________________
२९०
न्यायविनिश्वयविवरणे
अर्थज्ञानस्मृतावर्थस्मृतौ नातिप्रसज्यते । इति ।
अर्थो नीलादिस्तस्य ज्ञानं तस्य स्मृतौ येयमर्थस्यापि तज्ज्ञानसंसर्गित्वेन स्मृतिस्तस्यां निराकारज्ञान वादिसम्मतायां नातिप्रसज्यते सैवार्थस्मृति: 'ज्योतिर्मनस्कारादिभिः' इति शेषः ।
[ १२२४१
कथं पुनर्नातिप्रसज्यते यावता निराकारज्ञानस्य साधारणतया सर्वविषयत्वं तत्स्मरण५ स्यैवे च सर्वत्रैवानुभवविषये प्रवर्त्तनमापद्यत एवेति चेत्; अत्र पूर्वोक्तमेव शक्तिनियममुत्तरीकुर्वन्नाह
सरूपमसरूपं वा यत्परिच्छेदशक्तिमत् ॥४०॥
तद्व्यनक्ति ततो नान्यत् व्यक्तिश्चेदसतः कथम् ? इति ।
यस्य नीलादेः परिच्छेदो व्यवसायो यत्परिच्छेदस्तस्य शक्तिः सा विद्यतेऽस्येति यत्प१० रिच्छेदशक्तिमत् अर्थज्ञानं तज्ज्ञानं च तद्यदित्युक्तं व्यनक्ति प्रकाशयति ततोऽन्यत् क्षणपरिणामादिकमालोकादिकं च न व्यनक्ति तत्परिच्छेदशक्तिमत्त्वाभावात् । कीदृशं तत् यत्तच्छब्देन निर्दिश्यत इत्याह- सरूपं सस्वभावं रूपशब्दस्य स्वभाववाचित्वात् नीरूपः प्रध्वंस इतिवत् । कुतः पुनरिदमवगतं यद्विज्ञानशक्तित एव विषयव्यक्तिनियमो न पुनस्तदुत्पत्ति • सारूप्याभ्यामन्यतो वेति चेत् ? तदिदं निदर्शनेन प्रत्यादिशन्नाह - असरूपम् अविद्यमानं १५ तदिव वाशब्दस्येवार्थत्वात् । तात्पर्यमत्र - यदि तदुत्पस्यादेरेव " तन्नियमः तैमिरिककेशादौ न भवेत् तस्य नीरूपत्वेनाकारार्पणक्षमस्य हेतुत्वस्य योग्यत्वादेश्वाभावात् । ज्ञानस्वरूपतया सरूप एव तत्केशादिरपीति चेत्; न; तस्य ज्ञानाद् "बहिनैव प्रतिभासनात् । भ्रान्तमेव ट्विमिति चेत्; किमिदं भ्रान्तमिति ? अविद्यमानमिति चेत् तस्य तर्हि कथं व्यक्तिः तदाकारार्पणक्षमस्य हेतुत्वस्य तत्राप्यभावात् ? तदपि ज्ञानरूपतया सरूपमेवेति चेत्; न; तस्यापि २० तत्केशाद्यधिष्ठानतयैव प्रतिभासनात् । भ्रान्तमेव तदधिष्ठानत्वमिति चेत्; न; तत्रापि 'किमिदं भ्रान्तम्' इत्याद्यनुबन्धादव्यवस्थापत्तेश्च । कुतो वा ज्ञानस्य तदाकारत्वम् ? अहेतुकत्वे नित्यत्वादिदोषात् । अनन्तरज्ञानादिति चेत्; न; तस्मिन्नतादृशेऽपि तद्दर्शनात् । अतादृशादपि तद्भावे सन्मात्रमेव तत्त्वं भवेत् । तत एव सकलस्यापि विज्ञानवैश्वरूप्यस्य सम्भवात् । तादृशादेव व्यवहितादिति चेत्; न; पूर्वं तिमिरादिरहितस्य तदभावात् । प्राग्जन्मभाविन इति २५ चेत् ; प्रागपि तद्भावे कथमिदानीं तिमिरादिभावेऽपि तस्य तदाकारत्वम् ? अत एव तद्भावस्यानुमानमिति चेत् ; कथमेवं विधवागर्भादपि चिरव्यवहितस्य पतिसम्पर्कस्यैव नानुमानं यतो जारसम्पर्कदोषेण विधवा दूष्येत । सन्निहितादेव तत्सम्पर्कादन्यत्र गर्भाधानदर्शनादिति चेत्; न; कथं तर्हि चिरव्यवहितस्य केशादिज्ञानस्यापि तदाकारार्पकत्वम् ? सन्निहित एव नीलादौ
१ इति विशेषः आ०, ब०, प० । २ वानुभव प० । ३ अर्थज्ञानञ्च तयदित्यु - आ०, ब०, प० । ४ - ६ स्वखभा-आ०, ब०, प० । ५ विषयनियमः । ६ स्वरूप आ०, ब०, प० । ७ महिः सत्वेनैव प० । ८ प्रतिभासात् आ०, ब० । ९ नमिति आ०, ब०, प० ।