________________
२८६ न्यायविनिश्चयविवरणे
[१३९ चेत् ; न; विषयज्ञाने विषयाकारस्यानन्तरन्यायेनाभावात् , तेन तत्समर्पणानुपपत्तेः । कथमेवं तस्य तदाकारत्वेन स्मरणम्-'नीलज्ञानमासीत्' इत्युल्लेखरूपमिति चेत् ? भवेदेवेदं यदि 'नीलमेव ज्ञानं नीलज्ञानम्' इति तदुल्लेखार्थः स्यात् । न चैवम्, 'नीलस्य 'ज्ञानं नीलज्ञानम्' इति तदर्थत्वात् देवदत्तकम्बलवत् । एवमपि कथं नीलस्य स्मरणमिति चेत् ? 'तज्ज्ञानस्य कथम् ? ५ तदाकारस्यानुकरणादिति चेत् ; न; तस्यैव स्मरणापत्तेः । तत्र च 'आसीत्' इत्युल्लेखानुपपत्तिः,तदाकारस्य स्मरणगतस्यातीतत्वाभावात् । तात्कालिकस्यापि अतीततज्ज्ञानरूपतयाऽध्यारोपा. त्तदुपपत्तिरिति चेत् ; कोऽसौ तदध्यारोपः ? तदेव स्मरणमिति चेत् ; कुतस्तहिं तत्र तदाकारस्य परिज्ञानम् ? न स्वतः; तेन तस्य बहिर्भूतस्यैव परिज्ञानात् । अन्यतस्तत्स्मरणादिति चेत् ; न;
अनुभवाभावे तदनुपपत्तेः । न च स्वसंवेदनादपरस्तत्रानुभव इत्यपरिज्ञानमेव तस्य प्राप्तम् । १० तन्न तदेवाध्यारोपः । नापि परः; 'तत्रैवासीत्' इत्युल्लेखप्रसङ्गात्। न चैवम्, 'नीलज्ञानमा
सीत्' इति विषयज्ञानस्मरण एव तदुपलम्भात् । तदपरव्यापारस्य तत्रारोपात्तथा तदुपलम्भ इति चेत्, कस्तर्हि तस्य तात्त्विको व्यापारः ? निर्व्यापारस्य व्योमकुसुमाविशेषेणाभावापत्तेः । आत्मन्येव विषयज्ञानाकारस्य स्मरणमिति चेत् ; न तर्हि तत्रातीतत्वारोपः, तत्कालतया
स्मरणेन निश्चयात् , निश्चिते च विपर्ययानुत्पत्तेः । अनिश्चयात्मना तत्रैव तज्ज्ञानं तद्व्यापार इति १५ चेत् ; न; विरोधात् 'स्मरणं च, अनिश्चयात्मकं च' इति 'माता च वन्ध्या च' इतिवत् । ततो
नापरस्तव्यापार इत्यतीतपरामर्श एव तद्व्यापारोऽनुमन्तव्यः । स च तदनुप्रविष्टत्वे तद्विष. याकारस्य न सम्भवतीत्यैननुप्रवेश एव तत्र तस्य वक्तव्य इत्यसिद्ध एवाकारत्रयात्मा विशेषः, स्मरणस्य स्वाकारस्यैकस्यैव भावात् । न च तस्यान्यथानुपपन्नत्वम् ।
"अन्यथानुपपन्नत्वमसिद्धस्य न सिद्ध्यति ।" [न्यायवि० श्लो० ११]
इति न्यायात् । तत्कथं ततो विषयज्ञानस्याकारवत्त्वमनुमानपदवीमुपनीयते ? कथं पुनस्तदाकारेण स्मरणेन नीलस्य तज्ज्ञानस्य वा परिज्ञानमिति चेत् ? न; 'स्वहेतूपनिबद्धादेव शक्तिविशेषात्' इति दत्तोत्तरत्वात् । अयमेव विषयज्ञानतज्ज्ञानयोर्विशेषो यद्विषयज्ञानस्य नीले स्वात्मनि शक्तिः स्मरणस्य तु नीले तज्ज्ञाने स्वात्मनि चेति । तस्मादप्रातीतिकमेवेदम्'तस्यार्थरूपेणाकारौं' इत्यादि ।
कस्मात्पुनः शक्तिविशेषाद्विषयज्ञानतज्ज्ञानयोर्विशेष उच्यते, न ग्राह्यभेदादेव तद्भेदो वक्तव्यः ? ग्राह्यभेदस्य नीलपीतादिलक्षणस्य परिस्फुटप्रतिभासविषयतया फलभेदात् , अनुमेयशक्तिविशेषापेक्षया चातिप्रसिद्धत्वात् । अत एव च भट्टेन प्रतिपादितम्
1 ज्ञानमिति त-भा०, ब०,०। १ तस्य ज्ञानस्य आ०, ब०, ५०। ३ आकारस्यैव । ४ -नाद्यतः भा०, ब०, प०। ५-त्यनु-आ०, ब०, प०। ६ -व वा भा-आ०, ब., प.। ७ नीलतज्ज्ञानस्वास्मनि च भा०,०,१०।