________________
२१३९ ]
प्रथमः प्रत्यक्ष प्रस्तावः
रूपमात्रावभासं तदर्थज्ञानं ततो भवेत् ।
न त्वालोकावभासं तन्न च नीलावभासनम् ॥७२९॥ विज्ञानं नीलनिर्भासमासीदिति ततः स्मृतिः । कथं येतोsर्थज्ञानस्य नीलाकारस्य कल्पनम् ॥७३० ॥ विशेषापेक्षया नीले रूपदृष्ट्या न चेददृशिः । आलोकेऽपि विशेषः किन्नैव यन्नैवमुच्यते ॥ ७३१ ॥ यदर्थज्ञानमा लोकाकारं प्राप्तं विशेषतः । ततः सङ्कलितालोकं तज्ज्ञानस्मरणं भवेत् ॥ ७३२॥ विषयाकारवादेऽपि तद्विपर्ययवादवत् ।
स्मरणातिप्रसङ्गस्य हन्त हन्ता कथं भवान् ? ॥७३३॥ ते क्षणभङ्गाद्याकारत्वादर्थसंविदः । तत्सङ्कलनतस्तत्र स्मृतिः स्यादिति दर्शितम् ॥ ७३४॥ स्मृत्या च क्षणभङ्गादौ नीलादाविव निश्चिते । प्रयासमात्र तंत्र स्यादनुमानोपकल्पनम् ॥७३५॥
२८९
तस्माद्विषयाकारेऽपि विज्ञाने 'नीलसङ्कलितस्यैव तस्य स्मरणं नालोकादिसङ्कलि - १५ तस्य' इत्यत्र नापरमस्ति निबन्धनमन्यत्र तादृशाच्छक्तिविशेषादित्ययुक्तं तद्दर्शनाद्विषयाकारविज्ञानकल्पनं शक्तिविशेषादेव तस्य भावात् । न चान्यथैव भवतस्ततस्तत्कल्पनं धूमादेर्जलादिकल्पनस्यापि प्रसङ्गात् ।
यत्पुनर्विषयकार्यतया विज्ञानस्य विषयसङ्कलितत्वेन स्मरणेऽतिप्रसङ्गाय प्रतिपादितं 'यथा' इत्यादि, यश्चेदमपरम्
"सर्वेषामपि कार्याणां कारणैः स्यात्तथा ग्रहः ।
कुलालादिविवेकेन न स्मर्येत घटस्ततः ॥ " [ प्र० वा० २।३८१ ] इति ; तदपि न शोभनम् ; शक्तिकल्पनयैव तस्यापि परिहारात्, अन्यथा इदमपि शोभनं भवेत् - 'यदि विषयकार्यत्वात्तदाकारं तज्ज्ञानं मनस्कारकार्यत्वात्तदाकारमपि भवेत्, न हि कार्यवे चिद्विशेष:' इति । तथेदमपि -
1
सर्वेषामपि कार्याणां कारणैः स्यात्समाकृतिः ।
कुलालाकारशून्यस्य न घटस्योद्भवस्ततः ॥ ७३६ ॥ इति
तदिदमतिप्रसङ्गापादनं चपलकपिशावकस्य सुप्तभुजङ्गोत्थापनमिव परस्यैव विपत्तिमापादयति न निराकारज्ञानवादिनः, शक्तिप्रतिनियमादेव तेन तत्परिहारस्याभिधानात् । तदेवाह -
१ यथार्थज्ञा-आ०, ब०, प० । २ क्षणभङ्गसिद्धौ । ३ - कारकल्पनं आ०, ब०, प० । भवेदिति शेषः ।
३७
१०
४ शोभनं
२०
२५