________________
२७६
न्यायविनिश्चयविवरण
[११३६ दृष्टस्तु कार्य नास्त्यन्यन्नार्थः कार्यतया स्थितः । तथा समागमादेव यदि नीलापि सोच्यताम् । कुड्यं ममेयं दृष्टिहि न कदाचित्त्येष्यते । तस्मादस्पष्टता दृष्टः सर्वलोकप्रतीतितः ॥
निश्चयो न हि सर्वेषामकस्माद्भान्त उच्यते ॥” [प्र०वार्तिकाल० २।४१०] इति चेत् ; न; तन्निश्चयस्योपचारेण भावात् , उपचारस्य विषयभावेनोपपत्तेः । न चैवं धर्मान्तरस्याप्युपचारः ; बा (वा) हीके गोत्ववत्तिष्ठन्मूत्रत्वस्यापि तत्प्रसङ्गात् । कदाचिदस्त्येवायमपीति चेत्, न; दर्शनेऽपि कदाचिद्विषयव्यपदेशस्य भावात् , 'पावकोऽत्र धूमात्' इत्यत्र धूमदर्शनस्यैव
धूमत्वेन व्यपदेशात् । ततः 'कुड्यं ममेयम्' इत्यादि पराभिप्रायानभिज्ञतयैव प्रतिपादितम् , १० कादाचित्कस्य विषयव्यपदेशस्य विषयिणि परेणाभिप्रेतत्वात् । न च तन्निश्चयस्याकस्मादेव भ्रान्तत्वमुच्यते, बाधकादेव तदेभिधानात् । तर्च बहिर्भावेन प्रतिभासनमेव।
ननु न संवेदनात्तस्य बहिर्भावः, तस्यैवं तब्यतिरिक्तस्याभावादनुपलम्भात् , अस. 'तश्चानपादानत्वात् । न च तदात्मन एव तस्य बहिर्भावो विरोधात् । 'ममायंबहिरेव ध्यामलाकारः'
इति व्यवहारस्तु शारापेक्षयैव, ममत्वेन शरीरस्य व्यपदेशात् । स्वरूपप्रतिभासे” हि न वट. १५ स्थातटस्थते "व्यवहारमात्रमिदम् , आश्रयापेक्षया परम्" [ ] इति वचनादिति
चेत् ; न; शरीरस्यापरिज्ञाने ममत्वेन निर्देशानुपपत्तेः सुप्तशरीरवत् । न च तस्य परतः परिज्ञानम् अनभ्युपगमात् । स्वतन्तु परिज्ञाने भवतु 'मम' इति न पुनामलाकार इति तस्य तेनापरिज्ञानात् । “न हि स्वसंवेदने परसंवेदनम्" [ ] इति वचनात् । मा
भूच्छरीरापेक्षयापि "तस्य "तटस्थत्वमिति चेत् ; कथं तद्व्यवहारः ? संवृतिमात्रादिति चेत् ; २० "कुतस्तयोर्हेतुफलभावप्रतिपत्तिः ? न कुतश्चिदिति चेत् ; कथमभ्युपगमस्तद्विपर्ययवत् ? न च
संवृतिमात्रात्तद्भावप्रतिपत्तिः तेन व्यवहारस्यापरिज्ञानात् । नापि व्यवहारात्; तेनापि तन्मात्रस्याप्रतिवेदनात् । न च "तयोरेकेन परिज्ञानाभावे तद्धेतुफलभावस्य परिज्ञानम् । भवतु तदुभय. विषयमेकमेव किश्चिद्विज्ञानमिति चेत् ; न; यतस्तत्रापि तयोरनुप्रवेशे न हेतुफलभावः तस्य भेदनिष्ठत्वेनैकत्रासम्भवात् । अननुप्रवेशे सिद्ध"तयोस्तदपेक्षया तटस्थत्वम् । संवृत्या तद्व्यव
१ -र्थका-आ०, ब०, प० । २ दृष्टिः । ३ चेत् दर्श-आ०, ब०, प० । ४ -नभिज्ञातयैप्र-मा०,०, प०। ५ भ्रान्तत्वकथनात् । ६ बाधकश्च । ७ ध्यामलाकारस्य । ८ यतः ध्यामलाकारसंवेदनोरभेदः अतः तस्यैव संवेदनस्वरूपस्यैव ध्यामलाकारस्य कथं तस्माद् व्यतिरिक्तत्वमिति भावः। ९ पृथगनुपलब्धस्य संवेदनस्य 'संवेदनात्तस्य बहिर्भावः' इत्यत्र न अपादानत्वं युज्यते। तश्चानुपादान-प०। -तश्चानुपाधान-आ.. ब०। .. तत्स्वरूपादेव संवेदनात् तस्य ध्यामलाकारस्य । ११ -सेन तटस्था तटस्थवत्त्वे ५०।-सैन तटस्थातटस्थते आ०, ब०।१२-मायापेक्ष-आ०, ब० ।-मात्रापेक्ष-१०। १३ ध्यामलाकारस्य । १४ तदवस्थत्वमिति भा०, ब., प०।१५ संवृति-व्यवहारयोः । १६-रेकापरि-आ०,०प० । १० उभयविषयकज्ञानेऽपि । १८ संवृतिव्यवहारयोः। १९ उभयविषयकज्ञानापेक्षया ।