________________
२७९
२॥३८)
प्रथमः प्रत्यक्षप्रस्तावः तदभ्युपगमात् । अन्यस्यैव तत्र प्रतिभासनमिति चेत् ; कथं तत्केशादेन्तित्वम् ? अन्यस्यैव तदुपपत्तेः । तत्सादृश्यादिति चेत् ; तस्यापि कथं तत्त्वं येनैवमुच्येत । तत्र बहिरसतः केशादेः प्रतिभासनादिति चेत् ; न; प्राच्येऽपि तज्ज्ञाने तथैव तत्प्रसङ्गात् । इति सिद्धं मुख्यतयैव तस्य भ्रान्तित्वं ततश्वाऽस्वसंवेदनमिति 'द्वितीयेऽपि ज्ञाने तदनुप्रविष्टस्यैव तस्य प्रतिभासनम् । बहीरूपत्वं तु ज्ञानान्तरोपदर्शितमेवेति चेत; न; तत्रापि 'न हि' इत्यादेर्दोषस्य परिभ्र.५ मादव्यवस्थापत्तेः ।
एतनैव तदपि प्रत्युक्त यदुक्तमलङ्कारे-"विकल्पो ग्राह्यग्राहकोल्लेखेनोत्पत्तिमान् सोऽपि स्वरूपे ग्राह्यग्राहकरूपरहित एव परेण तथा व्यवस्थाप्यते न तस्यापि स्वतो व्यवस्था" [प्र० वार्तिकाल० ३।३३० ] इति । कथम् ?
'विकल्प एव नैवं स्यादनवस्थानदोपतः । तदभावे कथं नाम वचोऽप्येतत्प्रवर्त्तताम् ।।७१६॥ "वाच्यवाचकसम्बन्धज्ञाने हि वचनं भवेत् । नापरं तच्च विज्ञानमन्यत्र सविकल्पकात् ॥" [ ] तत्संस्काराद्वचोवृत्तिरित्यप्यतेन दूषितम् । विकल्पभादिसंस्कारस्तदभावे न यद्भवेत् ॥७१८॥ तद्वचोऽपि न चेन्नास्य निबद्धस्यावलोकनात् । प्रान्तिरेव तवेयं चेत्केयं भ्रान्तिर्निंगद्यताम् ॥७१९॥ र्वचस्यविद्यमानेऽपि तत्सत्त्वारोपणं यदि । विकल्पादेवं नन्वेतत्तदभावस्ततः कथम् ? ॥७२०॥ मिथ्याज्ञानं ततः किश्चिद्वस्तुवृत्त्यैव कथ्यताम् । बाह्यमेव च तद्बाह्यं तन्मिथ्यारूपमित्यपि ॥७२१॥ तज्ज्ञानस्य स्वरूपञ्च तद्वन्मिथ्या भवेद्यदि । तद्वदेव न तस्य स्यात्स्वसंवेदनमाञ्जसम् ॥७२२।। अस्ति चैतत्ततस्तन्नासत्यं सूक्तमिदं ततः । 'न स्वसंवेदनात्तुल्यं भ्रान्तरन्यत्र चेन्मतम् ॥७२३॥ इति । २५
कथं पुनर्बाह्यस्य ग्रहणम् ? कथञ्च न स्यात् ? स्वाभिमुखेन रूपेण तदयोगात् । स्वरूपस्यैव हि तेन ग्रहणमुपपन्नं न बाह्यस्य, तदभिमुखेनैव रूपेण ग्रहणं न स्वाभिमुखेनेति चेत् ; किमेवं द्वे रूपे स्तः ? तथा चेत् ; कुतस्तयोः प्रतिपत्तिः ? परस्पराभ्यामिति चेत् ; तथा
१ ततश्च स्व-मा०, ब०, प० । २ द्वितीये वि-भा०, २०, ५० । ३ एकेनैतदपि भा०, ब०, प०। ४ विकल्प एव मा०, ब., प०। ५ निबन्धस्वा-प्रा०, २०, ५०। ६ वाच्यस्य वि-पा०, ब.. ५०। ७-4 तन्नेत-आ०,०,५०।