________________
२९२
न्यायविनिश्चयविवरणे
१४२] दूरप्रतिभासनम् ? पुनरपि शरीरस्थापरज्ञानापेक्षया तत्परिकल्पनायाम् अव्यवस्थापत्तिः । विषयदेशज्ञानकल्पनायाञ्च योगिज्ञानस्य प्रेतिविषयदेशं भेदापत्तेर्न योगी नाम कश्चिदेको भवेत् । सत्यपि भेदे तदेकमेव मेचकज्ञानस्याभ्युपगमादिति चेत् ; न; व्यापकात्मवादस्य व्यवस्थाप्रसङ्गात् । नापि तात्त्विके तद्भेदे तदेकमुपपन्नम् ; भेदेतरात्मवादस्यानभ्युपगमात् , नीलबोध. ५ रूपतया तात्त्विक एव भेदे तदुपपत्तिप्रसङ्गाच । तथा च यत्तस्य कल्पितत्वप्रतिपादकमलङ्कारवचनम्
"नीलान व्यतिरेकेण विषयिज्ञानमीक्ष्यते ।
'ज्ञानपृष्ठेन भेदस्तु कल्पनाशिल्पिनिर्मितः॥"[प्र०वार्तिकाल० ३।३७७] इति। 'तदश्लीलभाषितं भवेत् । अतात्त्विके तु तद्दे कथं तस्य विषयग्रहणम् ? आकारबलाभावात् । १० स्वशक्तित एवेति चेत् ; उपपत्तिमदेतत् , अन्यथा कालदेशविप्रकृष्टतया भावोपदेशस्याभावप्रस
मात् , किन्तु नयनज्ञानादपि स्वविषये भिन्नदेशेऽपि व्यक्तिः स्वशक्तित एव भवेत् तथैव निरवद्यानुभवात् । तथा च कथं भिन्नदेशवत् भिन्नकालस्यापि स्मरणादेर्न व्यक्तिः ? तत्रे तत्रापि ज्ञानशक्तरनिवारणात् । भिन्न कालवस्तुज्ञानं निर्विषयमेव तत्काले तद्विषयस्याभावादिति
चेत् ; भिन्नदेशवस्तुज्ञानमपि कथं सविषयं तदेशे तद्विषयस्याप्यभावात् ? तस्य देशान्तरे १५ विद्यमानत्वादिति चेत् ; इतरस्यापि कालान्तरे विद्यमानत्वादिति समः समाधिः । सर्वस्यापि
कालान्तरवर्तिनः किन्न व्यक्तिरिति चेत् ? देशान्तरवर्तिनोऽपि किन्न स्यात् ? स्वहेतुनिबद्धाच्छतिनियमादिति चेत्"; न; अन्यत्राप्यस्यैव परिहारत्वात् । कथं पुनः शक्तयोऽपि देशकालविप्रकृष्टभावापेक्षप्रादुर्भावा" इति चेत् ; न; तथा तासामचिन्त्यत्वात् । न हि शक्तयः
'कथमित्यमेवोत्पन्ना नान्यथापि' इति विचारयितुं प्रार्यन्ते। प्रमाणबलोपनीतास्तु परमभ्यनु२० शायन्त एव, अन्यथा न किश्चिद्भवेत् अपहस्तितत लावलम्बनस्यान्यत्रापि वस्तुव्यवस्थापन
स्यासम्भवात् । तदेवाह-'अचिन्त्या भावशक्तयः' इति । स्वपदव्याख्यातमेतत् । चोद्यमाविष्कुर्वन्नाह
विषमोऽयमुपन्यासस्तयोश्चेत्सवसत्त्वतः । इति । अयमनन्तरः आरादित्यादिः उपन्यासो दृष्टान्तो विषमो दान्तिकसदृशो न भवति । २५ सदृशेन च दृष्टान्तेन भवितव्यम् । तद्वैषम्यश्च तयोर्दे शकालविप्रकृष्टयोः सदसत्त्वतः देश
न्यवहितस्य" हि तज्ज्ञानदेशे असत्त्वेऽपि व्यक्तिरुपपन्नैव तज्ज्ञानकाले भावात् , न कालव्यव
१-परविज्ञा-भा०, ब०,०।२ प्रतिविषयं देश भेदा-आ०, ब०, ५० । ३ -वादप्रसझान छुपभा००, ५०।४-प्रतिपादितम-भा०, २०, ५० । ५ विज्ञानत्वेन भेद-प० । ६ तदकश्मलभा-आ०, ब०, १० .कालदेशे पि प्रकृ-श्रा०, ब० । कालदेशेऽपि विप्रकृ-५०। ८ तत्रैव भा०, ब०, प० । मिनदेश इस। ९ मिमकालेऽपि । १० ज्ञानदेशे। " चेदन्य-मा०, ब०, प० । १२-वादिति भा०, ब०, प.। १५-ख्यानमेतत् भा०, ०, प०।१४-हि तस्य हितस्य ज्ञानप्रदेशे प०।-हितस्य ज्ञानदेशे भा०,.