________________
११३८ । प्रथमः प्रत्यक्षप्रस्ताव
___ २८१ णाभिमुख्यद्वयेन प्रयोजनं तत्प्रतिपत्तावपि तदन्येनेत्यनवस्थानमिति चेत् ; न; विचारोल्लेखभेदप्रतिपत्तावपि एवंप्रसङ्गात् तत्रापि तदाभिमुख्यभेदेन प्रयोजनं तत्प्रतिपत्तावपि तदन्येन तत्प्रति. भेदेनेत्यनवस्थानस्याविशेषात् । नास्त्यनवस्थानम् , परतस्तदुल्लेखानामपरिज्ञानात् । 'परतो हि तत्परिज्ञाने तत्राभिमुख्यभेदापेक्षणात्तद्भवत्यनवस्थानं तत्परिज्ञानेऽपि तदपराभिमुख्यभेदस्यावश्यापे. क्षणीयत्वात् , न चैवम् , स्वत एव तेषां परिज्ञानात् । स्वतः परिज्ञाने परस्परस्वरूपापरिज्ञानात् ५ कथं तन्नानात्वपरिज्ञानम् ? इत्यपि न मन्तव्यम् ; तत्परिज्ञानस्य तदविष्वग्भावात्मना विचारेणैव भावात्, तस्य निरवशेषतदुल्लेखविषयत्वादिति चेत् ; सिद्धं नः समीहितम् , आत्मरूपयोरपि स्वपराभिमुखयोरेवमात्मनैव तदभेदिना प्रतिपत्तेरनवस्थानदोषानवतारात् । पराभिमुख्यस्यापि स्वतः परिज्ञाने तदपि स्वाभिमुखमेव भवेत् , अन्यथा ततस्तत्परिज्ञानायोगादित्यन्यदेव पराभिमुखं तदभ्युपगन्तव्यम् , तस्यापि स्वतः परिज्ञानेऽपि ततोऽपि परं पराभिमुखमभ्युपगन्तव्य. १० मिति कथं तदोषानवतार इति चेत् ? न; परापरस्य स्वाभिमुख्यस्याभावात् । कुतस्तर्हि पराभिमु ख्यस्य परिज्ञानमिति चेत् ? प्रथमादेव स्वाभिमुखतः, तस्मात्तस्य कथञ्चिदव्यतिरेकात् , आत्मन स्तद्विवर्त्तज्ञानस्वपराभिमुख्ययोरप्येकमेव स्वसंवेदनमिति न स्वसंवेदनरूपत्रयं सम्भवति । व्यतिरेकनयार्पणया सम्भवत्येवेति चेत् ; न; तथापि तत्परिज्ञानार्थमात्मान्तरपरिकल्पनं नँयतोऽप्येकान्ततस्त तिरेकस्याभावात् , अन्यथा विचारात्तदुल्लेखानामपि ततस्तथा व्यतिरेके १५ तत्प्रतिपत्त्यर्थ विचारान्तरपरिकल्पनस्यापि प्रसङ्गात् । तत इदमैविचारज्ञतयैव प्रतिपादितम्'ततः स्वसंवेदनरूपत्रयम्' इत्यादि ।
___ कथं पुनः स्वपराभिमुखयो रूपयोरात्मनश्चान्वयिव्यतिरेकितया विरुद्धधर्माध्यासे सति परस्परमविष्वग्भाव इति चेत् ? न; विचारतदुल्लेखानामपि तत एव तदभावापत्तेः। विचा. रोऽपि मा भूदिति चेत् ; क पुनरिदानी भवतः स्थितः (ता) प्रज्ञता ? संवेदनाद्वैत २० इति चेत् ; भेदे जीवति कथं तद्वैतम् ? निराकृते तस्मिन् तदिति चेत् ; न; विचारादेव तन्नि करणात् , तस्य चाभावात् । अविद्योपप्लुतानामस्त्येव विचारः, तत्परिशुद्धावेव तदभावादिति चेत् ; कुतः पुनस्तदुपप्लवापेक्षणं विचारस्य ? स्वयमप्युपप्लवत्वादिति चेत् ; कथं ततस्तात्विक भेदनिराकरणं तद्विधिवत् ? कथं वा सति तस्मिन्निरुपप्लवं तदद्वैतम् ? तस्याप्यन्यतो विचारान्निराकरणादिति चेत् ; न; अनवस्थाप्रसङ्गात् । नायं दोषः प्रदीपकल्पत्वाद्विचारस्य । २५ प्रदीपो हि तैलवादिकं निर्दह्य स्वत एवोपशाम्यति न तत्र निमित्तान्तरमपेक्षते तद्वद्विचारोऽपि भेदजालं निराकृत्य स्वत एव निराक्रियते न तत्र विचारान्तरमपेक्षते इति चेत् ; ततस्तनिराकरणं "नाम तदभाववेदनमेव । तञ्च न स्वयम् ; तद्रूपत्वेन विरोधात्-'अभावश्चेन्न वेदनम् , तञ्चेत् नाभावः' इति । अविरोधे वा तदद्वैतस्याप्यभावस्यैव वेदनत्वमिति नोपप्लवात्तस्य विशेषः ।
परतोऽपि तत्प-आ०, ब०, प०।२-ज्ञानस्वरूपाभि-आ०, ब०, प० । ३ भेदविवक्षया । ४ भेदप्राहिनयेनापि सर्वथा भेदस्य सिद्ध्यभावात् । ५-मविचारितयैव आ०, ब०,१०। ६ विचारात्तदुल्लेखनमपि ५०। विचारातदुल्लेखनमपि । आ०, ब०। ७ स्थितः प्रज्ञा सं-आ०, ब०, ५०। ८ तदद्वैतस्याप्य-आ०, ब०, ५०।९-दिकरैनिंद-आ०, ब०, ५० । १० नाम निवे-प० । नाम तदभावे निवे-आ०, ब० ।