्यादि, तद्व्यपदेशस्य तत्संसर्गाभावेऽप्युपपत्तेः।
___ पुनरपि कथं प्रतियन्नित्यत्राह-न्यूनाधिकतयापि वा। न्यूनतयाँ पूर्व गृही. तस्याल्पस्यैव स्मरणात् अधिकतया तस्यैव कालाधिकस्यानुस्मरणात् । अथवा पर्वताद् गण्डशै. लस्य न्यूनतया ततः पर्वतस्याधिकतया प्रतिवेदनात् ।
स्यान्मतम्-विषयाकारवैकल्यमेवात्र व्यवस्थापयितुमभिप्रेतम्, तच्च 'प्रदेशादि' इत्यादिनैव प्रतिपादितम्, तत्किमनेन 'प्रस्फुटम्' इत्यादिना 'न्यून' इत्यादिना च प्रयो- १५ जनाभावादिति ? तन्न; आत्मव्यवस्थापनस्य तत्प्रयोजनत्वात् । किं पुनरात्मा "प्रतिरुध्यत इति ? अत्र परो ब्रूयात्-'प्रमाणाभावात्' इति ; तत्रेदमुत्तरम्-'प्रस्फुटम्' इत्यादि । व्यवस्थापित एव पूर्वमात्मेति चेत् ; न; प्रकारान्तरेणेदानी तब्यवस्थापनात् । तथा हि यद्यात्मा नाम न भवेत् कुतस्तदा प्रस्फुटेतररूपतया विज्ञानेषु न्यूनाधिकस्वभावतया च विषयेषु राशिद्वयप्रतिपत्तिः ? "एकराशिविषयस्य ज्ञानस्य राश्यन्तरं प्रत्यनुपक्रमे तत्प्रतिपत्तेरनुपपत्तेः, प्रतियोगिपरिज्ञान. २० मन्तरेणैकराशिपरिज्ञानमात्रादेव "तत्प्रतिपत्तेरनुपलम्भात् । तत्र तदुपक्रमे च न सम्भवत्येवात्म. प्रतिषेधः परापरविषयमहणोपक्रमाधिष्ठानस्य ज्ञानस्यैव आत्मत्वेन आत्मतत्त्ववेदिभिरभ्यनुज्ञानात् । न च राशिद्वयपरिज्ञानमसिद्धम् ; प्रसिद्धत्वात् । प्रसिद्धिरप्येकराशिपरिज्ञानस्यैवेति चेत् ; कुत एतत् ? तथानुभवादिति चेत् ; न; राश्यन्तरज्ञानेऽपि तदविशेषात् । तथापि तस्य प्रसिद्धयपलापे तदपरस्यापि भवेदित्यभाव एव बहिरन्तश्च भावानामापद्येत । न चासौ शक्यव्य- २५ वस्थापनः प्रमाणवैकल्यात् । ततोऽनुभवबलादेकराशिपरिज्ञानमभ्यनुजानतो राश्यन्तरपरिज्ञानमभ्युपगमविषय एव । एतदर्थमेवेदमुक्तम्-'प्रतियन्' इति । तस्मादुपपन्नं राशिदयपरिज्ञानादास्मव्यवस्थापनं तत्प्रतिपादनार्थ 'प्रस्फुटम्' इत्यादिकं 'न्यून' इत्यादिकब्ध वचनम् ।
भावनापरिपाकश्युक्तस्यैव । २ वैशद्यस्य । ३ चदन्यत्र प्रा०, ब०, प.। ४-4 परि-आ०, ब०, प.। ५-सभूतदशा-आ०,०,५०। ५ इति तन्न मा०, २०, ५०। -स्य संस-आ०, २०, प०।८-या गृ-आ०, ब०, ५०। ९ -तादय अस्य न्यून-आ०, ब०, ५०।1. प्रतिषियते मा०,०, प०।११ एकवि-आ०, ब०, प०।१२ तत्प्रतिपत्तेरुप-आ०, ब०,०।३-नुज्ञानतो भा०,०,१०।