________________
१२२४५ ]
प्रथमः प्रत्यक्ष प्रस्ताव'
२९५
तस्यैव तस्य तेनोपदर्शने पुनः अत्यन्तं पररूपवत् ' स्वरूपेणापि असदात्मानम् अविद्यमानस्वभावं विषयविषयिणोर्देशादिभेदं प्रवृत्तिप्राप्त्यादिरूपं व्यवहारञ्च पश्यन् अवलोकयन् । कथम् ? सन्तं विद्यमानमिव, असति सच्छब्दप्रयोगात् इवार्थप्रतिपत्तिः 'अग्निर्माणवक:' इतिवत् । सः अनन्तरोक्त आत्मा तस्यैव तथादर्शित्वोपपत्तेः । किम् ? कस्मात् । पुनरिति शिर:कम्पे प्रतिरुध्यते निषिध्यते नैव निषिध्यत इति यावत् । किं कुर्वन् ? प्रतियन् प्रतिपद्य- ५ मानः । किम् ? सन्तं विद्यमानमपि सन्तमित्यस्यावृत्त्या सम्बन्धाद्वक्ष्यमाणस्य अपिशब्दस्य च भिन्नप्रक्रमेण योजनात् । कस्मिन् सति प्रतियन् ? प्रदेशादिव्यवायेऽपि । प्रदेशव्यपाये चन्द्रादिकम् कालव्यपाये अतीतादिकम्, द्रव्यव्यपाये काचादिव्यवहितमिति । एतदुक्तं भवति - यथाऽयम् अतत्कालादिरेव आरोपिताकारं पश्यन्न प्रतिरुध्यते तथा अनारोपितमपि । इत्यारोपितवदनीरोपितस्यापि आत्मशक्तित एव परिज्ञानोपपत्तेः । कथं सः प्रतियन् ? प्रस्फुटं प्रकर्षेण स्पष्टम् १० अनेन प्रत्यक्ष पर्यायरूपतया सन्तं प्रत्येतीति प्रतिपादयति । यथा चेदमुपपन्नं तथा प्रतिपादितं प्रागिति न पुनरुच्यते । पुनरपि कथं प्रतियन् विपरीतं वा 'स्पाष्यविकलं वा तदनापि स्मरणादिपरोक्षपर्यायरूपेण सन्तं प्रत्येतीति निवेदयति ।
? ननु यदि प्रत्यक्षवत्स्मरणादावपि वस्तुनः स्वरूपेण प्रतिभासंनम् कथमस्पष्टत्वम् तत्स्वरूपप्रतिभासे स्पष्टत्वस्यैवोपपत्तेः । न हि तत्स्वरूपप्रतिभासादपरमध्यक्षेऽपि स्पष्टत्वम् । १५ ततो यदि स्वरूपतस्तेन " वस्तु प्रतिपन्नं स्पष्टरूपमेव तत् । यदि स्वरूपतो न प्रतिपन्नम् ; अप्रतिपन्नमेव सर्वथा तद्भवेत् । स्वरूपप्रतिपत्तावपि तदस्पष्टमेवेति चेत्; तर्हि नीलादेस्तद्वेदनात् कथं भेदः ? कथञ्च न स्यात् ? अविवेचनात् । यदि हि नीलादिस्ततो वेदनान्तरेऽपि प्रतिभासेत भवेद्विवेचनं ततश्च भेदः । न चैवम्, प्रत्यक्षप्रतिभासिनः स्पष्टात्मनस्तस्य " स्मरणादावन्य" त्राप्रतिभासनात्, तत्रास्पष्टात्मनस्तदपरस्यैव प्रतिभासोपलब्धेः । नीलादिरुभयत्रैकरूप एव न २० तस्य स्पष्टत्वमस्पष्टत्वं वा, तयोर्विज्ञानधर्मत्वादिति चेत्; कथं तर्हि 'स्पष्टो नीलादिरस्पष्टो वा ' इति तत्र व्यपदेशः अन्यधर्मेणान्यत्र " तदनुपपत्तेः ? स्पष्टादिज्ञानसंसर्गादिति चेत् ; ननु संसर्गस्तदभेद एव ' स्पष्टो नीलादि:' इत्यभेदेनैव प्रत्यवभासनात् तथा च ज्ञानान्तर्गत एवासौ इति कथं तदपरतया व्यवस्थाप्येत ? तदेकतां प्राप्तस्यैव तस्माद्भेदानुपपत्तेः । तथा च
परस्य वचनम् -
"स्वरूपेण प्रतीतं चेत्साक्षात्करणमेव तत् । स्वरूपेणाप्रतीतं चेत्सर्वथास्याप्रतीतता ॥
१ सह-आ०, ब०, प० । २ - गादेवार्थ - आ०, ब०, प० । ३ निषेध्यते आ०, ब०, प० । ४- दिव्यवाये - आ०, ब०, प० । ५- वदनाकारोपि तस्यात्मशक्ति - आ०, ब०, प० । ६-ण स्फुटम् आ०, ब०, प० । ७ यथा ८ स्फाव्यविकलं तदनेनापि स्मरणेनापि परोक्षव्यवायरू-आ०, ब०, प० । ९- सनमप्र-आ०, ब०, प० । स्पष्ट आ०, ब०, प० । १० प्रतिभिन्न' स्प-भा०, ब०, प० । ११ नीलादेः । १२-त्र प्र - भा०, ब०, प० । १३ व्यपदेशानुपपत्तेः ।
२५