________________
११३९] प्रथमःप्रत्यक्षप्रस्ताव
२८७ "विषयव्यपदेशाच्च नर्ते ज्ञाननिरूपणम् । तज्ज्ञानात्मन्यनेकत्वे ग्राह्यभेदनिबन्धनः॥
संवित्तिभेदः सिद्धोऽत्र किमाकारान्तरेण नः ।" [ ] इति चेत् ; उच्यते-ग्राह्यभेदः संवित्तिं भिन्दन् यदि तदनुप्रवेशेन भिनत्ति; कथन्नाकारवत्त्वं यत इदं शोभेत-'किमाकारान्तरेण नः' इति । नात्स्येव तस्य तदनुप्रवेश इति चेत् ; कथं ततः संवित्ति- ५ भेदो गगनस्यापि तत एव तत्प्रसङ्गात् । तस्य तेनानवष्टम्भान्नेति चेत ; संवित्तेः कस्तेनावष्टम्भः ? विषयत्वमेवेति चेत् ; तदपि नीलसंवित्तौ नीलवत् पीतादेरपि कस्मान्न भवति ? अशक्तेरिति चेत् ; कस्याशक्तिः ? विषयस्यैव पीतादेरिति चेत् ; न; तदश विपि संवित्तिसामर्थ्य तद्विषयभावस्यावश्यम्भावात् , अन्यथा शुक्तिरूप्यादेरविषयत्वापत्तेरिति निवेदनात्। संवित्तेरेवाशक्तिः, नीलादौ नियत एव विषये तस्याः शक्तिभावात् विषयान्तरे विपर्ययादिति चेत् ; सिद्धस्तर्हि १० शक्तिभेदादेव संवित्तिभेदो न ग्राह्यभेदात् , "तद्भेदस्यापि संवित्तिभेदादेवोपपत्तेः । स्वहेतोरेव "तभेदो न संवित्तिभेदादिति चेत् ; न; ततो नीलधवलादिरूपस्यैव भेदात् । " ग्राह्यरूपमपि तदेवेति चेत् ; भवत्वेवम् , तथापि कुतस्तदवगमो यतस्तन्निबन्धनं संवित्तिभेदं ब्रूयात् ? संवित्ति. भेदादेव , न चैवं परस्पराश्रयः; संवित्तिभेदस्य तद्भेदादनवगमात् । "तभेदोऽपि हि संवित्तिं भिनत्त्येव, न पुनस्तद्भेदमवगमयति तस्यान्यत एवावगमादिति चेत् ; कुतस्तर्हि विभ्रमसंवित्तीनां १५ भेदः ? तद्विषयात् केशोण्डुकादेरेव भेदादिति चेत् ; न; तस्यासत्त्वात् । न चासतो भेदकत्वम् तस्य" वस्तुधर्मत्वेन तत्रासम्भवात् । विषयत्वमसतः कथमिति चेत् ? न; तस्यापि तद्वलेनाभावात् , संवित्तिबलादेव तदुपपत्तेः । ततो न ग्राह्यभेदस्य भेदकत्वम् अव्यापकत्वात् । शक्तिभेदस्य तु भेदकत्वे नायं दोषः, सर्वसंवित्तिषु तद्भावात् । "तभेदस्यापि कुतोऽवगमो यत. स्तन्निबन्धनः संवित्तिभेदस्त्वयापि निरूप्यत इति चेत् ; 'संवित्तिभेदादेव तन्निबन्धनात्' इति २० ब्रूमः । ततो न ग्राह्यभेदानाप्याकारभेदात् संवित्तिभेदः शक्तिभेदादेव तदुपपत्तेरित्युपपन्नमुक्तम्'विषय' इत्यादि ।
यदि ज्ञानमर्थाकारं न भवति कथं तत्स्मरणे अर्थस्यापि नियमेन स्मरणम् 'नीलज्ञानमासीत्' इति ? सति भेदे घटस्मरणे "पटस्येव तदयोगात् , तदाकारत्वे तु तस्य भवत्येव तथा स्मरणं तव्यतिरेकेण ज्ञानस्यैव स्मर्तुमशक्यत्वात् । सत्यप्यर्थात्तज्ज्ञानस्य व्यतिरेके तत्सङ्कलित. २५ स्यैव स्मरणं विभ्रमात् । विभ्रमस्य च निमित्तं तस्य तंत्र तद्व्यापारः, तत्कार्यत्वं वा। ततो विषयसङ्कलिततज्ज्ञानस्मरणस्य अन्यथैव भावात् न ततो विषयाकारव्यवस्थापन विज्ञानस्योपपन्नमिति चेत् ; उच्यते
विषयस्योपदेशाचानर्थे प० । विषयस्यपदेशाचनर्थे आ०,०।२-रमनैकत्वे आ०,ब०,१०॥ ३ इतीद आ०,०प० । ४ ग्राह्यभेदस्य । ५ संवित्त्यनुप्रवेशः । ६ ग्राह्यभेदादेव । ७ भेदप्रसङ्गात् । ८ विषयत्वमपि । ९ शुक्तिरूपादेः आ०,०,१० रजतस्य । १० ग्राह्यभेदस्यापि । ११ ग्राह्यभेदः। १२ ग्राह्यरूपमेव तदेवेति भा०,०, प०।१५ प्राह्यभेदोऽपि । १४ भेदकत्वस्य। १५ शक्तिभेदस्यापि। १७ घटस्यैव प०।१७ तत्राव्यापा-पा०,व०प०।