________________
२९४
न्यायविनिश्चयविवरणे भेदकल्पनं कार्यकारणरूपेण स्थितं तद्वस्तु तदा तत्र तथा नयेत् व्यक्तिम् । अतत्कालादिरप्यात्मा सम्यग्बोधस्वभावो न चेन्न व्यवतिष्ठते तद्वस्तु व्यवस्थाविकलं भवतीत्यर्थः ।
विकल्पनमपि मा भूत् निर्विकल्पस्याद्वैतस्यैव भावादिति चेत् ; तदपि कुतः अनवगतस्या५ व्यवस्थितेः ? "स्वरूपस्य स्वतो गतिः" [प्र० वा० १।६ ] इति चेत्' ; तत्कथमद्वैतम् , वेद्यवेदकावगमभेदस्यैवमभिधानात् ? तभेदेऽपि तदेकमेवेति चेत् ; न; क्रमेणावग्रहादिभेदेऽपि तदेकत्वप्रसङ्गात् । तथा च निर्याकुलं देशादिभेदेने वस्तुव्यक्तिनयनम् , तन्नयनविधातुरात्मनो निर्व्याकुलत्वात् । व्याकुल एवासी भेदे सत्येकत्वस्य व्याघातादिति चेत् ; अत्राह-न
चेदात्मा न व्यवतिष्ठते वेद्यादिभेदाक्रान्ताद्वैतवास्तवव्याघातस्याविशेषादिति भावः । १. कल्पित एव तत्र वेद्यादिभेदो वस्तुतो निर्भेदत्वादद्वैतस्येति चेत् ; न; कल्पमे यदा यत्र इत्यादेर्निव्याकुलत्वस्याभिहितत्वात् । पुनरपि विपक्षे दोषमाह
व्यवहारविलोपो वा [ मोहाच्चेदयथार्थता] ॥४३॥ इति । _ 'न चेत्' इति, एवं न चेत् 'यदा' इत्यादिप्रकारेण वस्तु व्यक्तिं नयत्यात्मा ; तदा व्यवहारः प्रवृत्त्यादिलक्षणस्तस्य विलोपो विलयः स्यात् । तथा हि-व्यवहारः कचिद्वि. १५ षये तदनुभवार्थिनो भवन् भिन्न एव भवति नात्मनि, तस्यानुभूयमानत्वेन तद्विषयत्वानुपपत्तेः।
भिन्नेऽपि नाऽप्रतिपन्ने सर्वत्र तत्प्रसङ्गात् । न चाकारवादिनो भिन्नप्रतिपत्तिरस्तीति निवेदितम् । अतो विलुप्यत एव व्यवहारः । वाशब्दः पूर्वदोषसमुच्चये ।
नास्त्येव देशादिभेदः प्रवृत्त्यादिरूपो व्यवहारो वा कचित्तदाश्रयस्य बहिर्भावस्यैवाभावात् । तत्प्रतिभासस्तु विपर्यासोपनीत एव “प्रतिभासः समस्तोऽपि वासनाबलनिर्मितः।" २० [प्र. वार्तिकाल० ३।३६५ ] इति वचनात् । तस्मादयमयथार्थ एव । तदेवाह-'मोहा
चेदयथार्थता' इति । देशादिभेदव्यवहारयोरयथार्थत्वमविद्यमानत्वम् । कुतः ? मोहात् तत्प्रत्ययस्य विपर्यासरूपत्वात् चेत् शब्दः पराकूतद्योतने । तत्रोत्तरमाह
अत्यन्तमसदात्मानं सन्तं पश्यन् स किं पुनः । प्रस्फुटं विपरीतं वा न्यूनाधिकतयापि वा ॥४४॥
प्रदेशादिव्यंपायेऽपि प्रतियन् प्रतिरुध्यते । इति ।
न तावदयमारोपितोऽपि देशादिभेदो व्यवहारो वा तद्विकल्पमनुप्रविशति तावन्मात्रस्यैव प्रसङ्गात् । न च तावन्मात्रं तद्भेदो व्यवहारो वा लोकस्यैवमनभिनिवेशादप्रतिपत्तेश्च । बहिर्ग
चेत्कथ-मा०, ब०, प.। २ तदभेदे-आ०, ब०, ५०। ३ -न च वस्तु-भा०, ब०, प.। -तवस्तुन्या-आ०,ब०,१०।५ एव न चेत् आ०,०, प.1६ मिन्नेन विना प्र-मा०,०,०।. "भावनाभावनिर्मितः"-प्र०वार्तिकाल.। 4-व्यवाये-मा०,०प०।९ बहिर्यतस्य तस्यैव ते-मा०,.,प.।