________________
न्यायविनिश्चयविवरणे
[११३८
२८०
सति देवदत्तयज्ञदत्त परिच्छिन्नमिव न द्वयमिति वेद्येत 'मया विदितमेतत्' इति च न स्यात् कर्तुरसंवेदनत्वेनानवभासनात् । ततश्च ते एव स्वसंवेदने स्याताम् । तथा च सन्तानान्तरप्रतिपन्नवदप्रतिपत्तिर्द्वयोः । अत एवात्मा द्वयोः प्रतिपत्तेष्यते, अन्यथायं प्रसङ्ग अत्रोच्यते
इति परः;
२५
स्ववेदनेतरत्वेन पूर्वन्यायानतिक्रमात् ।
सोऽपि पर्यनुयोगेन नैवानेन विमुच्यते ॥ ७२४ ॥
यदि स्वसंवेदनरूप आत्मा तस्य स्वात्मनि निमग्नत्वात् न परवेदनम् । परस्यापि वेदने को विरोध इति चेत् ? ' तेन रूपेण परं वेत्ति परेण वा' इति विकल्पयोरेकत्र स्थातव्यम् । 'स्वरूपेण वेत्ति' इति न युक्तम्, 'स्वरूपस्य स्वात्मनि व्यवस्थानात् । स्वरूपे निविष्टं १० यद्रूपं स्वाभिमुखमेव, तत्कथं परं वेत्ति ? अन्यमुखञ्चेत्; तेन तर्हि स्वात्मा न प्रतीयते । ततः सन्तानान्तरवेदनवन्न द्वयप्रतीतिः । यस्य तदाभिमुख्यद्वयं स एक एवेति चेत्; 'द्वयमेतत्' इति कः प्रतिपत्तिमान् ? स एव इति चेत्; पुनराभिमुख्यद्वयेन प्रयोजनमित्यनवस्थानं स्यात् । ततः स्वसंवेदनरूपत्रयम्, ततस्तद्वेदने पर आत्मोपगन्तव्यः पुनरपर इति महत्यनर्थपरम्परा । ततः स्वविषयमेव ज्ञानं न बहिर्विषयमिति चेत्; कथमेवं कचित्कस्यचिद्विभ्रमः स्यात् ? १५ असदवभासित्वं हि विभ्रमः, तच्च बहिर्विषयस्यैव सम्भवति न स्वरूपविषयस्य, स्वरूपस्य विद्यमानत्वात् । विभ्रम एव मा भूदिति चेत्; न; तस्य प्रसिद्धत्वात् । विचारासहैव तत्प्रसिद्धिरिति चेत् ; कोऽसौ विचारो यदसहत्वं तत्प्रसिद्धेः ? 'कथं पुनः बाह्यस्य प्रहणम्' इत्यादिरेवेति चेत्; न; तस्य जडत्वे स्वयमेवासम्भवादप्रतिपत्तेः । न हि तस्य स्वतः प्रतिपत्तिर्जाड्यात् । परतः इति चेत्; न; ततोऽपि स्वरूपमात्राभिमुखात्तदयोगात् ' स्वरूपस्य स्वा२० त्मनि' इत्यादिवचनात् । विचारेऽप्यभिमुखमेव तदिति चेत्; न; तत्रापि 'किमेवं द्वे रूपे स्तः ' इत्यादेर्निरवशेषस्य प्रसङ्गस्योपनिपातात् । तन्न ज़ेडो विचारः । चेतन एवेति चेत्, तस्याप्येकाकारत्वे कथं तत्र परापरस्य पूर्वपक्षोल्लेखस्य तदुत्तरोल्लेखस्य चोपदर्शनं विरोधात् ? अनेकाकारत्वेऽपि यदि प्रत्युल्लेखं तद्भेदस्तदा कुत 'इदमत्रोत्तरम्' इति पूर्वपक्षतदुत्तरयोर्विषयविषयिभावज्ञानम् ? पूर्वपक्षोल्लेखस्य तदुत्तरे तदुल्लेखस्य च पूर्वपक्षे प्रतीत्यभावात् । न च तद्भावापरिज्ञाने विचारः, तस्य ताद्रूयात् । सन्तानरूपेण भेदो विद्यत इति चेन्; न; तस्यावस्तुसरखे विचारस्यापि तत्त्वापत्तेः ताद्रूप्यात् । तत्र च दोषस्य वक्ष्यमाणत्वात् । वस्तुसदेव तद्रूपमिति चेत् ; न; "आत्मसिद्धिप्रसङ्गात् परापरज्ञानपर्यायाविष्वग्भावस्यैवात्मत्वात् सति तस्मिन् निर्बाधमेव बाह्यग्रहणं स्वपररूपगोचरस्याभिमुख्यद्वयस्य तत्र भावात् । तद्द्द्वयप्रतिपत्तावप्यपरे -
१
,
१ स्वरूपं स्वा-आ०, ब० । स्वरूपस्या- प० । २ विशिष्टं प० । ३ तस्याविद्धत्वात् आ०, ब० । ४ विभ्रमप्रसिद्धिः । ५ जातो वि-धा०, ब०, प० । ६ विषयविषयिभावापरिज्ञाने । ७ नासिद्धि-आ०, ब०, प० । ८ स्वरूपगो-आ०, ब०, प० ।