________________
२०
११३८]
प्रथमः प्रत्यक्षप्रस्ताव हार इत्यपि संवत्यैव न वस्तुतः । ततो यदि तस्य विचार्यमाणस्यायोगो न कश्चिदोषो विचाराक्षमत्वस्यैव तद्रूपत्वादिति चेत् ; न; वास्तवस्यैव तद्व्यवहारस्य प्रसङ्गात् । तन्मिथ्यात्वस्य मिथ्यात्वे गत्यन्तराभावात् ।
अपि च, द्वितीयस्यामपि संवृतौ पूर्ववत्प्रसङ्गः तस्यास्तत्फलस्य चापरिज्ञाने न तद्भाव. स्याभ्युपगमः । परिज्ञानश्च यदि क्वचिदननुप्रविष्टतयैव किन्न 'वस्तुतः तटस्थतयैव प्रतिभास- ५ नम् ? तयोरपि संवृत्यैव तद्भावः परिकल्प्यते तस्य च विचारपरिशिथिलत्वं न दोषायेति "चेत् ; तन्न; अव्यवस्थापत्तेः । ततो दूरमनुसृत्यापि कयोश्चित्संवृतितत्फलयोः पारमार्थिक एव तद्भावोऽभ्युपगन्तव्यः। स च तयोः क्वचिदहिभूतयोरेव प्रतिभासते(ने) सम्भवति नान्यथा । तथा च ध्यामलाकारस्यापि तज्ज्ञानबहिर्भूतस्यैव प्रतिभासनमिति सिद्धं तदेकत्वनिश्चयस्य तेन बाधनाविभ्रमत्वम् ।
यदि धन (पुन) रसत एव तदाकारस्य भ्रान्तिसामयेन बहिरवभासनं कथं तज्ज्ञानस्यास्पष्टत्वं यतः परोक्षतया प्रमाणत्वम् ? कथं वा बहिरभिव्यक्तेन रूपेण तज्ज्ञानस्य स्पष्टत्वं यतः प्रत्यक्षतया प्रमाणत्वमिति चेत् ? न; अभिप्रायापरिज्ञानात् । न घालोकालिङ्गितवस्तुविषयतया स्पष्टत्वं प्रत्यक्षस्य श्रोत्रादिप्रत्यक्षस्य तद्भावा (तदभावा)पत्तेः, अपि तु क्षयोपशमादिनिमित्तो ज्ञानस्य विशुद्धिविशेष एव । अस्पष्टत्वमप्यपकृष्टस्तद्विशेष एव न ध्यामलाकारकवलितवस्तु- १५ प्रतिभासित्वमेव, स्मरणादौ तदभावापत्तेः । प्रतिपादितं चैतत्पूर्वम् । ततो नानकारशङ्केऽपि
मिरविषयादौ प्रकाशनियमस्य हेतुनिबन्धनत्वं त्रुट्यति यतोऽन्यत्रापि तन्निदर्शमेन तत्त्रुट्यत्ता व्यवस्थाप्येतेति स्थितम् ।
इदानीं 'प्रकाशनियमो हेतोः' इत्यादिकमेव व्याचिख्यासुरवसरप्राप्तं चोधमुस्थापयति
यथैवात्मायमाकारमभूतमवलम्बते ।
तथैवात्मानमात्मा चेदभूतमवलम्बते ॥३७॥ इति । यथैव येनैव भ्रान्तेराधिपत्येन प्रकारेण नापरेण आत्मा स्वभावो ज्ञानस्य तस्यैवासम्बकत्वोपपत्तेः अयं प्रत्यात्मवेदनीय आकारं तैमिरकेशादिकम् अभूतम् अविद्यमानम् अवलम्बते जानाति तथैव तेनैव प्रकारेण आत्मानं स्वरूपम् आत्मा अभूतम् २५ असन्तम् अवलम्बते चेत् यदि । तथा हि, यद् बोधाधिपत्येनावलम्बते तदभूतम् यथा . मिरकेशादि, बोधाधिपत्येनावलम्ब्यते च बोधात्मेति । तत्रोत्तरमाह
न स्वसंवेदनात् [तुल्यं भ्रान्तरन्यत्र चेन्मतम् । ] इति ।
संवृतिस्वरूपत्वात् । द्रष्टव्यम्-पृ.१४ टि.४।२'संवृत्या व्यवहारः' इत्यस्य मिथ्यारूपत्वे । ३ हेतुफलभावस्य । तद्भावस्याप्युपग-बा०, ब०,०। ४ वातुतट-आ०, ब०, ५०।५ चेन्नाव्यव-आ०, १०, प०। ६ घनस्तत प.। ताडपत्रं त्रुटितम् । ७-शानं न-मा०, ब०, १०। ८ तद्भावोपपत्तेः । तद्भा. बोपत्तेः भा०,०।९-शमनादि-आ०,०,०।