________________
२८२ न्यायविनिश्चयविवरणे
[ ११३९ नापि तद्धेतुत्वेन ; अभावस्य 'तदयोगात् । ततो नोपप्लवरूपाद्विचारात् भेदनिराकरणम् । अनुपप्लवरूपत्वे तु तस्य तदेकयोगक्षेमत्वेन आत्माप्यनुपप्लव एव । स्वपरपरिच्छेदस्वभावावपि तस्येति कथन्न बाह्यग्रहणम् ? तदेवाह -
सत्यं तमाहुराचार्या विद्यया विभ्रमैश्च यः ॥३८॥
यथार्थमयथार्थ वा प्रभुरेषोऽवलोकते । इति ।
सत्यम् अवितथम् । तम् आत्मानम् । आत्मन एव विचारविषयतया प्रस्तुतत्वात् । आहुः आवेदयन्ति । के ? आचार्या विचारज्ञानप्रवर्त्तका इति । अनेन सत्यात्मवादित्वाभावे तेषां तत्प्रवर्तकत्वाभावं पूर्वोक्तन्यायमावेदयन् अनुमानसिद्धं तत्सत्यत्वमावेदयति-कीदृशं तम् ?
इत्याह-योऽवलोकते पश्यति । कया ? विद्यया यथावस्थितवस्तुरूपावलोकनशक्त्या । तद१० नेन 'सारूप्यमवलोकननिमित्तम्' इति प्रत्युक्तम् ; शक्तरेव तन्निमित्तत्वोपपत्तेनिवेदितत्वात् ।
कमवलोकते ? यथार्थ यो येन स्वभावेन स्थितोऽर्थः स यथार्थस्तमिति, सुप्सुपेति समासः । तदनेन 'सर्वमुपप्लव एव' इत्येकान्तः प्रतिविहितः । तथा हि - तदेकान्तस्य नाप्रतिपन्नस्यैवा. भ्युपगमः अनुपप्ल ववत् । नापि कुतश्चिदुपप्लवादेव तत्प्रतिपत्तिः तद्वदेव, अनुपप्लवात्तु तत्प्र.
तिपत्तौ कथं तदेकान्त इति ? न विधिमुखेन कुतश्चित्तत्प्रतिपत्तिर्यदयं प्रसङ्गः स्यात् , अपि त्व१५ नुपप्लव एव प्रतिक्षिप्यते तत्प्रमाणस्य प्रत्यक्षादेरसम्भवादिति, तल्लक्षणदोषोद्भावनेन प्रतिक्षे.
*पात् । प्रतिक्षिप्ते चानुपप्लवे पारिशेष्यादुपप्लवस्यैवावस्थानं गत्यन्तराभावादिति चेत् ; न; तत्रापि प्राच्यादेव दोषात् पारिशेष्यस्याप्युपप्लवत्वे ततोऽप्युपप्लवस्य तद्विपर्ययवदव्यवस्थितेः । अनुपप्लवत्वे तदेकान्तपरिहाणेः । उपप्लवस्यापि यदि स्वरूपं व्यभिचरति कथमुपप्लवत्वम् ? न
व्यभिचरति” चेत् ; तथापि कथं तत्त्वम् ? अव्यभिचारिस्वरूपस्यैवानुपप्लवत्वात् , "तदवलो. २० कनस्य यथार्थावलोकनत्वादिति सूक्तं यथार्थमवलोकत इति ।
.. पुनरपि तत्स्वरूपमाह-विभ्रमैश्च मिथ्याकारग्रहणशक्तिविशेषैश्च । चशब्दः पूर्वसमुच्चयार्थः 'अयथार्थ मिथ्याकारं योऽवलोकते' इत्यनेनापि मिथ्याज्ञानसद्भावमावेदयता ज्ञानानां स्वत एव प्रामाण्यमिति प्रतिविहितम् , तत्र मिथ्याज्ञानाभावप्रसङ्गात् । तथा हि
स्वशब्देन ज्ञानस्वरूपमेवोच्यते । तद्यदि प्रामाण्यस्य प्रयोजक मिथ्याज्ञानेष्वपि भवेदविशेषात् २५ इत्यभाव एव तेषां भवेत् , सति प्रामाण्ये मिथ्यात्वविरोधात् । अभावे च मिध्याज्ञानानां चोद
नावत् प्रत्यागमस्यापि धर्मे तज्ज्ञानजननद्वारेण प्रामाण्यात् "धर्मे चोदनैव प्रमाणम्" [ ] इत्यपालोचितमेव वचनं भवेत् ; "अन्ययोगव्यवच्छेदाभावेनावधारणानुपपत्तेः ।
हेतुत्वायोगात् । २ बौद्धमतम् । “साधन मेयरूपता"-प्र०वार्तिकान० २।३०६ । । सुबन्तं सुबन्तेन सह समस्यते । ४ उपप्लवैकान्तप्रतिपतौ। ५ इति कथन्न वि-आ०,ब०,५०। ६ अनुपप्लवत्वप्राहकप्रमाणस्य । . -पात्तत्प्रति-भा०,०,५०1८ अनुष्प्लववत् । ९ पारिशेष्यस्य अनुपप्लवरूपत्वे । १.-पि तयादि-मा०,००
"-चरतीति भा०प०प०। १२ तदवलोकस्य भा०,ब०,५०।१३-न स्व-मा०,व०प० । १४ "चोदनैव प्रमाणञ्च त्येतद्धमै ऽवधारितम्"-मी० श्लो. चो० सू० श्लो० ४ । १५-द्रष्टव्यम्-पृ० २५ टि०१४ ।