________________
प्रथमः प्रत्यक्षप्रस्ताव:
१।४१] तस्यापि' दर्शनात् । चिरापक्रान्तादपि लाक्षासंस्कारात् कार्पासफलादौ रागदर्शनादिति चेत् ; न; तद्वद्विधवागर्भस्यापि तादृशात्पतिसम्पर्कादेव प्रसङ्गात् । न च कार्पासरागस्यापि व्यवहितादेव तत्संस्काराद्भावः, तदुपहिताबीजशक्तिप्रबन्धादेव सन्निधिमतस्तद्भावात् । भवतु केशाद्याकारमपि ज्ञानं सन्निहितादेव तज्ज्ञानशक्तिप्रबन्धादिति चेत् ; तत्प्रबन्धो यदि तदाकारः कथन्न प्रबन्धतस्तदर्शनम् ? अतदाकारत्वे तु कथं ततस्तैमिरिकज्ञानस्य तदाकारत्वम् ? तत्प्रबन्धस्य तत्करण- ५ स्वभावत्वादिति चेत् ; तव्यक्तिस्वभावत्वमेव कस्मान्न भवति ? असतो व्यक्तिविषयत्वायोगा. दिति चेत् ; करणविषयत्वं कथम् ? दृश्यत इति चेत् ; व्यक्तिरपि दृश्यत एव । ज्ञानाकारत्वेन सत एव सादृश्यत्वेनासत इति चेत् ; न; तज्ज्ञानरूपत्वपरिज्ञानाभावस्य पूर्व निवेदितत्वात् । तस्मादसत एव तदाकारस्यापि ज्ञानशक्तितो व्यक्तिः । अत इदमुच्यते सरूपकेशादिव्यक्तिरपि' विज्ञानशक्तित एव व्यक्तित्वात् असरूपतद्व्यक्तिवदिति ।
भवतु नाम वर्त्तमानस्य तच्छक्तितो व्यक्तिः सति तत्र शैक्तिसम्भवात् , अतीतादेस्तु कथम् ? असति तत्र तदसम्भवादिति मन्यमानश्चोदयति
'व्यक्तिश्चेदसतः कथम्' ? इति ।
सत् वर्तमानम् असत् अतीतादि तस्य, कथम् ? न कथञ्चिद्वयक्तिः। चेच्छब्दः पराभिप्रायं द्योतयति । तदिदमर्पि निदर्शनबलेन तत्रापि शक्तिमवस्थापयन् परिहरति
आरादपि यथा चक्षुरचिन्त्या भावशक्तयः ॥४१॥ इति ।
आरादपि दूरादपि न केवलमासन्न एवेत्यपिशब्दः । यथा येन शक्तिभावप्रकारेण चक्षुः तजनितं ज्ञानं कार्ये कारणोपचारात् , तथैव अतीतादेरसतोऽपि व्यक्तिरिति । अयमत्र भावः-यदि ज्ञानसमये अतीतादेरभावान्न तत्र तच्छक्तिर्व्यक्तिर्वा दूरचन्द्रादावपि न भवेत् २० तस्यापि ज्ञानदेशे[s]भावात् , अन्यथा नयनगोलक एव तत्प्रतिभासप्रसङ्गात , तस्यैव तद्देशत्वात् । न चैवम् , दवीयसि गगनतल एव तदुपलम्भात् । तदाकारार्पकस्य तद्देशत्वात्तस्यापि तद्देशतयोपलम्भ इति चेत् ; न; पितरि विप्रकृष्टे पुत्रस्यापि तत्स्वरूपस्य विप्रकृष्टतयोपलम्भप्रसङ्गात् । ज्ञानस्यापि स एव देशो यत्र चन्द्रादिरिति चेत् ; तथापि कथं तत्र दूरप्रतिभासनं ना(ज्ञाना)पेक्ष्या तेदैव प्रत्यासन्नप्रतिभासनप्रसङ्गात् । न चैवम् , सर्वदा चन्द्रादौ दूरप्रतिभासन- २५ स्यैव भावात् । शरीरस्थस्यापि ज्ञानस्यातद्विषयत्वे न तदपेक्षमपि दूरप्रतिभासनम् ; इन्द्रियान्तरज्ञानापेक्षयापि तत्प्रसङ्गात् । तद्विषयत्वे तदपि प्रथमज्ञानवञ्चन्द्रादिदेशमेवेति कथं तद्वशादपि
1-पि तद्द-भा०, ब०, ५०। २ प्रतिबन्धस्तद्द-आ०, ब०, ५०। ३-पि ज्ञान-मा०, ब०, ५०४ शक्तिसद्भावात् आ०,ब०प० । ५ चौदति भा०, ब०,५०। ६-पि द-मा०, ब०, प.। . तत्स्वरूपविभा०, ब०, प०। ८ तथाहि भा०, ब०, ५०। ९ तदेव श्रा०, ब.,५०।.-त् वि-भा०,व०प० ।