________________
१२।३९] प्रथमः प्रत्यक्षप्रस्तावः
२८५ नुपपत्तेः । एकाकारादिकच ततस्तत्स्मरणम् , ततोऽपि तत्स्मरणादिकमुपलभ्यते । तथा च वार्तिकं तन्निबन्धनञ्च
"अन्यथा ह्यतदाकारं कथं ज्ञानेऽधिरोहति ।" [प्र०वा० २।३८० ] इति । "यदि तत्तदाकारमात्मानं स्वसंवेदनेन नानुभवेत् कथं तदाकारतया ज्ञाने स्मरणे अधिरो. हेत् । अधिरोहणं तदाकारजननम्, तदधिरोहतीति कुतः ? तथैव प्रतिपत्तेः । ५
एकाकारोत्तरं ज्ञानं तथा युत्तरमुत्तरम् । अवश्यमेतदुपगन्तव्यम् । तथा हि-उत्तरमेकैकेनाकारेणाधिकमधिकं भवति नान्यथा । तथा हि-पूर्वेण नीलं गृहीतं तदुत्तरेण नीलज्ञानम् , तदुत्तरेण नीलज्ञानज्ञानम् , तदुत्तरेणापि तदधिकमिति निश्चिनोति । तदेतदन्यथा न स्यात् , एतदेवोदाहरणेन प्रतिपिदयति
तस्यार्थरूपेणाकारावात्माकारश्च कश्चन ।
द्वितीयस्य तृतीयेन ज्ञानेन हि विभाव्यते । द्वितीयज्ञानं पूर्वज्ञानद्वयाकारं स्वाकारञ्च विभाव्यते तृतीयेन, चतुर्थेन तदेव त्रयमेकाकाराधिकमिति यावद् गणयितुं स्मत्तुं वा शक्रोति ।" [प्र. वार्तिकाल० ] इति । ततो विषयज्ञानस्य विषयान्तरव्यावृत्तिलक्षणात् । तज्ज्ञानस्य चाकाराधिक्यलक्षणाद्विशेषादाकारवत्त्वमेव १५ अर्थज्ञानस्योपपन्नम् । तत्कथं विषयाकारनिरपेक्षत्वं तदवलोफेने प्रभुत्वमुच्यत इति चेत् ? अत्र पूर्वोक्तमेवोत्तरं विस्मरणशीलानुग्रहाय प्रतिनिर्दिशन्नाह
विषयज्ञानतज्ज्ञानविशेषोऽनेन वेदितः ॥३९॥ इति ।
विषयज्ञानं नीलादिज्ञानं तज्ज्ञानं तद्विषयमनुस्मरणम् , तयोर्विशेषो व्याख्यातः। अनेन 'प्रकाशनियमः' इत्यादिना । वेदितो निरूपितः । तथा हि-यद्यन्यथानुपपन्नत्वं २० तद्विशेपस्य भवत्येव ततो विषयाकारव्यवस्थापनम् । न चैवम् ; तस्यासम्भवात् । तथा हिस्वहेतूपंनिबद्धादेव शक्तिविशेषाद्विषयान्तरव्यावृत्तिनियमे किं तदर्थेन तदाकारनियमकल्पनेन ? . कल्पयतोऽपि तन्नियमं तच्छक्तिविशेषस्यावश्याभ्युपगमनीयत्वात् , अन्यथा तन्नियमस्यैवासम्भवादिति प्रतिपादितत्वात् । सति च तद्विशेषे किमनेन परिश्रमहेतुना पारम्पर्येण-तद्विशेषात् ज्ञानाकारस्याकारविशेषः, ततोऽपि विषयनियमः' इति ? तद्विशेषादेव तन्नियमोपपत्तेः। ततो न १ तन्नियमलक्षणात् विषयज्ञानविशेषात् आकारवत्त्वव्यवस्थापनमुपपन्नम् , अन्यथैव तस्योपपत्तेः। नापि तदनुस्मरणगतादाकारत्रयलक्षणाद्विशेषात् ; तस्यैवासिद्धेः। सिद्ध एवासौ विषयज्ञानो. पसमर्पिताभ्यां नीलबोधाकाराभ्यां स्वाकारेण च, तत्र तल्लक्षणस्य विशेषस्य विभावनादिति
-कनप्रभु-भा०, ब०, ५।२ यदन्यथा-आ०, ब०, ५०। ३-पनिबन्धादेव आ०, ब...।४ शक्तिविशेपे । ५ ततो वि-०, ब०, प० । ६ शक्तिविशेषादेव । ७-वासिदिः भा०, ब०, प० । ८ स्वाकारी च आ०, ब०, ५०।