________________
१२३९] प्रथमः प्रत्यक्षप्रस्तावः
२८३ मिथ्याज्ञानेषु प्राप्तमपि प्रामाण्यं 'बाधकप्रत्ययेनापोद्यत इति चेत् ; तद्यदि तेषामेव स्वरूपमविशिष्टं कथमपवादः १ तेषामेव तत्प्रसङ्गात् । न चैवम् , सत्यपि बाधकप्रत्ययोपनिपाते तैमिरिकस्य द्विचन्द्रप्रतिभासानिवृत्तेः। तत्स्वरूपादन्यदेव अप्रामाण्यमिति चेत् ; तत्रापि यदि ज्ञानस्वरूपस्य निरपेक्षं प्रयोजकत्वं स एव दोषो मिथ्याज्ञानेष्वपि तत्प्रसङ्ग इति । बाधकप्रत्ययविरहव्यपेक्षस्यैव तस्य तंत्र प्रयोजकत्वमिति चेत् ; न तर्हि स्वतः प्रामाण्यम् , परसव्य- ५ पेक्षत्वे परत एव तदुपपत्तेः । ज्ञानरूपमेव तद्विरहः भावान्तरस्वरूपत्वादभावस्य, तस्मादयमप्रसङ्ग इति चेत् ; न; मिथ्याज्ञानेष्वपि तद्रूपसद्भावेन तद्विरहप्रसङ्गात् । भवतोऽपि भूतलमेव घटाभावं ब्रुवतः सघटमपि भूतलं तदभावः कस्मान्न भवतीति चेत् ? न भूतलस्य तद्भावत्वम् अपि तु तत्कैवल्यस्यैव "एकख कैवल्यमेव परस्य वैकल्यम्'' [हेतुबि० पृ० १८८] इति वचनात् । न च कैवल्यं भूतलमेव; "तद्भेदस्यापि तत्र प्रतिभासनात् । बाधाविरहस्यापि १० "ज्ञानात् कथञ्चिदर्थान्तरत्वे नैकान्ततः स्वतः प्रामाण्यम् , निरपेक्षतया ज्ञानमात्रादेव भावे तदेकान्तोपपत्तेः । न हि तद्विरहापेक्षया भवतो निरपेक्षत्वम् । तद्विरहोऽपि ज्ञानमेव, कथञ्चित् "तव्यतिरेकात् , अज्ञानस्यैतदनुपपत्तेः । न ह्यज्ञानस्य ज्ञानात् "कथञ्चिदप्यव्यतिरेकः । ततस्तदपेक्षत्वेऽपि तत्प्रामाण्यस्य न स्वतस्तद्भावविरोधः, स्वतःशब्देन” अज्ञानस्यैवापेक्ष्यतया प्रत्याख्यानादिति चेत् ; न; सत्यपि ज्ञानत्वे तेन तव्यतिरेकानपह्नवात् । तदनपह्नवे च कथं १५ तदपेक्षस्य स्वतो भावः ? परत एव भावोपपत्तेः, परनिरपेक्षस्यैव भावस्य स्वतो भावत्वात् ।
___ परिच्छेदकत्वमेव प्रामाण्यम् , तञ्च स्वत एव ज्ञानानाम् , तत्किं तत्र बाधाविरहस्य व्यपेक्षयेति चेत् ? न; "तन्मात्रस्य मिथ्याज्ञानेष्वपि भावात् । न तन्मात्रं प्रामाण्यम् , अपि तु यथार्थप्रतिभासरूपस्तद्विशेष इति चेत् ; "तस्य तर्हि किमन्यत्प्रयोजकम् अन्यत्र बाधाविरहात् ? तद्विशेषोऽपि स्वतः एव , बाधाविरहात् तस्य ज्ञप्तिरेवेति चेत ; न; स्वतस्तद्भावे अति- २० प्रसङ्गस्याभिहितत्वात् । स्वतोऽपि शक्तिविशेषाधिष्ठानादेव तद्विशेषो न तन्मात्रादिति चेत् ; न; शक्तिविशेषस्यैव प्रयोजकत्वे परतः प्रामाण्यापत्तेः । एतदर्थमेव शक्तिविशेषवाचिनो विद्यापदस्यात्रोपादानम् । ततो यदि निर्बन्धः स्वतः प्रामाण्ये निर्विशेषमेव ज्ञानं "तत्र प्रयोजकमभ्युपगन्तव्यम् । तत्र च न मिथ्याज्ञानसम्भवः, ज्ञानमात्रस्य तत्प्रयोजकस्य तत्रापि भावेन प्रामाण्यस्यैव प्राप्तेः । न च मिथ्याज्ञानाभावः, दत्तोत्तरत्वात् । तस्मादुपपन्नं मिथ्याज्ञानसद्भावेन २५ "स्वतः प्रामाण्यप्रत्याख्यानम् ।
बोधक-मा०,व०प० । २ अप्रमाणमि-भा०,०प० । ३ प्रामाण्यप्रसङ्गः। ५ ज्ञानस्वरूपस्य । ५ अप्रामाण्ये । ज्ञानस्वरूप-१०। ७ बाधकविरहः । ८ बाधविरह । ९ घटाभावः। 1. कैवल्यभूतलयोर्भेदस्य । "-नार्थश्चिद-आ०,०, प० । १२ बाधाविरहोऽपि । १३ -तद्व्यति-भा०, ब०, ५०।१४ कश्चिदन्यमा०, ब०,०१५ -नशा-मा०, ब०, प० । १६ बाधाविरहेण । १७ ज्ञानभेदाविलोपात् । 16 परिच्छेदमात्रस्य । १९ चेत् न स तस्य भा०, ब०, प० । २० परिच्छेदविशेषस्य । २० उत्पद्यते इति शेषः । २२ परिच्छेदविशेषः । २३ न ज्ञानसामान्यसामग्रीतः । २४ श्लोके ।-त्रोपादानात् भा०, ब०,५०। २५ प्रामाण्ये । २१ मिथ्याज्ञानेऽपि । २०-वे स्वतः प्रामाण्येन प्र-भा०,०, प.।