________________
[१३९
२८८
न्यायविनिश्चयविवरण 'अर्थकार्यतया ज्ञानस्मृतावर्थस्मृतेर्यदि ।
भ्रान्त्या सङ्कलनं ज्योतिर्मनस्कारेऽपि सा भवेत् ॥ भ्रान्तिरिति सम्बन्धः । यद्यर्थस्य कार्य विज्ञानम् अथाप्यर्थे कार्य व्यापारो यस्येति ज्ञान.
स्मृतौ नियमेनार्थस्मरणम् अतस्तदवमूढमतिसन्तानस्य तथा भवति प्रतिपत्तिः, एवं तर्हि ५ ज्योतिर्मनस्कारेऽपि तथा प्रतीतिः स्यात् । यथा विषयकार्यता विज्ञानस्य तथा आलोककार्यता मनस्कारकार्यतापि तेन द्वयसङ्कलनेनापि प्रतीयेत । न हि कार्यत्वे कश्चिद्विशेषः । अथ विषये व्यापूतत्वात्तत्सङकलनम् , मनस्कारे तत्राव्यापृतत्वात् तदा तस्यालोकेऽपि समान एव व्यापारः । न ह्यालोकमपहाय रूपे व्याप्रियते । तदसदेतत्-तस्माद्यथा
आलोकप्रतिभासमिति न भवति तथा रूपप्रतिभासमिति न स्यात् । अथालोकोऽपि विषय १० एवान्तर्गतत्वात् 'रूपप्रतिभासम्' इति निश्चयेनैव गतः, न; आलोकस्य प्रकाशकत्वेन विषयत्वाभावात् कथं तत्र व्यापारः ? अथ प्रकाशकोऽप्यालोको रूपनिपतितत्वाद्रूपमेव सम्पद्यत इति विषयः; तथा सति ज्ञानमपि प्रकाशक रूपनिपतितत्वाद्रूपमेवेति साकारालोकवत् विज्ञानमपि साकारम् । यथा न रूपेण विनाऽऽलोको न ग्रहीत (को ग्रहीतुं)
शक्यस्तथा विज्ञानमपि, न हि रूपादिकं प्रकाश्यं विना विज्ञानं ममास्तीति कश्चिद्विजा. १५ नाति । तस्माद्रूपाद्याकारमेव विज्ञानम् एवमन्यथा तदनुस्मृतौ रूपादिसरणायोगादति
प्रसङ्गात" [ प्र० वार्तिकाल० २।३८० ] इति चेत् ; नायमपि दुष्परिहरो दोषो यस्मान्न विषय इत्येव सर्वत्र स्मरणम् , यत्र शक्तिस्तत्रैव तद्भावात् । न च शक्तिरपि विपयनिबन्धना यतो नीलवदालोकेऽपि भवेत् , अपि तु तत्कारणादेव संस्कारात् । तस्याप्य.
नुभवाद् भावे नीलवदालोके किन्न भावस्तस्यापि तद्वत्तद्विषयत्वात् , न ह्यसौ विषयेऽपि २० क्वचिदेव संस्कारकारी नान्यत्रेत्युपपन्नम् , एकरूपत्वादिति चेत् ; न; एकरूपत्वस्यासिद्धत्वात् ,
स्वहेतूपनिबन्धस्य प्रतिविषयं शक्तिविशेषस्य भावात् । अवश्यं चैतदेवमङगीकर्त्तव्यम् , अन्यथा विषयाकारेऽपि ज्ञाने दोषोपपत्तेः । तथा हि
यदि नीलस्य तज्ज्ञानाकारत्वात्तस्मृतौ स्मृतिः । आलोकोऽपि तदाकारस्तस्याप्येषा न किं भवेत् ॥७२५॥ नीलज्ञानमनालीकाकारं चेत्तदृशिः कथम् ?" तथापि तदृशौ व्यर्थ नीलेऽप्याकारकल्पनम् ॥७२६॥ आलोकादर्शने नीलमात्रस्यैव दृशिः कथम् ? अन्यथा हि वचो न ह्यालोकमित्यादि दुष्यति ॥७२७॥ रूपे निपतनात्तस्यं तद्दृष्ट्यैव शिर्यदि । नीलस्यापि भवेदेषा तन्निपाताविशेषतः ॥७२८॥
"विनालोको ग्रहीतुम्"-प्र. वार्तिकाल । २-ना ज्ञानं ता० । ३ दुष्परिहारी आ०, ०,१०। . संस्कारस्यापि । ५-ले व्यापा-आ०, ब०, ५०६ आलोकस्य ।