________________
२८४
न्यायविनिश्चयविवरणे
[११३९
कः पुनरसौ यो विद्यया यथार्थ विभ्रमैश्चायथार्थमवलोकते ? इत्याह-एषः प्रत्यात्मवेदनीयः इति । अनेन प्रत्यक्षवेद्यत्वमात्मनः प्रतिपादयता तनिषेधवादिनः प्रत्यक्षबाधनं प्रति. पादितम् । कीदृशः पुनरेषोऽपि ? इत्याह-'प्रभुः' इति । प्रभुत्वं पुनस्तस्य यथार्थाचवलोकने विषयाकारस्य व्यतिरिक्तविज्ञानस्य चानपेक्षणात् । एतदपि कुत इति चेत् ? तथैव तस्य स्वतो ५ ऽनुभवात् । निरूपितञ्चैतत् । कुतः 'पुनर्यथार्थत्वमवलोकनस्य परिज्ञायत इति चेत् ? कुतश्च
न परिज्ञायते ? तदुपायस्याभावादिति चेत् ; कथं तदपरिज्ञाने तद्वचनम् ? परिज्ञानपूर्वकत्वात्प्रेक्षावतां वचनप्रवृत्तेः । अरत्येव तस्य परिज्ञानमिति चेत् ; तस्य तर्हि यथार्थत्वं कुतश्चित्परिज्ञातव्यम् अन्यथा तदुपायाभावस्य ततः परिज्ञानायोगात् । न तस्य यथार्थत्वं नापि तद्विपर्ययः
तदुभयविकल्पनिर्मुक्तत्वादिति चेत् ; न; तस्याप्यपरिज्ञाने वचनायोगात् । परिज्ञाने च यथार्थत्वं १० तस्य कुतश्चिदवगन्तव्यम् , अन्यथा ततस्तन्निर्मुक्तत्वाप्रसिद्धः । तत्परिझानस्यापि तदुभयविकल्पनिमुक्तिरेवेति चेत् ; न; प्राच्यादेव प्रसङ्गात् ,अव्यवस्थापत्तेश्च । ततो दूरमनुसृत्यापि यथा
र्थादेव कुतश्चिद्वेदनात्कचित्तन्नि मुक्तत्वपरिज्ञानम् । तस्य च यथा यथार्थत्वपरिज्ञाने कश्चिदु. पायस्तथा विषयावलोकनस्यापीति नोपायाभावात्तत्परिज्ञानप्रतिक्षेपः । तदनेन अयथार्थत्वपरि.
ज्ञानस्याप्यप्रतिक्षेपो निरूपितः । तत्रापि बाधकस्योपायस्याभावात् तस्यापि प्रतिक्षेप इति चेत् ; १५ अस्ति तर्हि बाधकः बाधकादेवास्यापि तदुपपत्तेः । न मया कुतश्चित्तत्परिज्ञानं प्रतिक्षिप्यते
यतोऽयं प्रसङ्गः, अपि तु परप्रतिपादितस्य तत्परिज्ञानोपायस्य बाधावैधुर्यादेरनुपायत्वमेवापाद्यत इति चेत् ; न; अनुपायस्य तदापादनस्याप्ययोगात् । व्यभिचारादिदोषोद्भावनं तत्रोपाय इति चेत् ; न; ततोऽप्ययथार्थात् तदयोगात् । यथार्थमेव तदिति चेत् ; सिद्धं तर्हि यथार्थत्वमव.
लोकनस्यापि तद्दोषोद्भावनवत्तस्यापि कुतश्चित् तत्त्वपरिज्ञानोपपत्तेः । ततः सूक्तम्-'सत्यम्' २० इत्यादि।
यदि पुनीलज्ञानं नं नीलाकारम् अपि तु बोधरूपमेव कथं नीलस्यैवेदमिति विशेषो बोधरूपतया विषयान्तरं प्रत्यपि तस्याविशेषात् ? नील एव व्यापारात्तस्यैव तन्न पीतादेरिति "चेत् ; न; निराकारत्वे व्यापारस्यैव तादृशस्याप्रतिवेदनात् । अस्ति चायं विशेषो विषया
न्तरत्र्यावृत्तिलक्षणः, ततो नीलबोधरूपतया द्विरूपमेव नीलज्ञानम्, तथैवानुस्मरणाञ्च । अनुस्म. २५ रणं हि तस्य द्विरूपतयैव 'नीलज्ञानमासीत्' इति नीलबोधरूपद्वयोल्लेखेन तदुत्पत्तेः प्रतिवेद.
नात् । न हि स्वयमनुभयरूपस्य उभयरूपतया स्मरणे अधिरोहणमा"त्मसमर्पणमुपपन्नम् । अवश्यं चेदमुपगन्तव्यम् , अन्यथा"ततस्तत्स्मरणस्य","ततोऽपि तत्स्मरणादेरेकाकारादिकत्वा
पुनरप्ययथात्वं मा०, ब०, ५०। २ तदुपायवि-प० । ३ तस्य यथार्थत्वं प-श्रा०, ब०, ५० अयथार्थत्वपरिज्ञाने । ५ यतः अप्रसिद्धप्रतियोगिकोऽभावो नास्ति अतः बाधकाभावस्य प्रतियोगिभूतो बाधकोप्यस्त्येव । ६ अयथार्थत्वपरिज्ञानस्यापि । ७ अप्रतिक्षेपोपपत्रोः। ८ प्रसङ्गादपि तु भा०, ब०,५०।९न तनीलाभा०, ब०, प०। १० चेन्निरा-आ०, ब०, प०। ११ -त्मसर्पणमु-भा०, ब.। १२ प्रथमज्ञानात् । १३ विषयस्मरणस्य । १४ द्वितीयज्ञानात् । १५ प्रथमज्ञानस्मरणादेः ।