________________
१।४३ ] प्रथमः प्रत्यक्षप्रस्ताव
२९३ हितस्य, तद्देशवत्तत्कालेऽप्यभावात् । चेत् शब्दः पराकूतमवद्योतयति । तदिदं परिहरन्नाह
यदा यत्र यथा वस्तु तदा तत्र तथा नयेत् ॥४२॥
अतत्कालादिरप्यात्मा न चेन्न व्यवतिष्ठते । इति ।
यदा यस्मिन् काले यत्र यस्मिन् देशे यथा येन प्रकारेण वस्तु नीलधवलादि 'स्थितम्' इति शेषः । तद्वस्तु तदा तस्मिन् काले तत्र तस्मिन् देशे तथा तेन प्रकारेण ५ नयेत् प्रापयेत् व्यक्तिम् 'व्यक्तिः ' इत्यनुवर्तमानस्य विभक्तिपरिणामेन सम्बन्धात् । क इत्याह-आत्मा जीवः। अतत्कालादिः न विद्यन्ते तस्य वस्तुनः कालादयः कालदेशप्रकारा यस्यासावतत्कालादिः । अपिशब्दात् तत्कालादिरपि । यद्येवं तत्प्रकारत्वाद्विषया. कारत्वं तस्यापद्यत इति चेत् ; सत्यम् ; सत्त्वप्रमेयत्वादिना तदभ्यनुज्ञानान् , अन्यथा नीरू. पत्वापत्तेः । अतत्प्रकारत्वं तु नीलाद्याकाराभावादिति निरवद्यम् ।।
विपक्षे दोपमाह-न चेत् एवमात्मा व्यक्ति न नयति चेत् ; न व्यवतिष्ठते न वस्तुव्यवस्थां प्रतिलभते । तत्खलु व्यवस्था प्रतिलभमानं कालदेशाकारभेदेनैव प्रतिलभते । तथा तत्प्रतिलम्भश्च कथं भवेत् आत्मा चेदतत्कालादिरपि तत्कालादिकं वस्तु न व्यङ्ग्यात् ? तदाकारज्ञानादेवेति चेत् ; न; ततः स्वरूपमात्रपर्यवसायिनो भिन्नदेशादितया तस्य तत्प्रतिलम्भानुपपत्तेः । न हि तात्कालिकनिरंशज्ञानानुप्रविष्टस्यैव विषयाकारस्य भिन्नदेशादित्वम् । १५ तदाकारजनकस्य भिन्नदेशादित्वात्तस्यापि भिन्नदेशादित्वमिति चेत् ; कुतस्तदाकारजनकस्य भिन्नदेशादित्वमवगतम् ? अन्यतस्तदाकारज्ञानादिति चेत् ; न; तत्रापि 'ततः' इत्यादेरनवस्थानदुस्तरदौस्थ्यप्रतिबन्धनिबन्धनस्य प्रसङ्गस्योपनिपातात् । तदर्पितस्याकारस्य भिन्नदेशादित्वादिति चेत् ; तदपि कुतोऽवगतम् ? तज्जनकस्य भिन्नदेशादित्वादिति चेत् ; न; परस्पराश्रय. दोषस्य परिस्फुटत्वात् । स्वत एव संविदनन्यत्वादिति चेत् ; न; तस्यापेक्षिकत्वात् । आपेक्षिकं २० हि भिन्नदेशत्वादिकम् ; किञ्चिदपेक्ष्यैव तस्य भावात् । तच्चापेक्ष्यं नात्मैव, तत्र तद्व्याघातात् । नाप्यन्यत् ; तस्य स्वाकारमात्रपर्यवसितेनाऽपरिज्ञानात् । न चापरिज्ञाते तस्मिस्तदपेक्षं भिन्न देशत्वादिकं सुपरिज्ञानम् , परिज्ञात एव ग्रामादौ तदपेक्षया पर्वतादौ भिन्नदेशत्वादिपरिज्ञानस्योपलम्भात् । तन्न किञ्चिदेतत् ।
भवतु तर्हि तत्त्वं संविदद्वैतमेव, देशादिभेदस्तु कल्पनारोपित एवेति चेत् ; तदपि २५ कल्पनं कस्मात् ? अहेतुकत्वायोगात् । प्राच्यादेव तत्कल्पनादिति चेत् ; तत्र भिन्नदेशत्वादिकं तत्परिज्ञानञ्च यदि परमार्थत एव किमन्यत्रापि न भवेत् ? कल्पनारोपितमेवेति चेत् ; न; 'तदपि' इत्याद्यनुगमनाथद(नाद) नवस्थोपनिपातात् । तदाह-यदा यत्र यथा वस्तु देशादि
ज्ञानदेशवत् ज्ञानकालेऽपि। २ यदिदं प-आ०, ब०, ५०। ३ व्यतितिष्ट-ता०। ४ यदैवं भा०, .,प.। ५ तस्य वि-आ०, ब०,५०।६ -तेन परि-आ०, ब०, ५०।