________________
न्यायविनिश्चयविवरणे
[ ११३८
आत्मानमात्मा अभूतमवलम्बते इत्येतत् न । कुत: ? स्वेन आत्मना संवेदनात् प्रतिपत्तेस्तदात्मनः । तात्पर्यमत्र - यद्याधिपत्यं तस्याभूतमेव कुतस्तेनात्मनस्तत्केशादेर्वावलम्बनम् ? इत्यसिद्धं साधनं तद्विकलता च दृष्टान्तस्य । भूतमेवेति चेत्; कुत एतत् ? तथैव स्वसंवेदनाप्रत्यक्षात्प्रतिपत्तेरिति चेत्; प्रत्यक्षवाधितस्तर्हि भवदीयः पक्षस्तस्य कथं हेतुबलेन व्यवस्था५ पनम् ? " न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो हतः " [ ] इति न्यायात् । न भूतं नाप्यभूतं तत् तस्य तदुभयविकल्पातीतत्वादिति चेत् ; तन्न; यस्मात् -
१०
१५
२७८
२०
तद्विकल्पव्यतीतत्वं यद्यभूतमुदीर्यते ।
?
तयोरन्यतरः कल्पो भवेदुक्तंप्रतिक्रियः ॥ ७११ ॥ भूतं चेदाधिपत्यञ्च तद्वद्भूतं न किं मतम् । भूताभूत विकल्पाभ्यां निर्मुक्तं तदपीति चेत् ॥ ७१२ ॥ अनवस्थानदोषेण तदेतत्पीडितं वचः । वक्तुश्चित्तपरिक्लेशमावहत्यतिदुःसहम् ॥७१३॥ तस्माद्दूरमुपेत्यापि तद्भूतमंभिवाञ्छता । बोधात्मा भूत एवायमभ्युपेतो भवत्यलम् ॥ ७१४ ॥ तस्मादालम्बनं तस्य नाभूतस्योपपद्यते ।
इति सूक्तमिदं देवैः 'न स्वसंवेदनात्' इति ॥ ७१५॥
पर आह-तुल्यं सदृशम् आत्मनीवाकारेऽपि तत्केशादौ स्वसंवेदनं तस्यापि 'तदनर्थान्तरत्वेनैव प्रतिवेदनात् । न हि तत्रापरं तद्वेदनमुपलभ्यते । इदमेव च स्वसंवेदनं यदन्यनिरपेक्षमुपलम्भनमिति भावः परस्यै ।
ननु इदं प्रागेव प्रतिविहितम् अन्योपलम्भस्य व्यवस्थापनात्, तत्कि पुनरुपक्षेपेणेति चेत् ? न; अन्यथा दूषणप्रतिपादनार्थत्वात् । तदेवाह - भ्रान्तेरिति । 'न' इत्यनुवृत्तम् । दुक्तं 'तुल्यम्' इति । तन्न; कुतः ? भ्रान्तेर्विभ्रमात् मिध्यात्वात्तदाकारस्य । न हि ज्ञानाकारस्य मिध्यात्वमुपपन्नं ज्ञानस्यैव तत्प्रसङ्गात् । प्रसिद्धश्च भ्रान्तितया तदाकारः । ततो न स्वतस्तस्य संवेदनम् । अभ्रान्तिरेवासौ ज्ञानरूपतया भ्रान्तिम्तु बहीरूपत्वेनैवासतेति चेत्; न; तस्य तथाs. २५ नवभासनात्, अन्तारूपतयैव प्रतिपत्तेः, अप्रतिभासने च न भ्रान्ति:, अतिप्रसङ्गात् । प्रतिभा
सत एव ज्ञानान्तरे तद्रूपतया । तदाह 'अन्यत्र चेत्' इति । अन्यत्र ज्ञानान्तरे तत्प्रतिभास इति भ्रान्तिः तदाकारः चेत् यदि इति । तत्रोत्तरमाह - 'मतम्' इति । 'न' इत्यधिकृतम् । इदमभिमतं न सम्भवतीत्यर्थः । न हि ज्ञानाकारस्य ज्ञानान्तरे प्रतिभासनम् अनन्यवेद्यतया
१ - क्तप्रतीतितः आ०, ब०, प० । २ - तमपि वा-आ०, ब०, प० । ३ ततः सूक्त - आ०, ब०, प० । ४ तदर्था - आ०, ब०, प० । ५ " एतदेव स्वसम्वेदनं यदन्यागोचरत्वे सति प्रकाशनं नाम । " - प्र० वार्तिकाल ० ३। ४६६ । ६ युकं आ०, ब०, प० । ७ सवति आ०, ब०, प० ।