________________
२९६
न्यायविनिश्चयविवरणे
स्वरूपेण प्रतीतेऽपि तदसाक्षात्कृतं यदि । नीलरूपस्य संवित्तेर्भेदस्तर्हि कथं भवेत् १ || प्रतीतिभेदाद्भेदो हि नीलादेरेकरूपता । भिन्नेऽन्यस्मिन्कथं भेदस्तदन्यस्य प्रमान्वितः ॥ तत्संसर्गात्तथात्वं चेदपरोऽर्थः कुतो भवेत् ?
[ २२४५
"
तदेकतां प्रपन्नस्य ततो भेदः कुतो मतः १ ।" [ प्र०वार्त्तिकाल० २१३२९] ततो न ज्ञानसंसर्गान्नीलादेः स्पष्टात्मत्वम्, तस्यैव' बहिर्भूतस्याभावप्रसङ्गात् अपि तु स्वत एव तस्य च प्रत्यक्षवत्स्मरणादावपि प्रतिभासने तदपि स्पष्टमेवेति न युक्तमुक्तम्- “विपरीतं वा प्रतियन्' इति चेत्; 'तदिदमपि प्रज्ञापरिपाकवैकल्यमेव प्रज्ञाकरस्य ज्ञापयति-स्वरूपप्रतीत्या १० वैशद्यानुपपत्तेः, उपप्लुतज्ञाने तदभावप्रसङ्गात् । अस्ति च कामिन्यादिविषयैस्योपप्लुतज्ञानस्यापि वैशद्यम् । न च तत्र स्वरूपपरिज्ञानं कामिन्यादीनामभावात् । ज्ञानाकारतया विद्यन्त एव त इति चेत्; न; "अभूतानपि पश्यन्ति" ' इत्यस्य विरोधात् विद्यमानानामेवाऽभूतत्वायोगात् । " पुरतोऽवस्थितानिव" इत्यपि न युक्तम् ; ज्ञानापेक्षया तदाकाराणामेव पुरतो भावानुपपत्तेः, एक निष्पैर्यायं भिन्न देशत्वासम्भवात् । कल्पितस्तद्भार्थं इति चेत्; न, “पश्यन्ति” इत्यस्या१५ योगात् कल्पनस्य दर्शनरूपत्वासम्भवात् । दर्शन साहचर्यात्तदपि दर्शनमेवेति चेत्; न; तत्रापि दर्शनवद् अन्तः प्रविष्टतयैव तत्प्रतिभासप्रसङ्गात् । पुनरपि कल्पितस्य पुरतोभावस्यावस्थापने व्यवस्थावैकल्यापत्तेः । अतो दूरं गत्वापि वस्तुत एव तेषां कचित्पुरतो भावो वक्तव्य इति कथं ज्ञानाकारत्वम् ? तद्भिदेशानां तदाकारत्वानुपपत्तेः अतिप्रसङ्गादित्यसतामेव तेषां दर्शन मिति कथं तत्र वैशद्यम् ? असतां स्वरूपेण ग्रहणायोगात् । नीलादिना स्वरूपेणैव तेषामपि ग्रहणमिति २० चेत्; कथमिदानीं 'नीरूपत्वमिति सति स्वरूपे तदनुपपत्तेः ? बाध्यमानत्वादिति चेत्; न; तन्नीरूपत्वे तत्प्रयुक्तस्य वैशद्यस्यापि तत्त्वप्रसङ्गात् । 'नीरूपमेव तदपीति चेत्; न; दर्शनस्यापि तदनर्थान्तरत्वेन नीरूपत्वापत्तेः । तस्मादर्थान्तरमेव दर्शनमिति चेत्; कुतस्तर्हि तस्य वेदनम् ? स्वत एवेति चेत्; न; व्याघातात् । व्याहतं खल्विदं यत्- 'नीरूपम्, स्वतश्च वेद्यते' इति व्योमकुसुमादिवत् । तत एव दर्शनादिति चेत्; न; तस्याविशदत्वे दर्शनत्वायोगात् । विशदमेद २५ तदिति चेत्; न; विषयविषयितया वैशद्यस्य तत्रानवभासनात् । सदपि तद्वैशद्यं नीरूपमेव, तत्प्रयोजकस्य विषयवैशद्यस्य नीरूपत्वात् । भवतु नीरूपमेव तदपीति चेत्; न; तत्रापि 'दर्श - नस्यापि' इत्यादेरनुगमादनवस्थान दोषोपनिपातात् । ततो न विषयस्वरूपग्रहणप्रयुक्तं वैशद्यम्, निर्विषयकामिन्यादिदर्शने तदभावानुषङ्गात् । भावना परिपाकप्रयुक्तं तत्र वैशद्यमिति चेत्;
1
1
१ - बाबहिर्भू-आ० ब० प० । २ तदेवमपि आ०, ब०, प० । ३ -यस्योपरतज्ञा - आ०, ब०, प० । ४ "कामशोकभयोन्मादचौरस्वप्नाबुपप्लुताः । अभूतानपि पश्यन्ति पुरतोऽवस्थितामिव । " - प्र० वार्तिकाल - २।३८२ । ५ युगपत् । ३ पुरतो भावः । ७ -लादीनां स्व-भा०, ब०, प० । ८ नीलरूप-आ०, ब०, प० । ९ नीलरूप-आ०, ब०, प० । १० कामिन्यादौ ।